अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
७२ अश्ववैद्यके [६ अध्यायः।
केकणदेशजातानां मध्यमानाञ्च वाजिनाम् ।
ताजिकैः सदृशं वक्त्रं बाहुल्येन विनिर्दिशेत् ॥ ९ ॥
सुवृत्तदेहस्तीक्ष्णाश्च सप्रमाणेन मध्यमः ।
उरुजातः १ समुद्दिष्टः किञ्चित् स्थूलो मनाग्जवः २ ॥ १० ॥
अतिस्थूलोऽतितीक्ष्णाश्च ३ ह्रस्वग्रीवस्तुरस्तथा ।
तुरुष्कः कीर्त्तितो वाजी स्थूलवक्र४मुखश्च यः ॥ ११ ॥
केकनाकारदेहस्तु ५ भवेन्माण्डविको हयः ।
शान्त्याचैव ६ प्रमाणेन केवलं नैव तत्समः ॥ १२ ॥
सिन्धुदेशोद्भवो वाजी पृष्ठन्यस्यानुकोरकः ७ ।
आननञ्चापि दीर्घञ्च तस्य पृष्ठं प्रकीर्त्तितम् ८ ॥ १३ ॥
९ । केकणः कोङ्कणस्य तुल्य एव ॥
१० । मनाग्जव इत्यपेक्षया मनोजव इति पाठः साधीयान्
मध्यमस्य मनाग्जवत्वस्यासङ्गतत्वात् ॥
१ । अत्युन्नतः । गः ।
२ । कीरस्थूलो मनोजवः । गः ।
३ । सूक्ष्माक्ष ह्रस्वग्रीवस्तनुस्तथा । गः ।
४ । जंघ । गः ।
५ । केकाणकाहस्तु भवेन्माठविको हय । गः।
६ । शक्त्या नैव । गः ।
७ । प्रधानस्यानुकारकः । गः ।
८ । समादिशेत् । गः ।
[Header]
६ अध्यायः ।] जन्मदेशविवरणम् । ७३
शक्त्या¹ चैव जवेनापि रणशूरस्त्वजाघनः² ।
सादिभक्त्येच्छतो याति³ ताजिकादधिकस्तथा ॥ १४ ॥
परिमण्डलदेहास्तु तीक्ष्णकर्णमुखा हयाः ।
पङ्कदेशोद्भवा⁴ दृष्टास्तथा सारस्वताश्च ये ॥ १५ ॥
लम्बकर्णोऽजटश्चैव⁵ अकुलः परिकीर्त्तितः ।
साम्भलः श्लिष्टजानुश्च जटालश्चाकुलोपमः ॥ १६ ॥
वर्त्तुलश्चापि ह्रस्वश्च टङ्गणः परिकीर्त्तितः ।
दाक्षिणात्यो भवेद्गुष्ठो योऽधन्यः⁶ सर्व्ववाजिनाम्॥ १७॥
जवहीना महादुष्टाः पूर्व्वदेशसमुद्भवाः ।
वाजिवदेशराणाञ्च देशं विन्द्याद्विचक्षणः ॥ १८ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे जन्म-
देशे षष्ठोऽध्यायः ॥
१० । टङ्गणः टाङ्गण इति यस्य भाषा ॥
१ । श्रान्त्या । खः । ४ । टक्क । गः ।
२ । रणशूरस्तयाध्वनः । गः । ५ । लम्बकर्णोजटस्खव । गः ।
३ । जितेऽङ्गेऽपि । गः । ६ । जघन्यः । गः ।
10
[ ७४ ]
अथ सप्तमोऽध्यायः ॥
वाहनविधाने
विप्रादितद्वाहनविवरणम् ।
ब्रह्मणाैव यथोद्दिष्टो वाहानां वाहने¹ विधिः ।
सारन्तस्य समुद्धृत्य सर्व्वं तत्कथयाम्यहम् ॥ १ ॥
तुरङ्गवाहकस्यापि दोषस्य च गुणस्य च ।
विशेषन्तु विधानेन तत्सर्व्वं कथयाम्यहम् ॥ २ ॥
१ । अश्वानां दोषगुणविषये नकुलेनैवमुक्तम् । तुरङ्गवाहकस्या-
पीति अपि शब्देन तुरङ्गस्यापि । दोषगुणौ वाहनादिभिश्चासम्भवा-
विति ज्ञेयौ ॥ दोषस्येति अनेन स्थूलत्वमूर्खत्वक्रोधित्वादिकं तथा-
ऽस्थानदण्डपातिलादिकं बोद्धव्यम् ॥ गुणस्य चेत्यनेन समनन्तरमेव
वक्ष्यमाणं हयहृदयाभिज्ञत्वादिकं बोद्धव्यम् ॥ सत्वेन इति सत्वं नाम
अश्वानां नैसर्गिकं तेजो दर्पो वा त्रिविध
७ अध्यायः ।] विप्रादिविवरणम् । ७५
सत्त्वेन¹ ज्ञायते जाती रूपेण तु च वाहयेत् ।
सामप्रधानं² दण्डञ्च विविधं विनियोजयेत् ॥ ३॥
चासी लुब्धो दयालुश्च³ विप्रः स परिकीर्त्तितः ।
शूरश्च⁴ दृढ़मन्युश्च क्षत्रियस्तुरगः स्मृतः ॥ ४॥
पापिनः कल्वषा रूक्षा⁵ दुष्टा वैश्याः प्रकीर्त्तिताः ।
विरूपा विषमाश्चैव शूद्राश्चण्डा उदाहृताः ॥ ५ ॥
३ । अश्वानां क्षत्रियादिचतुर्ब्बिधजातीनामुत्पत्तिमाह नकुलः,—
“वाजिनो जलजाः केचिदग्निजातास्तथापरे । समीरप्रभवान्यान्ये उलूक
मृगजास्तथा ॥ जलोद्भवा द्विजातीयाः क्षत्रिया वह्निसम्भवाः । समीर-
प्रभवा वैश्या एणोलूकाश्च शूद्रकाः”—इति । अपिच,—“विवेकी
सद्गुणोविप्रः तेजस्वी क्षत्रियो बली । दुष्टभावस्तथा वैश्यः शूद्रो निः-
सत्वकारकः”—इति । एषां त्रिविधदण्डमप्याह नकुलः,—“ब्राह्मणः
सामवाही च भेदवाही च क्षत्रियः । उपादानेन वैश्यः स्यात् शूद्रो
दण्डेन ताड़ितः”—इति ॥ विविधं दण्डमिति उत्तममध्यमाधमत्वेन
त्रिरूपं दण्डमित्यर्थः ॥
४-५ । क्षत्रियादीनां लक्षणमाह चासीत्यादिना श्लोकद्वयेन ।
पापिनोऽमङ्गलाः । विरूपाः कुत्सितरूपाः । विषमा विसदृशाङ्गा
अङ्गसौष्ठवरहिता इत्यर्थः ॥
१ । साम्येन ज्ञायते जातिः जातिरूपेण वाहयेत् । खः ।
२ । समप्रदानदण्डैश्च विविधं । गः ।
३ । रसालुब्धः सुधालुश्च । गः ।
४ । शूराश्चैव दृढ़ा मान्याः । गः । ५ । कल्यकपाश्च । खः ।
७६ अश्ववैद्यके [७ अध्यायः ।
ब्राह्मणान् शक्तिदानेन¹ साम्ना चैव तु क्षत्रियान् ।
वैश्यं दण्डेन शब्देन शूद्रं दण्डेन वाहयेत् ॥ ६ ॥
प्रत्यूषे वाहयेद्विप्रं क्षत्रियं प्रहरे गते ।
वैश्यं सन्ध्यागते काले शूद्रं रात्रौ च वाहयेत् ॥ ७ ॥
सत्वशक्तिवाहनविवरणम् ।
सत्वञ्च त्रिविधं प्रोक्तमुत्तमाधममध्यमम्² ।
उत्तमञ्चोपशामेन³ साम्ना दण्डेन मध्यमम् ॥ ८ ॥
शब्दाङ्गेन च दण्डेन वाहयेदधमं बुधः⁴ ।
सहजे निर्मले वाहे तैलदुग्धस्य रूपवान्⁵ ॥ ९ ॥
६ । शक्तिदानेन इति यथोक्तवचनोच्चारणपूर्व्वकमारोहणात् प्राक्
द्विजेऽश्वे यथावश्यकं द्विविधशक्तिसञ्चारणं कुर्व्वेत्यर्थः । शक्तिसञ्चारण-
वचनानि च जयदत्त एवास्मिन् प्रकरणे स्वयमेवाग्नेयादुद्धृत्य वक्ष्यति ।
यथा, — “हय गन्धर्व्वपुत्र त्वं शृणुष्व वचनं मम”—इत्यादि ।
साम्ना चैव तु क्षत्रियानिति आरोहणात् प्राक् परतो वक्ष्यमाणै-
र्यथोक्तवचनैः क्षत्रियमश्वं सान्त्वयन्नित्यर्थः । एतदप्याग्नेयपुराणा-
दुद्धृतं जयदत्तेन यथा, — “वीर राजेन्द्रपुत्रस्त्वं सत्यवाक्यमनुस्मर”
इत्यादि ॥
८ । सत्वशक्तिवाहनप्रकरणमाह । सत्त्वं पूर्व्वं व्याख्यातम् ॥
९ । शब्दाङ्गेन दण्डेन इति केवलं शब्दरूपेण ताड़नेनेत्यर्थः ।
१ । भक्तिदानेन । गः । ३ । उत्तमञ्चैव साम्येन । गः ।
२ । अधमोत्तममध्यमम् । गः । ४ । त्रिभिः । गः ।
५ । सहजा निर्मला वाहास्तैलदुग्धमध्वारवत् । गः ।
७ अध्यायः ।] रङ्गभूमिविवरणम्। ७७
शक्तिश्च द्विविधा प्रोक्ता बलदौर्बल्यसम्भवा।
बलिष्ठो दुर्बलत्वेन दुर्बलोऽपि बलेन वा१ ॥ १०॥
रङ्गभूमिविवरणम्।
छलेनौपाधिकायश्च सत्वं ज्ञात्वा च वाहयेत्।
सान्द्रां सुकठिनाञ्चैव पाषाणोदकसंयुताम् ॥ ११ ॥
तृणकाष्ठसमायुक्तां रङ्गभूमिन्तु वर्जयेत्।
समाञ्च विपुलाञ्चैव२ किञ्चित्पांशुसमन्विताम् ॥
एकान्ते विजने रम्ये रङ्गभूमिन्तु कारयेत् ॥ १२ ॥
रूपमाह सहजे इति। अत्र सहजादिशब्दत्रयं प्रथमान्तं भवितुं युज्यते।
अन्यथा पाठो न लगति ॥
१०। शक्तिः बलसम्भवा दौर्बल्यसम्भवा चेति द्विविधा।
१२। समां नतु उन्नतानतां। विपुलां महतीं सुदीर्घप्रशस्ता-
मित्यर्थः। किञ्चित्पांशुभिः अत्यल्पधूलिभिः समन्वितां युक्तां। इदं
विशेषणं रङ्गभूमेरतिकाठिन्यं निवार्याश्वानां पादाघातेनाक्लेशकरत्वं
सूचयति। अत्र नकुलः,—“समाञ्च विपुलाञ्चैव किञ्चित्पांशु-
समन्वितां। एकान्ते विजने चैवं रङ्गभूमिं हयं नयेत्। सान्द्राञ्च
कठिनाञ्चैव पाषाणोदकगर्त्तितां॥ तृणकाष्ठसमायुक्तां रङ्गभूमिं
विवर्जयेत्” इति ॥
१। बलिष्ठे दुर्बलत्वञ्च वलिनं दुर्बलेन च। गः।
२। सुविपुलाम्। गः।
७८ अश्ववैद्यके [७ अध्यायः ।
दोषगुणताड़नविवरणम् ।
स्थूलः क्रोधी च मूर्खश्च चित्तोत्सुकचलासनः ।
अस्थाने दण्डपाती च वाजी तस्य न सिध्यति ॥ १३ ॥
प्रचलति यस्य कटिरूर्द्धवाहुश्च दण्डवान् ।
न तस्य वाहनं वाजी दुर्लक्ष्यं वाजिवाहितम्¹ ॥ १४ ॥
दृढ़ासनोऽथ तत्वज्ञो जितमुष्टि²र्निरालसः ।
अविरागी³ स्थिरश्चापि षड़ेते वाजिवाहकाः ॥ १५ ॥
१३ । अतःपरं दोषगुणताड़नविवरणमाह,—
१४ । दुर्लक्ष्यं वाजिवाहितमिति वाजिवाहितं दुःखेन लक्ष्यते
दृश्यते इत्यर्थः ॥
१५ । दृढ़ासनत्वादिगुणसम्पन्ना एते षट् प्रशस्ता अश्वसादिनः ।
उक्तञ्च नाकुले प्रशस्ताश्वसादिलक्षणम् । यथा,—“चलकिसलयपादः
कर्णमध्येकदृष्टि, र्न चलति कटिदेशो व्यापितोऽपि स्थितो यः । हय-
हृदयमभिज्ञः स्थानदण्डाभिपाती, स खलु तुरगयोक्ता पूज्यते
पार्थिवेन्द्रैः ॥ दाढ्यं मुष्टिगतं करेण लघुता क्रोधानिलैर्वाजिनः,
सलैकांस्थरबुद्धिमध्यमनतिः शास्त्रार्थविद्धार्मिकः । काले दण्डनिपात-
विश्रमपरस्ताम्बूलपूर्णाननः, श्रीमाल्लक्षणयुतो महाहयपरो राजाधिपैः
पूज्यते । उरः स्थिरं यस्य चलौच दौ , चिक्रोन्नतः संहतमानसश्च ।
स वाजिवाहः प्रथितः पृथिव्यां, शेषा नरा भारकरा हयानाम् ।
प्राज्ञः सत्त्ववलोत्साही दृढ़सर्वाङ्गसौष्ठवः । जितशीतातपालस्यो जित-
१ । वाजिवाहनम् । गः । ३ । अवैराग्यः । गः ।
२ । जितमूत्तिः । गः ।
७ अध्यायः ।] दोषादिविवरणम् । ७५
चित्तं यो नैव जानाति तुरङ्गस्य समासतः ।
न वहन्ति हयास्तस्य दण्डपातेन¹ ताड़िताः ॥ १६ ॥
ह्रेषिते वलिते² भीते तथाचोन्मार्गगामिनि ।
कुपितेऽद्भ्रान्तचित्ते वा षट्सु दण्डं निपातयेत् ॥ १७ ॥
ह्रेषिते ताड़येन्मूर्ध्नि जानुभ्यां वलिते³ तथा ।
निद्रो जिताशनः । हयकालवलप्राणहृद्यकामास्त्वयोगवित् । शी-
तोपचारसारज्ञो रणक्रीड़ासु शिक्षितः । वाजिनां हृदयज्ञस्य स्थाने
दन्तनिपातवित् ॥ अदुष्टदमने दत्तः सर्व्वक्लेशसहः शुचिः । घासे
धन्ये तु पानीये परव्यूहावलोकने । त्रिषु अज्ञानप्रदेशेषु निर्गमे कुम्भ-
खोऽस्त्ववित्” इति ॥
१७ । हेषितादिषु षट्सु कालेषु दन्तनिपातनमुक्तं । भोजस्तु
द्वादशसु कालेषु कशादिताड़नमाह,—“
८० अश्ववैद्यके [७ अध्यायः ।
क्रुद्धे उरसि¹ हन्तव्यो भ्रान्तचित्ते² तथोदरे ॥ १८ ॥
भीतञ्च ताड़येत् पश्चात् मुखे चोन्मार्गगामिनम्³ ।
ज्ञात्वा दोषञ्च रूपञ्च स्थानेषेतेषु ताड़येत् ॥ १६ ॥
अस्थानताड़ितो वाजी यावज्जीवं न सिध्यति ।
नो जहाति च तद्दोषं यावज्जीवत्यसौ हयः ॥ २० ॥
कुपिते पुच्छसंस्थाने भ्रान्तौ जानुद्वये तथा ।
सर्व्वस्याप्राप्तदण्डस्य दण्डमेकं निपातयेत् ॥ २१ ॥
अस्थाने ताड़ितो वाजी बहून् दोषानवाप्नुयात् ।
तावद्भवन्ति ते दोषा यावज्जीवत्यसौ हयः ॥ २२ ॥
अवाहिता विनश्यन्ति सर्व्वकर्म्मक्षमा अपि ।
कृशा व्याधिपरीताङ्गा जायन्तेऽत्यन्तवाहनात् ॥ २३ ॥
प्रहेषिते स्कन्धवाङ्गे; वडवालोकिनं तथा । उपवेशे च निद्रायां
कटिदेशे च ताड़येत् ॥ दुश्चेष्टितं मुखे हन्यादुन्मार्गप्रस्थितं तथा ।
जघने स्खलिते हन्यात् नेत्रमार्गे दुरास्थितम् । यः कुष्ठप्रकृतिर्वाजी तं
सर्व्वत्रैव ताड़ये” दिति ॥ अथ नकुलोऽपि,– “हेषिते स्कन्धसंस्थानं
भ्रान्ते जानुद्वयं तथा । सर्व्वस्य प्राप्तदण्डस्य दण्डमेकं निपातयेत् ॥
......समुद्दिष्टं स्खलने जघनान्तरे । भीते वक्षःस्थलं हन्यात् वक्त्र-
श्चोन्मार्गगामिनि । कुपिते पुच्छसंस्थानं भ्रान्ते जानुद्वयं तथा”—
इति ॥
१ । कुपितोरसि । गः । ३ । उन्मार्गगामिनि । गः ।
२ । भ्रान्तचित्तम् । गः ।
७ अध्यायः।] धारागतिविवरणम् । ८१
पञ्च धाराः प्रवक्ष्यामि ऋषिभिर्याः१ प्रकीर्त्तिताः ।
प्रथमा विक्रमा धारा द्वितीया पुलका स्मृता ॥ २४ ॥
तृतीया पूर्णकण्ठी तु चतुर्थी त्वरिता स्मृता ।
पञ्चमी चैव या धारा श्रूयते न च दृश्यते३ ।
षष्ठी चैव तु या धारा निरालम्बा प्रकीर्त्तिता२ ॥ २५ ॥
२४। पञ्च धारा इति धाराख्या वाजिनां पञ्च गतय इत्यर्थः ।
यथोक्तं शुकेण, — “गतयः षड्विधा, धाराः स्कन्दितं रेचितं प्लुतम्।
धौरितकं वल्गितञ्च तासां लक्ष्म पृथक् पृथक्” इति ॥ “धौरितं
वल्गितं प्लुतुत्तेजितोत्तेजितानि च। गतयः पञ्च धाराख्यास्तुरङ्गानां
क्रमादिमाः” ॥ इति हेमचन्द्रः ॥ “गतिः पुला चतुष्का च
तदन्वाध्वजवापरा। पूर्णवेगा तथा चान्या पञ्च धाराः प्रकीर्त्तिताः”
—इति ॥ “गतिरेका प्लुता चास्य चातुरीचा द्वितीयका ।
वेगसन्धिस्तृतीया च धारा वेगवती तुरी॥ धारा तु पञ्चमी प्रोक्ता
न शृणोति न पश्यति। सर्व्वकर्म्मकृते। वाजी तस्मात्तां परिवर्जयेत्”
—इति नकुलः, — “आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ।
गतयोऽमूः पञ्च धाराः”—इत्यमरः॥ पञ्चविधधारासंज्ञा ग्रन्थविशेषेषु
विभिन्नाः कृता अपि फलतस्तुल्या एव ज्ञेयाः । अत्र षष्ठ्या निरा-
लम्बायाः स्वर्गेएव प्रसिद्धत्वात् मर्त्यलोके पञ्चैव धर्त्तव्याः।
१। मुनिभिः। गः।
२ । शिलम्बा प्रकीर्त्तिता । खः ।
३। श्रूयते न च दृश्यते ॥ खः ।
11
८२ अश्ववैद्यके [७ अध्यायः ।
विक्रमा गतिधारा तु चतुःपादप्लुता स्मृता१ ।
मुखपादसमायुक्ता पूर्णकण्ठी च या२ भवेत् ॥ २६ ॥
स्वेच्छया त्वरिता धारा ताड़िता चैव पञ्चमी ।
षष्ठी चैव तु या धारा स्वर्गलोकेषु तिष्ठति३ ॥ २७ ॥
या सङ्ख्या रोमकूपानां वाहकस्य हयस्य च ।
तावद्वर्षाण् वसेत् स्वर्गे हयपृष्ठे हतो नरः ॥ २८ ॥
