बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 324, कुल 760 में से
संदर्भ में पढ़ें२९६ बृहत्संहिता
यस्यास्ति विद्यते। पुरुषो निःस्वोऽपि निर्धनोऽपि साम्प्रत्यवनीश्वरोऽसौ, अहमेव मन्ये यथाऽसौ
राजा। केचित् सम्प्रत्यवनीश्वरोऽसाविति पठन्ति। यथा सम्प्रति तस्मिन्नेव काले स राजा।
अपिशब्दः सम्भावनायाम्। ईश्वरस्य का गणना। यस्माद्राज्यस्यैतावत् सारः श्रेष्ठम्। अशनं
भोजनमङ्गनाश्च स्त्रियः शेषमन्यद्वस्त्रादिकं तृष्णानलस्य तृष्णाग्नेरुद्दीपने ज्वलने दारु काष्ठ-
निचयः। यतस्तेनाग्निरधिकतरं प्रज्वलति।।१७।।
अन्यत् प्रशंसार्थमाह—
कामिनीं प्रथमयौवनान्वितां मन्दवल्गुमृदुपीडितस्वनाम्।
उत्स्तनीं समवलम्ब्य या रतिः सा न धातृभवनेऽस्ति मे मतिः ॥१८॥
मन्द, सुन्दर, कोमल और पीड़ित शब्द करती हुई, ऊँचे स्तनों से युत नवयौवना
स्त्री को आलिङ्गन करने से जो सुख प्राप्त होता है, वह ब्रह्मलोक में भी प्राप्त नहीं
होता—ऐसा मेरा मत है।।१८।।
कामिनीं समुद्गतमन्मथां तां च प्रथमयौवनान्वितामभिनवयौवनोपेताम्। मन्दमल्पं
वल्गु रम्यं मृदु मधुरं पीडितं स्तब्धम्। शनैरालिङ्गिता सती मन्दवल्गुमृदुपीडितं स्वनं
शब्दं कुर्वतीम्। उत्स्तनीमुद्गतस्तनीमुद्भिद्यमानकुचाम्। एवंविधां स्त्रियं योषितं समवलम्ब्य
परिष्वज्य या रतिर्भवति सुखं यादृशं सञ्जायते सा धातृभवने प्रजापतिगृहे ब्रह्मलोके
नास्ति न विद्यत इति मम मतिर्बुद्धिः। एवमहं मन्ये इति। महता क्लेशेन तपसा ज्ञानेन
योगादिना वा ब्रह्मलोकमासाद्य तत्र किमनुभूयते।।१८।।
इत्येतदाह—
तत्र देवमुनिसिद्धचारणैर्मान्यमानपितृसेव्यसेवनात्।
ब्रूत धातृभवनेऽस्ति किं सुखं यद्रहः समवलम्ब्य न स्त्रियम् ॥१९॥
देवता, मुनि, सिद्ध और चारण (नट, नर्तक, गीतज्ञ और वाद्यज्ञ) के द्वारा पूजनीय,
पूजक और सेव्यों की उपासना के अतिरिक्त ब्रह्मलोक में और कौन-सा सुख है, जो
एकान्त में स्त्री को आलिङ्गन करने से नहीं प्राप्त होता है।।१९।।
तत्र तस्मिन् धातृभवने ब्रह्मलोके। देवैः सुरैः। मुनिभिः। सिद्धैर्विद्याराधनेन ये सिद्धदेव-
योनयः सम्पन्नास्तैः। तथा चारणैर्नटनर्तकगेयवाद्यज्ञैर्गन्धर्वाप्सरोभिर्मान्यानां पूजनीयानां मान-
पितॄणां पूजकानां सेव्यानां च सेवनादुपासनात् परतोऽन्यत् किं सुखमस्त्येतद् ब्रूत कथयत।
तत्र सेवकैः सेव्या आराध्यन्ते। मान्या मानपितृभिः पूज्यन्ते। एतावानेव। यद्रहो निर्जने
सुरतसमये स्त्रियं योषितमवलम्ब्य परिष्वज्य किं नास्ति किं न सुखं विद्यते, अपि तु सर्वं
ब्रह्मलोकादप्यधिकं तत्र विद्यत इत्यद्यतनैर्लोकैर्गणना कार्या।।१९।।
इत्येतदाह—
आब्रह्मकीटान्तमिदं निबद्धं
पुंस्त्रीप्रयोगेण जगत् समस्तम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA