अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
६७० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
पुनर्गोत्रेन्द्रियभेदाद् भूयांसो भवन्ति ॥ ४४ ॥
आकाशानन्त्यायतनादिष्विति । भवाग्रवर्ज्येषु त्रिष्वारूप्येषु यथाक्रमं
चत्वारिंशत् द्वात्रिंशच्चतुर्विंशतिश्च भवन्ति । कथं कृत्वा ? आकाशानन्त्यायतने
तावदष्टाविंशत्यां वज्रोपमेष्वाकाशानन्त्यायतनप्रतिपक्षालम्बनात् मार्गान्वय-
ज्ञानाकारैः संप्रयुक्तांश्चतुरः प्रक्षिप्य यावदाकिञ्चन्यायतनप्रतिपक्षालम्बनांश्चतुर
इति द्वादश प्रक्षिप्य चत्वारिंशद्भवन्ति । एवं चतुर्विंशत्यां विज्ञानानन्त्यायतन-
प्रतिपक्षालम्बनांश्चतुरः प्रक्षिप्य, आकिञ्चन्यायतनप्रतिपक्षालम्बनांश्चतुरः
प्रक्षिप्य द्वात्रिंशद्भवन्ति । एवं विंशत्यामाकिञ्चन्यायतनप्रतिपक्षालम्बनांश्चतुरः
प्रक्षिप्य चतुर्विंशतिर्भवन्ति ।
आह—नन्वपदिष्टमधोभूमिप्रतिपक्षालम्बनं तु भवति, तस्यान्योन्यहेतुत्वा-
दिति; अथ कस्मात् स्वभूम्यूर्ध्वभूमिप्रतिपक्षालम्बना एवोक्ता आकाशानन्त्या-
यतनादिसंगृहीताः, नाधोभूमिप्रतिपक्षालम्बना इति ? अत्रोच्यते—अविशेष्य
नवभूमिकमन्वयज्ञानपक्षं मार्गमधोभूमिप्रतिपक्षालम्बनं भवतीत्युक्तम् । न
पुनराकाशानन्त्यायतनादिसंगृहीतस्याधोभूमिप्रतिपक्षालम्बनम् । किं तर्हि ?
स्वभूम्यूर्ध्वभूमिप्रतिपक्षालम्बनमेव । तत्राविशेषरूपेणाधरालम्बनमन्वयज्ञानं
भवति, न विशेषस्वरूपेण । स्वभूम्यूर्ध्वभूम्यालम्बनं तु विशेषरूपेणापि
भवतीति ।
एष तु पूर्वको वैभाषिकाणां स्थापनापक्षः । सामान्यरूपेणैव सर्वमन्वयज्ञान-
पक्षमालम्बतेऽन्वयज्ञानमिति । तथा ह्याचार्यसङ्घभद्रेणोक्तम्—“सर्वं हि मार्गान्व-
यज्ञानं नवभूमिकान्वयज्ञानपक्षालम्बनम्” इति ।
अपरे त्वेवं व्याचक्षते—भावाग्रिकदुःखसमुदयान्वयज्ञानाकारैः सम्प्रयुक्ता
अष्टौ, निरोधान्वयज्ञानाकारैः सम्प्रयुक्ता आकाशानन्त्यायतननिरोधालम्बना-
श्चत्वारः, एवं यावद्भावाग्रिकनिरोधालम्बनाश्चत्वार इति षोडश, मार्गान्वय-
ज्ञानाकारैरपि सम्प्रयुक्ता आकाशानन्त्यायतनप्रतिपक्षालम्बनाश्चत्वारः, एवं
यावद्भावाग्रप्रतिपक्षालम्बनाश्चत्वार इति षोडश । त एते द्विषोडश, पूर्वोक्ताश्चाष्टा-
विति चत्वारिंशदाकाशानन्त्यायतनसंगृहीता वज्रोपमा भवन्ति । विज्ञानानन्त्या-
यतनसंगृहीता द्वात्रिंशत् । आकाशानन्त्यायतननिरोधप्रतिपक्षालम्बनानष्टावपनी-
येति आकिञ्चन्यायतनसंगृहीताश्चतुर्विंशतिः । विज्ञानानन्त्यायतननिरोधप्रतिपक्षा-
लम्बनानप्यपरानष्टावपनीयेति । भवाग्रस्यापि हि तेऽधोभूमिकं प्रतिपक्षमार्ग-
माचक्षत इति ।
पुनर्गोत्रेन्द्रियभेदाद् भूयांसो भवन्तीति । कथम् ? ये यावदष्टौ सर्वप्रथमा
उक्ताः, तेषाम् । यो भावाग्रिकदुःखालम्बनोऽनित्याकारसम्प्रयुक्तो वज्रोपमः,
। निर्देशः ] षष्ठं कोशस्थानम् ६७१
यस्त्वसौ भावाग्रिको नवमः प्रकार उक्तो यस्य वज्रोपमेन प्रहाणम्,
तत्क्षयाप्त्या क्षयज्ञानम्,
तस्य पुनर्नवमस्य प्रकारस्य क्षयप्राप्त्या सह क्षयज्ञानमुत्पद्यते । वज्रोपसमाधे-
रनन्तरं पश्चिमो विमुक्तिमार्गः । अतएव तत्क्षयज्ञानं सर्वास्रवक्षयप्राप्तिसहजत्वात्
प्रथमतः ।
अशैक्षोऽर्हन्नसौ तदा ।
उत्पन्ने च पुनः क्षयज्ञाने सोऽर्हत्त्वप्रतिपन्नकः अशैक्षो भवत्यर्हंश्चार्हत्त्व-
फलप्राप्तः । फलान्तरं प्रति पुनः शिक्षितव्याभावादशैक्षः । अत एव स
परार्थकरणार्थत्वात्¹, सर्वसरागपूजार्हत्त्वाच्चार्हन्निति सिद्धं भवति ।
अन्ये सप्त पूर्वोक्ताः पुद्गलाः शैक्षा इति ।
तस्य षड्गोत्रभेदात् षोढा भेदः । एवं दुःखाद्याकारसम्प्रयुक्तानां त्रयाणां
प्रत्येकं षोढा भेदः । तेषामपि प्रत्येकं मृदुमध्याधिमात्रेन्द्रियभेदाद् भेदः । यथा
चैषां प्रत्येकं गोत्रेन्द्रियभेदाः, एवं भावाग्निकसमुदयालम्बनानां चतुर्णां प्रत्येकं
षड्गोत्रभेदात् षोढा भेदः । इन्द्रियभेदाच्च त्रिधा भेदः । यथा चैषामष्टानां
गोत्रेन्द्रियभेदात् प्रत्येकं षोढा त्रिधा च भेदः, एवं सर्वेषामनागम्यसंगृहीतानां
ज्ञानाकारालम्बनभेदभिन्नानां यावदाकिञ्चन्यायतनसंगृहीतानां गोत्रेन्द्रियभेदाद्
भेदः । अनया वर्तन्या योज्यः ।
एवं वा योज्यः—प्रथमे पक्षे द्वापञ्चाशदनागम्यसंगृहीताः । यावद्विंशातिरा-
किञ्चन्यायतनसंगृहीता इत्यभिसमस्य चतुरशीत्युत्तराणि त्रीणि शतानि
वज्रोपमानां भवन्ति, तानि षड्गुणीकृत्य त्रिगुणीकृत्य च षट्सहस्राणि नवशतानि
द्वादशोत्तराणि भवन्ति । द्वितीयपक्षे यत्रादितोऽशीतिः, यावदाकिञ्चन्यायतने
चतुर्विंशतिरिति एकपिण्डतः षट्सप्तत्युत्तराणि पञ्चशतानि भवन्ति । गोत्रेन्द्रिय-
भेदात् षड्गुणीकृत्य त्रिगुणीकृत्य च दशसहस्राणि अष्टषष्ट्युत्तराणि च त्रीणि
शतानि वज्रोपमानां भवन्तीति ॥ ४४ ॥
अत एव तत्क्षयज्ञानमिति । कुतः ? इत्याह—सर्वास्रवक्षयप्राप्तिसहजत्वात्
प्रथमत इति । यस्मात् सर्वास्रवक्षयप्राप्त्या सह जातं तत्प्रथमतो ज्ञानम् ।
तस्मात् क्षयज्ञानमित्युच्यते; मध्यमपदलोपात् । नैरूक्तिविधानतो वा । सर्वग्रहणं
स्रोतआपन्नादिज्ञानविशेषणार्थम् । प्रथमतोग्रहणमनुत्पादज्ञानादिविशेषणार्थम् ।
सङ्केतापेक्षया हि शब्दप्रवृत्तिः । अत एव स इति । स्वार्थपरिसमाप्तेः । स
१. परमार्थ०-का० ।
केन ते शैक्षाः ? आस्रवक्षयाय नित्यं शिक्षणशीलत्वाच्छिक्षात्रये ।
अधिशीलमधिचित्तमधिप्रज्ञं च । ताः पुनः शीलसमाधिप्रज्ञास्वभावाः ।
पृथग्जनोऽपि शैक्षः प्राप्नोति ? न; यथाभूतं सत्याप्रज्ञानात् पुनश्चाप-
शिक्षणात् । अत एव द्विरभिधानं सूत्रे—"शिक्षायां शिक्षते, शिक्षायां शिक्षत इति
शिवक तस्माच्छैक्ष इत्युच्यते" इति । 'यः शिक्षत एव नापशिक्षते स शैक्षः'
इत्यवधारणं यथा विज्ञायेत ।
प्रकृतिस्थ आर्यः कथं शिक्षणशीलः ? आशयतः । स्थिताध्वगवत्, प्राप्त्यनु-
षङ्गतश्च शिक्षात्रयस्य ।
पराऽर्थकरणाऽर्हत्त्वादर्हन् । परार्थकरणायोग्यत्वादित्यर्थः । सर्वसरागपूजार्हत्त्वाच्चेति ।
सरागाः पथग्जनशैक्षाः, तेषां सर्वेषां पूजामर्हतीत्यर्हन् । सिद्धं भवतीति ।
किं सिद्धं भवति ? इत्याह—अन्ये सप्त पूर्वोक्ताः पुद्गलाः शैक्षा इति । त्रयः
फलस्थाश्चत्वारश्च प्रतिपन्नका उक्ताः । असावेवाशैक्ष इत्यवधारणादेतदन्ये
आर्याः शैक्षा इति सिद्धम् ।
केन ते शैक्षा इति । केन कारणेन ते सप्त पुद्गलाः शैक्षा इत्युच्यन्ते ?
इत्याह—आस्रवक्षयाय नित्यं शिक्षणशीलत्वादिति । शिक्षा शीलमेषामिति
शैक्षाः । “शीलम्” (४.४.६१) “छत्रादिभ्यो णः (पा० सू० ४.४.६२) इति
लक्षणात् । क्व शिक्षणशीलाः ? शिक्षात्रये । किं शिक्षात्रयम् ? अधिशीलमधि-
चित्तमधिप्रज्ञं च । किंस्वभावास्ताः ? इत्याह—ताः पुनः शीलसमाधिप्रज्ञास्वभावा
इति । शीले शिक्षा अधिशीलम्, एवं यावत्प्रज्ञायां शिक्षेत्यधिप्रज्ञमिति ।
“अव्ययं विभक्ति०” (पा० सू० २.१.६) इत्यव्ययीभावसमासः । शिक्षाक्रियाणां
त्वव्यतिरेकाच्छीलादिस्वभावाः शिक्षा इति व्याचष्टे ।
पृथग्जनोऽपि शैक्षः प्राप्नोतीति । पृथग्जनोऽपि विनयोक्तासु शिक्षासु शिक्षत
इति ? न, यथाभूतं सत्याप्रज्ञानात् । नैतदेवम् ? यथाभूतं सत्यानां दुःखादीनां
अप्रज्ञानादनवबोधात् । “तद्धि भिक्षवो दृष्टं यदार्यया प्रज्ञया” इति वचनात् ।
तथा हि सूत्रे अधिशीलमधिचित्तं वा शिक्षां विस्तरेणोक्त्वाह—“अधिप्रज्ञं शिक्षा
कतमा ? इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति, अयं दुःखसमुदयः,
अयं दुःखनिरोधः, इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यम्” इति, यथाभूत-
सत्याप्रज्ञानात् । यत्र च शिक्षिताः शीलादिषु, तत्र पुनरपशिक्षणात् ।
प्रातिमोक्षसंवरपरित्यागतः ऊष्मगतादिपरिहाणितश्चार्यः पुनर्यद्यपि किंचित्
परित्यजति, न तु सर्वम् । न ह्यार्यस्य कदाचिदपि शिक्षात्रयं नास्तीति ।
निर्देशः ] षष्ठं कोशस्थानम ६७३
अथ शैक्षा धर्माः कतमे ? शैक्षस्यानास्रवाः ।
अशैक्षाः कतमे ? अशैक्षस्यानास्रवाः ।
निर्वाणं कस्मान्न शैक्षम् ? अशैक्षपृथग्जनयोरपि तद्योगात् ।