यल्लोकं वाजिपृष्ठेषु हता गच्छन्ति मानवाः ।
तं लोकं नाधिगच्छन्ति वडवासु हताश्च ये ॥ २९ ॥
२६ । विक्रमाया लक्षणं जयदत्तेन स्वयमेव कृतं न पुस्तकान्तरादिति
तदेव कथ्यते । पुल्लानाम प्लुताद्यनेकापरनामा हयानां गतिविशेष
इति मल्लिनाथः। पुल्लनालक्षणं हयलीलावत्यां । यथा,—“प्लुतां लव-
ङ्गितामाङ्घ्य धारा पुल्लनाभिधा । क्षिपति समविशेषानुन्नतुचित्प-
त्ययपादान् ॥ प्रसरति पुरतोऽश्वः साद्य धारा पुल्लाख्या । तथा,—
पार्ष्णिप्रधानं प्रविधाय रागाद् बल्गां सुथीकृत्य वहेत्पुल्लाख्याम्”—
इत्यादि । पुटः खुरः । पुटो लुटनावेशने ॥
२८-२९ । इदं श्लोकद्वयं ख-ग-पुस्तकयोर्नास्ति ।
१ । गतिधारा च चतुष्पादी पुटा । गः । चतुष्का पुजका मता । खः ।
२ । तु या । गः ।
३ । स्वर्गलोकेऽवतिष्ठति । गः । स्वर्गलोकेषु गोयते । खः ।
७ अध्यायः ।] वल्गादिविवरणम् । ८३
वल्गाश्च संप्रवक्ष्यामि मुनिभिः परिकीर्त्तिताः १ ।
पुष्यदन्ती च गोकर्णी तूलोलूला सुखोद्वृता ॥ ३० ॥
नागपीडो पुष्यधारी दुर्मुखी च रजस्तनी२ ।
द्विकस्ती चैकहस्ती च शुभगा शोभना मता ॥ ३१ ॥
इत्येता द्वादश३ वल्गा मुनिभिः परिकीर्त्तिताः ।
आरूढः कर्णमध्ये तु मनो लक्षति वाजिनः ॥ ३२ ॥
शनैस्तु वाहयेत्पूर्व्वं पश्चात् पुलकमादिशेत् ।
न वक्रो न तथोत्तानो न कुब्जो नाप्यधोमुखः ॥ ३३ ॥
न भवेत् स्तब्धगात्रस्तु स भवेदश्ववाहकः ।
स्थिरोरुः स्थिरपार्श्वश्च त्रिकोन्नतः स्थिरासनः ॥ ३४ ॥
३० । वल्गाश्चमुखरज्जुः । सा च पुष्यदन्त्यादिभेदेन द्वादशधा । हय-
लीलावत्यान्तु उत्क्षिप्त्यादिभेदेन चतुर्द्दशविधा । तदुक्तं,– “उत्क्षिप्ता
शिथिला तथोत्तरवती मन्दा च वैहायसी विचित्रैककराङ्कुशन्धरश-
मोत्कीर्णा विभक्ता तथा । अत्युत्क्षिप्तप्रतलोद्धृते खलु तथा व्यागूढ-
गोकर्णिके वाहानां कथिताश्चतुर्द्दशविधा वल्गाप्रभेदाः समाः”–
इति ॥
३३ । पूर्व्वं प्रथमम् ।
१ । याः प्रकीर्त्तिताः । गः ।
२ । दृढमुष्टिश्च कुच्छनी । गः ।
३ । द्वादशाः । गः ।
८४ अश्ववैद्यके [७ अध्यायः ।
दक्षिणादितुरङ्गस्य१ चासने तु दृढः सदा ।
अश्ववाराः समाख्याताः शेषास्तु भयदायकाः२ ॥ ३५ ॥
ग्रीष्मादिषु न कर्त्तव्यमृतुषु त्रिषु वाहनम् ।
हेमन्तादिषु कर्त्तव्यं सादिभिः शास्त्रवेदिभिः ॥ ३६ ॥
प्रतिपत्सु त्रयोदश्यां पञ्चम्यां३ वा सिते दले ।
धृतिसिद्धादियोगेषु वासरे चन्द्रसूर्य्ययोः ॥ ३७ ॥
मूलरोहिणिहस्तेषु पुष्ये चैवोत्तरासु च ।
एवंविधे दिने सादी वाहनं वाहयेत् शुभे ॥ ३८ ॥
३५। अश्ववारा अश्वसादिनः ।
३६। ग्रीष्मादिष्विति आदिपदेन वर्षाशरदोर्ग्रहणम् । हेम-
न्तादिषु हिमशिशिरवसन्तेषु । उक्तञ्च अग्निपुराणे, — "हेमन्तः शिशि-
रश्चैव वसन्तश्चाश्ववाहने । ग्रीष्मे शरदि वर्षासु निषिद्धं वाहनं हये"
इति । ग्रीष्मादिषु ऋतुत्रयेषु—इत्यनेन ज्येष्ठात्कार्त्तिकपर्य्यन्तं वाहन-
निषेधः, तस्मान् मार्गशीर्षाद्वैशाखपर्य्यन्तं वाहनविधिश्च सूचितो
भवति द्विमासिकर्त्तुविभागात् ॥
