बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 330, कुल 760 में से
संदर्भ में पढ़ें३०२ बृहत्संहिता
अथ दुर्जनं प्राह—
तृणैरिवाग्निः सुतरां विवृद्धिमाच्छाद्यमानोऽपि गुणोऽभ्युपैति ।
स केवलं दुर्जनभावमेति हन्तुं गुणान् वाञ्छति यः परस्य ॥१०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां सौभाग्यकरणं
नाम पञ्चसप्ततितमोऽध्यायः ॥७५॥
तृणों से आच्छादित हुये अग्नि की तरह छिपाये हुये गुण वृद्धि को ही प्राप्त होते हैं।
जो मनुष्य दूसरे के गुणों का नाश करना चाहता है, वह केवल दुर्जनता को प्राप्त करता
है, गुण का नाश करने से भी कदापि उसका नाश नहीं होता है॥१०॥
इति 'विमला'हिन्दीटीकायां सौभाग्यकरणाध्यायः पञ्चसप्ततितमः ॥७५॥
दुर्जनैः सज्जनस्य गुण आच्छाद्यमानोऽपि सुतरामतिशयेन विवृद्धिमुपैति वृद्धिं प्राप्नोति।
यथा तृणेनाच्छाद्यमानोऽग्निर्विवृद्धिं याति। यः परस्य गुणान् हन्तुं विनाशयितुं वाञ्छति
स केवलं दुर्जनभावं दौर्जन्यमेति प्राप्नोति, न साधोर्गुणविनाशो भवति। तस्याधिकतरा
गुणाः प्रकाशमायान्ति। यथा तृणैरग्निश्च्छाद्यमानः केवलमेव तृणानि तत्र दह्यन्त इति॥१०॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतावन्तःपुरचिन्तायां
सौभाग्यकरणं नाम पञ्चसप्ततितमोऽध्यायः ॥७५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA