सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 100, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 100

८६ अश्ववैद्यके [७ अध्यायः ।
पक्वान्नैः पञ्चशब्दैश्च प्रातःशुचिः१ सुवाससः ।
रक्ताम्बरधरो भूत्वा रक्तपुष्पधरस्तथा ॥ ४० ॥
ओं नमो रेवन्ताय अश्वहृदयाय ह्रीं क्लीं ओं नमोऽति-
श्वेताय२ सौम्यरूपाय इमं३ मम अश्वं साधय साधय
बन्धय बन्धय वश्यं कुरु कुरु महावीर्याय रेवन्ताय
नमः ॥ ४१ ॥
४०। पञ्चशब्दैरिति गवाजमेषगजाश्वैरित्यर्थः । तदुक्तं तिथ्यादितत्त्वे
तस्य पूजाविधौ,—“दारोपान्ते सुदीप्तञ्च संपूज्यो हव्यवाहनः । यवा-
क्षतघृतोपेतैः तण्डुलैश्च सुतर्पितः ॥ संपूजितव्यः पूर्णेन्दुः पयसा
पायसेन च । स्कन्दः सभार्यो रुद्रश्च तथा नन्दीश्वरो मुनिः ।
गोमद्भिः सुरभिः पूज्या छागवद्भिर्हुताशनः । उरभ्रवद्भिर्वरुणो
गजवद्भिर्विनायकः । पूज्यश्वाश्चैश्च रेवन्तो यथाविभवविस्तरैः” इति ॥
४१। पर्याणयेत् सन्नाहयेत् । जयदत्तेन पर्याणनात् पूर्व्वं ओं
नम इत्यादि मन्त्रजपस्य एकविंशतिवारं विधिः कृतः । अग्निपुराणेतु—
एतन्मन्त्रेण सह “हयगन्धर्व्वराज त्वम्” इत्यादि कर्णजापस्य विधिः
कृतः यथा,—“कर्णजापं ततः कृत्वा विमुह्य च तथाप्यरीन् । पर्या-
णयेद्धयं सादी वाहयेद्युद्भूतेजयः” इति ॥
१। स्नातः। गः।
२। श्वेताय। खः।
३। इममश्वं। गः।