सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 101, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 101

७ अध्यायः ।] वल्गादिविवरणम् । ८९
एतन्मन्त्रं जपेत्प्राज्ञो हयस्य दक्षिणे श्रुतौ ।
एकविंशतिवारांश्च ततः पर्याणयेद्धयम् ॥ ४२ ॥
क्रोशमेकं तमारुह्य¹ नयेद्दीक्षां शनैः शनैः ।
वल्गाग्रहश्च कर्तव्यः सव्यापसव्यमेव च ॥ ४३ ॥
विक्रमा पुलका पूर्णकण्ठी च त्वरिता तथा ।
खलीनादि प्रयोक्तव्यं² सादिना वाजिनां क्रमात् ॥४४॥
नातिस्थूलं³ कृशं नाति न स्तम्भं नातिकर्कशम् ।
सप्ताङ्गुलप्रमाणन्तु खलीनं कारयेद्बुधः ॥ ४५ ॥
खलीनादिषु लौहेषु धाराषु⁴ विक्रमादिषु ।
क्रमेणैव तुरङ्गाणां कटानि संप्रयोजयेत् ॥ ४६ ॥
खलीनादौ च धारासु यदा सुशिक्षितो हयः ।
तदा कटेषु तं सादी भ्रामयेद्विक्रमादिभिः ॥ ४७ ॥
शतहस्तादिकां भूमिं सप्तहस्तावसानिकाम् ।
भ्रामयेद्वाजिनं सादी सव्यं चैवापसव्यकम्⁵ ॥ ४८ ॥
४६। कटानीति अश्वचालनाय रचिता शतहस्तादिका मण्ड-
लादयः पञ्चविधा भूमय इत्यर्थः ॥
१ । समारुह्य हयदीक्षा । गः ।
२ । खलीनादी प्रयोक्तव्या । खः ।
३ । अतिस्थूलं । गः ।
४ । धारयेद्विक्रमादिषु । खः ।
५ । सव्यापसव्यमेव च । गः ।