३७-३८। अश्वानां आदिवाहने तिथिनक्षत्रादीन्याह । प्रतिप-
त्स्वित्यादि । सिते दले शुक्लपक्षे । उत्तरास्विति बहुवचनेन उत्तरा-
षाढायां उत्तरफल्गुन्यां उत्तरभाद्रपदे चेति ज्ञेयम् । उक्तञ्चाग्निपुराणे,
१। दक्षिणां दिशि तुरङ्गस्य । गः।
२। शेषाःस्युर्भारदायकाः । गः ।
३। द्वादश्यां वा । गः ।
रङ्गभूमौ च रैवन्तं स्थापयेत् पूजयेत्ततः ।
पुष्पैर्धूपैः प्रदीपैश्च चन्दनैः पायसैस्तथा ॥ ३९ ॥
—"अश्विनौ श्रवणं हस्तं उत्तराचितयं तथा । नक्षत्राणि प्रशस्तानि
हयानामादिवाहने” इति ॥
३९। रङ्गभूमौ रणक्षेत्रे अश्वविनयनक्षेत्रे वा । रैवन्तमिति ।
रैवन्तः सूर्य्यतनयो गुह्यकाधिपतिः तम् । स्थापयेदिति प्रतिमया
घटेन वेतिशेषः । तस्योत्पत्तौ वह्निपुराणं यथा,—"ततोऽसौ योग-
मास्थाय स्वां भार्य्यां वडवां रविः । ददर्श नियमस्थां तामश्वरूपम-
थाकरोत् ॥ मैथुनायोपचक्राम सूर्य्योऽसौ च त्वरान्वितः । नेच्छन्ती
तेन संयोगं परपुंसोऽभिशङ्कया ॥ सम्मुखात् सम्मुखी तेजो मुखनासि-
कया रवेः । देवौ यतः प्रजायेतामश्विनौ भिषगन्वयौ । नासत्यौ द्वौ
तृतीयस्तु रेवन्तोऽश्वप्रवाहकः” इति । .. गुह्यकाधिपतित्वे च रेवन्तो
विनियोजितः ॥ इति मार्कण्डेयपुराणम् ॥ तथा रैवन्तस्य पूजाविधिश्च
राज्ञा यथा विधेयस्तत्र कालिकापुराणम्,—"सप्तमे हि तु रेवन्तं पू-
जयेत्तोरणान्तरे । सूर्य्यपुत्रं महाबाहुं द्विभुजं कवचोज्ज्वलम् । ज्वलन्तं
शुक्लवस्त्रेण केशान् वितत्य वाससा । कशां वामकरे विभ्रद्दक्षिणे
तु करे पुनः । खङ्गं न्यस्य महातीक्ष्णं सितसैन्धवसंस्थितं । एवं-
विधन्तु रेवन्तं प्रतिमायां घटेऽपि वा । सूर्य्यपूजाविधानेन पूजयेत्तो-
रणान्तरे” इति ॥ पूर्ब्वास्यमुपविष्टस्याश्वस्य वपुषि यथाक्रमं प्रणवा-
दिनमोऽन्तेन स्वबीजेन देवादियोजनं कृत्वा पूजयेदिति शेषः । तदुक्त-
मग्निपुराणे,—"स्नातस्य प्राङ्मुखस्याथ देवान् वपुषि योजयेत् ।
प्रणवादि नमोऽन्तेन स्वबीजेन यथाक्रमम्” इति ॥
८६ अश्ववैद्यके [७ अध्यायः ।
पक्वान्नैः पञ्चशब्दैश्च प्रातःशुचिः१ सुवाससः ।
रक्ताम्बरधरो भूत्वा रक्तपुष्पधरस्तथा ॥ ४० ॥
ओं नमो रेवन्ताय अश्वहृदयाय ह्रीं क्लीं ओं नमोऽति-
श्वेताय२ सौम्यरूपाय इमं३ मम अश्वं साधय साधय
बन्धय बन्धय वश्यं कुरु कुरु महावीर्याय रेवन्ताय
नमः ॥ ४१ ॥
४०। पञ्चशब्दैरिति गवाजमेषगजाश्वैरित्यर्थः । तदुक्तं तिथ्यादितत्त्वे
तस्य पूजाविधौ,—“दारोपान्ते सुदीप्तञ्च संपूज्यो हव्यवाहनः । यवा-
क्षतघृतोपेतैः तण्डुलैश्च सुतर्पितः ॥ संपूजितव्यः पूर्णेन्दुः पयसा
पायसेन च । स्कन्दः सभार्यो रुद्रश्च तथा नन्दीश्वरो मुनिः ।
गोमद्भिः सुरभिः पूज्या छागवद्भिर्हुताशनः । उरभ्रवद्भिर्वरुणो
गजवद्भिर्विनायकः । पूज्यश्वाश्चैश्च रेवन्तो यथाविभवविस्तरैः” इति ॥
४१। पर्याणयेत् सन्नाहयेत् । जयदत्तेन पर्याणनात् पूर्व्वं ओं
नम इत्यादि मन्त्रजपस्य एकविंशतिवारं विधिः कृतः । अग्निपुराणेतु—
एतन्मन्त्रेण सह “हयगन्धर्व्वराज त्वम्” इत्यादि कर्णजापस्य विधिः
