बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 319, कुल 760 में से
संदर्भ में पढ़ेंस्त्रीप्रशंसाध्यायः २९१
प्रयत्न करते हुये, किये न किये सैकड़ों व्यापारों की शाखाओं से व्याकुल तन्त्रों को
विचार करते हुये, मन्त्रियों द्वारा कथित नीति का सेवन करते हुये, पुत्र आदि से भी
शङ्कित रहते हुये, दुःखार्णव में निमग्न राजाओं के लिये स्त्री का आलिङ्गन मात्र थोड़ा-
सा ही सुख होता है॥३॥
कान्तासमालिङ्गनं वल्लभापरिष्वजनं सुखलवः सुखलेशः। केषाम्? राज्ञाम्। कीदृशा-
नाम्? आकारं विनिगूहताम्, आकारोऽन्तश्चेतसि सुखभयहर्षादिरूपविकारः। तथाभूतमाकारं
विनिगूहतां प्रच्छादयताम्। तथा रिपुबलं शत्रुबलं जेतुमभिभवितुं समुत्तिष्ठतां प्रयत्नं कुर्वताम्।
तन्त्रं चिन्तयतां ध्यायताम्। कीदृशं तन्त्रम्? कृताकृतशतव्यापारशाखाकुलम्, व्यापाराणां
कर्मणां याः शाखाः विस्तारः, कृताश्च अकृताश्च कृताकृताः। कृताकृताश्च शतशो व्यापाराः
कर्माणि त एव शाखाः। ताभिराकुलं व्याप्तम्। किलानायकन्त्रं शतशाखाकुलं भवति।
मन्त्रिप्रोक्तनिषेविणाम्, मन्त्रिभिः सचिवैर्यत् प्रोक्तं कथितं नीतिशास्त्रविहितं नियमं तन्निषेविणां
तत् कुर्वतां मन्त्रिमतानुसारेण व्यवहरताम्। सर्वतः सर्वस्मात् पुत्रादप्याशङ्किनामाशाङ्कमानानां
दुःखाम्भोनिधिवर्तिनां कान्तासमालिङ्गनं सुखलव इति॥३॥
अन्यदप्याह—
श्रुतं दृष्टं स्पृष्टं स्मृतमपि नृणां ह्लादजननं
न रत्नं स्त्रीभ्योऽन्यत् क्वचिदपि कृतं लोकपतिना।
तदर्थं धर्मार्थौ सुतविषयसौख्यानि च ततो
गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥४॥
संसार में कहीं पर भी ब्रह्मा ने स्त्रियों के अतिरिक्त ऐसा कोई रत्न नहीं बनाया,
जिसके सुनने, स्पर्श करने, देखने या स्मरण करने से ही आनन्द प्राप्त हो सके। लोग
स्त्री के लिये धर्म और अर्थ की सेवा करते हैं। स्त्री के द्वारा पुत्रसुख तथा विषयसुख
मिलता है तथा स्त्री ही गृह में लक्ष्मी होती है; अतः मान तथा विभवों के द्वारा स्त्री का
सदा आदर करना चाहिये॥४॥
लोकपतिना प्रजापतिना स्त्रीभ्यो योषिद्भ्योऽन्यत् परं द्वितीयं न क्वचिदपि रत्नं कृतम्।
केवलमेव स्त्रीरत्नमित्यर्थः। स्त्रीरत्नं कीदृशम्? श्रुतं नाममात्रेण श्रुतमप्याह्लादकरम्। दृष्टम-
वलोकितम्। स्पृष्टमवयवैकदेशेन। स्मृतं चिन्तितमपि नृणां पुंसामाह्लादजननं सुखकरम्।
आह्लादं करोतीत्यर्थः। तदर्थं धर्मार्थौ धर्मश्चार्थश्च तौ धर्मार्थौ तदर्थं क्रियेते। ततस्तस्मात्
सकाशात् सुतविषयसौख्यानि भवन्ति। सुताः पुत्राः। विषयसौख्यानि इन्द्रियसौख्यानि च
भवन्ति। अबलाः स्त्रियो गृहे वेश्मनि लक्ष्म्यः श्रियः। अतो मानविभवैः, मानेन पूजया,
विभवेनैश्वर्येण। एतैर्बहुविधैः सततं सर्वकालं मान्याः पूज्याः॥४॥
अन्यदप्याह—
येऽप्यङ्गनानां प्रवदन्ति दोषान् वैराग्यमार्गेण गुणान् विहाय।
ते दुर्जना मे मनसो वितर्कः सद्भाववाक्यानि न तानि तेषाम् ॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA