सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 87, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 87

[Header]
६ अध्यायः ।] जन्मदेशविवरणम् । ७३


शक्त्या¹ चैव जवेनापि रणशूरस्त्वजाघनः² ।
सादिभक्त्येच्छतो याति³ ताजिकादधिकस्तथा ॥ १४ ॥
परिमण्डलदेहास्तु तीक्ष्णकर्णमुखा हयाः ।
पङ्कदेशोद्भवा⁴ दृष्टास्तथा सारस्वताश्च ये ॥ १५ ॥
लम्बकर्णोऽजटश्चैव⁵ अकुलः परिकीर्त्तितः ।
साम्भलः श्लिष्टजानुश्च जटालश्चाकुलोपमः ॥ १६ ॥
वर्त्तुलश्चापि ह्रस्वश्च टङ्गणः परिकीर्त्तितः ।
दाक्षिणात्यो भवेद्गुष्ठो योऽधन्यः⁶ सर्व्ववाजिनाम्॥ १७॥
जवहीना महादुष्टाः पूर्व्वदेशसमुद्भवाः ।
वाजिवदेशराणाञ्च देशं विन्द्याद्विचक्षणः ॥ १८ ॥

इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे जन्म-
देशे षष्ठोऽध्यायः ॥


१० । टङ्गणः टाङ्गण इति यस्य भाषा ॥


१ । श्रान्त्या । खः ।          ४ । टक्क । गः ।
२ । रणशूरस्तयाध्वनः । गः ।      ५ । लम्बकर्णोजटस्खव । गः ।
३ । जितेऽङ्गेऽपि । गः ।       ६ । जघन्यः । गः ।
10