सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 91, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 91

७ अध्यायः ।] रङ्गभूमिविवरणम्। ७७
शक्तिश्च द्विविधा प्रोक्ता बलदौर्बल्यसम्भवा।
बलिष्ठो दुर्बलत्वेन दुर्बलोऽपि बलेन वा१ ॥ १०॥
रङ्गभूमिविवरणम्।
छलेनौपाधिकायश्च सत्वं ज्ञात्वा च वाहयेत्।
सान्द्रां सुकठिनाञ्चैव पाषाणोदकसंयुताम् ॥ ११ ॥
तृणकाष्ठसमायुक्तां रङ्गभूमिन्तु वर्जयेत्।
समाञ्च विपुलाञ्चैव२ किञ्चित्पांशुसमन्विताम् ॥
एकान्ते विजने रम्ये रङ्गभूमिन्तु कारयेत् ॥ १२ ॥
रूपमाह सहजे इति। अत्र सहजादिशब्दत्रयं प्रथमान्तं भवितुं युज्यते।
अन्यथा पाठो न लगति ॥
१०। शक्तिः बलसम्भवा दौर्बल्यसम्भवा चेति द्विविधा।
१२। समां नतु उन्नतानतां। विपुलां महतीं सुदीर्घप्रशस्ता-
मित्यर्थः। किञ्चित्पांशुभिः अत्यल्पधूलिभिः समन्वितां युक्तां। इदं
विशेषणं रङ्गभूमेरतिकाठिन्यं निवार्याश्वानां पादाघातेनाक्लेशकरत्वं
सूचयति। अत्र नकुलः,—“समाञ्च विपुलाञ्चैव किञ्चित्पांशु-
समन्वितां। एकान्ते विजने चैवं रङ्गभूमिं हयं नयेत्। सान्द्राञ्च
कठिनाञ्चैव पाषाणोदकगर्त्तितां॥ तृणकाष्ठसमायुक्तां रङ्गभूमिं
विवर्जयेत्” इति ॥
१। बलिष्ठे दुर्बलत्वञ्च वलिनं दुर्बलेन च। गः।
२। सुविपुलाम्। गः।