कृतः यथा,—“कर्णजापं ततः कृत्वा विमुह्य च तथाप्यरीन् । पर्या-
णयेद्धयं सादी वाहयेद्युद्भूतेजयः” इति ॥
१। स्नातः। गः।
२। श्वेताय। खः।
३। इममश्वं। गः।
७ अध्यायः ।] वल्गादिविवरणम् । ८९
एतन्मन्त्रं जपेत्प्राज्ञो हयस्य दक्षिणे श्रुतौ ।
एकविंशतिवारांश्च ततः पर्याणयेद्धयम् ॥ ४२ ॥
क्रोशमेकं तमारुह्य¹ नयेद्दीक्षां शनैः शनैः ।
वल्गाग्रहश्च कर्तव्यः सव्यापसव्यमेव च ॥ ४३ ॥
विक्रमा पुलका पूर्णकण्ठी च त्वरिता तथा ।
खलीनादि प्रयोक्तव्यं² सादिना वाजिनां क्रमात् ॥४४॥
नातिस्थूलं³ कृशं नाति न स्तम्भं नातिकर्कशम् ।
सप्ताङ्गुलप्रमाणन्तु खलीनं कारयेद्बुधः ॥ ४५ ॥
खलीनादिषु लौहेषु धाराषु⁴ विक्रमादिषु ।
क्रमेणैव तुरङ्गाणां कटानि संप्रयोजयेत् ॥ ४६ ॥
खलीनादौ च धारासु यदा सुशिक्षितो हयः ।
तदा कटेषु तं सादी भ्रामयेद्विक्रमादिभिः ॥ ४७ ॥
शतहस्तादिकां भूमिं सप्तहस्तावसानिकाम् ।
भ्रामयेद्वाजिनं सादी सव्यं चैवापसव्यकम्⁵ ॥ ४८ ॥
४६। कटानीति अश्वचालनाय रचिता शतहस्तादिका मण्ड-
लादयः पञ्चविधा भूमय इत्यर्थः ॥
१ । समारुह्य हयदीक्षा । गः ।
२ । खलीनादी प्रयोक्तव्या । खः ।
३ । अतिस्थूलं । गः ।
४ । धारयेद्विक्रमादिषु । खः ।
५ । सव्यापसव्यमेव च । गः ।
८८ अश्ववैद्यके [७ अध्यायः ।
मण्डलं चतुरस्रञ्च गोमूचं चार्द्धचन्द्रकम् ।
नागपाशक्रमेणैव भ्रामयेत् कटपञ्चकम् ॥ ४९ ॥
एवमन्येषु लोहेषु चिह्नेव भ्रामयेत्कटे ।
य एवं वाहयेद्वाहं तस्य कष्टं न जायते ॥ ५० ॥
दद्यादभयमभीतस्य भीतस्यापि हरेद्भयम्¹ ।
रहस्यं सादिनामेतद्वाहनेऽस्मिन्निवेदितम् ॥ ५१ ॥
पूर्वोक्तेषु च देशेषु² षट्सु दोषेषु ताड़येत् ।
न जातु सादिनान्यस्मिन् काले दोषशतैरपि ॥ ५२ ॥
दम्यमानस्य वाहस्य यो दोषः सादिदोषतः ।
जायतेऽसौ निराकर्त्तुं सादिना नैव शक्यते ॥ ५३ ॥
एवं शास्त्रविधानेन यः सादी वाहयेद्धयान् ।
हरयस्तस्य सिध्यन्ति भवन्ति फलदायकाः ॥ ५४ ॥
वाहनं सच दुष्टञ्च धूपालेपनमंचकैः ।
तदहं संप्रवक्ष्यामि³ मुनिभिः कीर्त्तितं यथा ॥ ५५ ॥
४९ । “धतुरष्टादशे योज्यं वाजिनां मण्डलं क्रमात् । सङ्को-
चयेज्जवं तावद् यावत्कटकपञ्चकम् ॥ तदूर्द्धं मण्डली योज्या
गोमूचा तदनन्तरम् । ऋजुवर्त्मसुवृत्तौ च गोमूचा सर्व्वकर्मसु ॥
युज्यमाना न दूष्यन्ते प्रायशोहि विचक्षणैः” ॥ इति नकुलः ।
१। अपहरेद्भयम् । गः । २। स्थानेषु । गः ।
३। साम्प्रतं वच्मि । गः ।
७ अध्यायः ।] धूपादिविवरणम् । ९
अस्थिभिर्दशनैश्चैव वृकाणाञ्च¹ तथा बुधैः ।
विषमकरदंष्ट्राभि धूपमुक्तं² हि सर्पिषा ॥ ५६ ॥
एलागुरुमदोशीरनागकेसरचन्दनैः ।
सर्जिकातैलसंयुक्तै धूपयेद्दुष्टवाजिनम् ॥ ५७ ॥
विषलौहगदैलाभिस्तैलाज्यदधिचन्दनैः ।
निःशेषदोषनाशाय धूपमुक्तं हि वाजिनाम् ॥ ५८ ॥
विलिप्ता³ गोमयैः प्रातर्निशीथे सर्व्वसन्धिषु ।
अष्टम्याञ्च विशेषेण दुष्टाः सिध्यन्ति धूपिताः ॥ ५९ ॥
कासीसं चन्दनं कौन्तीसिद्धार्थमरिचानि च ।
५६ । अत्र वृकास्थिदशनविषमकरदंष्ट्राणां चूर्णं कर्षत्रयं घृतञ्च
