अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 89, कुल 522 में से
संदर्भ में पढ़ें७ अध्यायः ।] विप्रादिविवरणम् । ७५
सत्त्वेन¹ ज्ञायते जाती रूपेण तु च वाहयेत् ।
सामप्रधानं² दण्डञ्च विविधं विनियोजयेत् ॥ ३॥
चासी लुब्धो दयालुश्च³ विप्रः स परिकीर्त्तितः ।
शूरश्च⁴ दृढ़मन्युश्च क्षत्रियस्तुरगः स्मृतः ॥ ४॥
पापिनः कल्वषा रूक्षा⁵ दुष्टा वैश्याः प्रकीर्त्तिताः ।
विरूपा विषमाश्चैव शूद्राश्चण्डा उदाहृताः ॥ ५ ॥
३ । अश्वानां क्षत्रियादिचतुर्ब्बिधजातीनामुत्पत्तिमाह नकुलः,—
“वाजिनो जलजाः केचिदग्निजातास्तथापरे । समीरप्रभवान्यान्ये उलूक
मृगजास्तथा ॥ जलोद्भवा द्विजातीयाः क्षत्रिया वह्निसम्भवाः । समीर-
प्रभवा वैश्या एणोलूकाश्च शूद्रकाः”—इति । अपिच,—“विवेकी
सद्गुणोविप्रः तेजस्वी क्षत्रियो बली । दुष्टभावस्तथा वैश्यः शूद्रो निः-
सत्वकारकः”—इति । एषां त्रिविधदण्डमप्याह नकुलः,—“ब्राह्मणः
सामवाही च भेदवाही च क्षत्रियः । उपादानेन वैश्यः स्यात् शूद्रो
दण्डेन ताड़ितः”—इति ॥ विविधं दण्डमिति उत्तममध्यमाधमत्वेन
त्रिरूपं दण्डमित्यर्थः ॥
४-५ । क्षत्रियादीनां लक्षणमाह चासीत्यादिना श्लोकद्वयेन ।
पापिनोऽमङ्गलाः । विरूपाः कुत्सितरूपाः । विषमा विसदृशाङ्गा
अङ्गसौष्ठवरहिता इत्यर्थः ॥
१ । साम्येन ज्ञायते जातिः जातिरूपेण वाहयेत् । खः ।
२ । समप्रदानदण्डैश्च विविधं । गः ।
३ । रसालुब्धः सुधालुश्च । गः ।
४ । शूराश्चैव दृढ़ा मान्याः । गः । ५ । कल्यकपाश्च । खः ।