सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 337, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 337

गन्धयुक्त्यध्यायः ३०९
प्रवालं विद्रुमाख्यं च वल्ली स्यान्नलिका नली।
स्पृक्काऽसृग्ब्राह्मणी माला देवी च परिभाष्यते।।
चक्राङ्गी कटुकी गन्धा जटिलोग्रा जया वचा।
कर्चुं कर्पूरमुग्रं च गन्धमूलं च कीर्त्यते।।
पुष्पा समन्तपुष्पा च शतपुष्पा शता मसिः।
कुसुमालो भवेच्चण्डः स्तेनश्चौरोऽथ तस्करः।।
आकृष्टं केशपलितं जरा स्थविरसंज्ञितम्।
गिर्याख्यं गिरिजाख्यं च शैलेयं समुदाहृतम्।।
दार्वा दारु निशाख्या च कालेयं पीतचन्दनम्।
पीता हरिद्रा नक्ताख्या दारु तद्देवदारु यत्।।
रक्ता समङ्गा मञ्जिष्ठा मधुकं मधुयष्टिका।
धान्याकं धान्यकं धानीयकं कुस्तुम्बुरु स्मृतम्।।
मरुं मरुबकं मूर्वी फणिज्जं सानवं तथा।
सर्जा सर्जरसासंज्ञा राला चेह निगद्यते।।
पुरं गुग्गुलु भद्रं च भद्राख्यं महिषाक्षकम्।
रोहिषं पेशलं प्राहुः पर्यासं च कुठेरकम्।।
क्षीरदध्याज्यसंज्ञश्च श्रीवासः श्रीश्च वासकः।
जतु लाक्षा कृमिस्तज्जा धात्रीमामलकं विदुः।।
हरीतक्यभया पथ्या विजया प्राणदाऽपि च।
कलिर्विभीतकं चाक्षं त्रिफलं स्यादिदं त्रिकम्।।
शुण्ठीमरीचपिप्पल्यर्यूषणं सर्वसंयुता।
त्रिफला सत्रिजाता च त्रिवर्गं त्रितयं स्मृतम्।।
त्वक् पत्रैला त्रिजातं स्याच्चतुर्जातं सकेसरम्।
त्रिफला स्यात्तु कक्कोलकटुजातिफलैस्त्रिभिः।।
घृतेन्दुकुङ्कुमैः पञ्चसुगन्धिः कोलपुष्पवृत्।
कोलोञ्झितः सदपँश्च देवराजः सदैव हि।।
कर्पूरं कुङ्कुमं दर्प त्रितयं स्यात् त्रिगन्धिकम्।
लवङ्गफलकक्कोलकटुकर्पूरकुङ्कुमैः ।।
त्वग्लताजातिचूतोत्थरसैर्दशसुगन्धिकः ।
तीक्ष्णं मरीचमिच्छन्ति चित्रकं वह्निसंज्ञकम्।।
रोचना रुचिरा ज्ञेया शर्करा सिकता सिता।
पुष्पासवः पुष्परसः सारघं मधु माक्षिकम्।।
क्षौद्रं भ्रामरमित्याहुस्तन्मलं सिक्थकं विदुः।
मदनं च मधूच्छिष्टं मधुसारं च पण्डिताः।।