कर्षमात्रं ग्राह्यं । "धूपे चूर्णं त्रयः कर्षा घृतकर्षश्च सौरभः" इति
परिभाषास्मरणात् ॥ अत्र धूपस्य नपुंसकत्वमसाधु ।
५७ । अत्रापि एलादीनां त्रयः कर्षा ग्राह्याः । तैलस्य च कर्षः ।
मदो मृगमदः ॥ अयं द्वितीयो धूपः । एला क्षुद्रैला । उशीरं
(गन्धवेणामूल) । नागकेसरं नागेश्वरपुष्पं । चन्दनं रक्तचन्दनं ।
सर्जिका शालनिर्यासः । सर्जक्षारो वा ।
५८ । तृतीयमाह विषेति । विषं पद्मकेसरं । गदो विषम् ।
५९ । धूपिताः पूर्व्वोक्तै धूपैरित्यर्थः ।
१ । वृश्चिकानां । गः ।
२ । धूमसम्पदि । खः ।
३ । विसिक्ता । खः ।
12
६० अश्ववैद्यके [७ अध्यायः ।
सैन्धवं वडवामूत्रं गोमूत्रं१ कर्णजं मलम् ॥ ६० ॥
सुनिगुप्तानि२ पिष्टानि कणायासवचानि३ च ।
अञ्जनं सर्व्वदुष्टानां देयं पर्व्वणि पर्व्वणि ॥ ६१ ॥
अनेनाभ्यञ्जितो वाजी निर्व्वाणमधिगच्छति ।
कोपं मोहं भयं त्यक्त्वा वश्यः स्यात् सादिने भृशम्॥६२॥
सादिकार्य्यविवरणम् ।
प्रातः४ सादी शुचिः स्नातः शुक्लाम्बरधरस्तथा ।
उपोषितो यति५र्भूत्वा जपेत्कर्णे च दक्षिणे ॥ ६३ ॥
हय गन्धर्व्वराज त्वं६ शृणुष्व वचनं मम ।
गन्धर्व्वकुलजातस्त्वं मा भूयाः कुलदूषणः ॥ ६४ ॥
द्विजानां सत्यवाक्यानां सोमस्य गरुड़स्य च ।
६०-६१ । काशीसादीनां समभागं गोवडवामूत्रेण निष्पिष्य
अञ्जनं विधेयम् । कासीसं उपधातुविशेषः । (हिराकस) इति
भाषा । चन्दनं रक्तचन्दनं । कौन्ती रेणुकं । सिद्धार्थो गौरसर्षपः ।
कर्णजं मलं कर्णगूथं । (कानेरे खल) । कणा पिप्पली । अत्र कणा-
यासवचानि चेति पाठो भवितुं युक्तः । यासो दुरालभा ।
६२-६३ । अभ्यञ्जितः सर्व्वतः कृताभ्यञ्जन इत्यर्थः । निर्व्वाणं
शान्तिम् ।
१ । कर्णजं मलमुत्तमम् । ग' । ४ । स्नातः सादी शुचिः शान्तः । ग' ।
२ । सुनिर्गुप्तानि दृष्टानि । गः । ५ । उपोषितः पतिः । खः ।
३ । सवसानि च । गः । ६ । गन्धर्व्वराजस्त्वं । गः ।
७ अध्यायः ।] सादिकार्य्यविवरणम् । ६१
रुद्रस्य वरुणस्यैव पवनस्य वहेन च ॥ ६५ ॥
हुताशनस्य दीप्तस्य¹ स्मर जातिं तुरङ्गम ।
स्मर राजेन्द्रपुत्रस्त्वं सत्यवाक्यमनुस्मर ॥ ६६ ॥
स्मर त्वं वारुणीं कन्यां स्मर त्वं कौस्तुभं मणिम् ।
क्षीरोदसागरे चैवमवमथ्य² सुरासुरैः ॥ ६७ ॥
तत्र देवकुले जातः स्ववाक्यं परिपालय ।
कुले जातस्त्वमश्वानां मित्रं मे भव शाश्वतम् ॥ ६८ ॥
शृणु मित्र त्वमेतद्वै सिद्धो मे भव वाहनम् ।
विजयेऽहं³ धराज्चैव संग्रामे सिद्धिमावह ॥ ६९ ॥
तव⁴ पृष्ठं समारुह्य हता दैत्याः सुरैः पुरा ।
अधुना त्वां समारुह्य जेष्यामि रिपुवाहिनीम् ॥ ७० ॥
मन्त्रजापं ततः कृत्वा मन्त्रेणानेन बुद्धिमान् ।
विसृज्य सर्व्वदेवांश्च ततः पर्य्याणयेद्धयम् ॥ ७१ ॥
वाह्यागमेषु⁵ येऽभिज्ञाः कुर्व्वन्ति हरिवाहनम् ।
सुहृदस्ते च वाह्यानामन्ये तु हरिशत्रवः⁶ ॥ ७२ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे वाहन-
विधौ सप्तमोऽध्यायः ॥
१ । दोषाच्च । गः । ४ । भवत्-पृष्ठं । गः ।
२ । मथ्यमाने । गः । ५ । वाह्यनेषु च ये वर्गाः । गः ।
३ । विजये।मे । खः । ६ । हरिशत्रुवत् । खः ।