सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 732, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 732

६७८ मीमांसादर्शनम् [ सू०
व्यपदेशस्य भिन्नत्वादाख्याया लक्षणस्य च ।
स्वरोच्चारणभेदाच्च लोपव्यत्ययदर्शनात् ॥ १०४६
स्वरयूपादिशब्दैश्च स्पष्टभेदैः सह श्रुतेः ।
अनध्यायादिभेदाच्च शूद्रोच्चारणवर्जनात् ॥ १०४७
अश्वबालादिशब्दानां स्पष्टार्थान्तरदर्शनात् ।
अग्न्यादीनां च भिन्नत्वं भाष्ये यदभिधीयते ॥ १०४८
तदयुक्तं क्रियाभेदे कर्तृभेदे१ हि नेष्यते ।
हन्ति कर्तृत्वमग्नेश्च पदार्थेभ्यः प्रतीयते ॥ १०४९
अशाब्दं वह्निशब्दस्य तद्वाच्यं कथमुच्यते ।
हननं किं कृतं नेति प्रमाणं चात्र नास्ति नः ॥ १०५०
असता कथमन्यत्वं कर्मणाऽतः प्रतीयते ।
अपूर्वे वृत्रशब्दार्थे क्रियाशब्देऽप्यलौकिके ॥ १०५१
हन्तिकर्त्तरि वह्नित्वं कथमध्यवसीयते ।
स्तुतिमात्रपरत्वाच्च न वह्नित्वं विधीयते ॥ १०५२
अक्रियत्वाच्च भाष्योक्तैर्वाक्यैरित्यभिधास्यते ।
तेनोक्तस्यैव शब्दस्य त्रिवृदादेर्नवादिषु ॥ १०५३
वृत्तिरर्थेष्वपूर्वेषु वक्तव्या भेदसिद्धये ।
भेदपक्षे हेत्वन्तरोपन्यासः
यच्चान्यदिदमित्याह२ रूपभेदं क्रियाश्रुतेः ॥ १०५४
तदसत्यं न शब्दस्य भेदोऽर्थगुणकारितः ।
तेन स्वरादिभेदेन वक्तव्या भिन्नरूपता ॥ १०५५
पूर्वोक्तेनैव मार्गेण नार्थभेदनिबन्धना ।
तस्माच्छब्दार्थयोर्भेदः स्पष्ट इत्यवधारिते ॥ १०५६
तावेव वेदे शब्दार्थौ लोके याविति भाष्यते ।
वेदस्यैव प्रसज्येत सकलस्याप्रमाणता ॥ १०५७
अविज्ञातार्थसंयोगात्स्थितप्रामाण्यबाधया ।
प्रयोगस्याग्निहोत्रादेश्चोदनायाश्च जायते ॥ १०५८
१ क. कर्तृभेदो ।
२. लोकवेदयोः शब्दार्थानामनन्यत्वनिरूपणावसरे भाष्यकार इति शेषः ।