कस्मान्नाशैक्षम् ? शैक्षपृथग्जनयोरपि तद्योगात् ।
त एते सर्व एवाष्टावार्यपुद्गला भवन्ति । प्रतिपन्नकाश्चत्वारश्च फले स्थिताः ।
तद्यथा—स्रोतआपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः स्रोतआपन्नः । एवं
यावदर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्नकोऽर्हन्निति ।
नामत एतेऽष्टौ भवन्ति । द्रव्यतस्तु पञ्च । प्रथमः प्रतिपन्नकः, चत्वारश्च
फलस्थाः । शेषाणां प्रतिपन्नकानां त्रिफलस्थायतिरेकात् ।
आनुपूर्वाधिगमं प्रत्येवमुच्यते । भूयःकामवीतरागौ तु स्यातां दर्शनमार्गे
सकृदागाम्यनागामिफलप्रतिपन्नकौ, न च स्रोतआपन्न-सकृदागामिनाविति ।
प्रकृतिस्थ आर्य इति । असमाहितावस्था सत्त्वानां प्रकृतिः, तत्रस्थ आर्यः
पिण्डपातचारादिगतः । न शिक्षेणशील इति । न शैक्षः स्यादित्यभिप्रायः ।
आशयत इति । छन्दतः । स्थिताध्वगवत् । अध्वग उच्यते योऽध्वानं गच्छति,
संस्थितोऽप्यध्वग इत्युच्यते; गमनाश्रितस्यापरित्यागात् तद्वत् । प्राप्त्यनुषङ्गतश्च ।
शीलसमाधिप्रज्ञानां च प्राप्तयः प्रकृतिस्थस्याप्यनुपज्यन्ते । तस्मात् प्रकृतिस्थोऽपि
नाशिक्षेणशील एवेति ।
शैक्षाशैक्षनिर्देशप्रसङ्गेनेदमुच्यते—अथ शैक्षा धर्माः कतमे इत्यादि ।
शैक्षस्यानास्रवा धर्माः संस्कृतस्वभावाः । एवमशैक्षस्याशैक्षा धर्माः ।
निर्वाणं कस्मान्न शैक्षम् । यच्छैक्षेण प्राप्तमित्यभिप्रायः । अशैक्षपृथग्जनयोरपि
तद्योगादिति । पृथग्जनोऽपि लौकिकमार्गप्राप्तेन निर्वाणेन युज्यते ।
प्रथमः प्रतिपन्नक इति । दर्शनमार्गस्थः । शेषाणामिति विस्तरः ।
शेषाणां प्रतिपन्नकानां सकृदागाम्यनागाम्यर्हत्त्वफलप्रतिपन्नकानां त्रिफलस्था-
व्यतिरेकात् । स्रोतआपत्तिसकृदागाम्यनागामिफलस्थेभ्योऽव्यतिरेकात् ।
सकृदागामिप्रतिपन्नकादयः स्रोतआपन्नादिभ्यो नान्य इत्यर्थः ।
आनुपूर्वाधिगमं प्रत्येवमुच्यत इति । आनुपूर्वेण चतुःफलप्राप्तिं प्रत्युच्यते—
द्रव्यत पञ्चेति । भूयःकामवीतरागौ तु स्याताम् । भूयोवीतरागः क्षीणषट्-
प्रकारः । कामवीतरागः क्षीणनवप्रकारः । दर्शनमार्गे दर्शनमार्गावस्थायां यथाक्रमं
"? No, "सास्रवाऽनास्रवाश्चोत्पद्यन्ते" or "सास्रवोऽनास्रवश्चोत्पद्यन्ते"?
Wait! Let's check the text of Sphutartha on 6.45:
"तद्यथा स्रोतआपन्नः शमथचरितो लौकिकेन मार्गेण वैराग्यं गच्छन् प्रतिप्रकारं विसंयोगप्राप्तयः सास्रवा अनास्रवाश्चोत्पद्यन्ते।" or "सास्रवाऽनास्रवाश्चोत्पद्यन्ते"?
Wait, look at the image:
"सा स्र वो [or वा?] ऽ ना स्र व [or वा?] श्चो [or श्च?] त्प द्य न्ते ।"
Wait, look at 'श्च':
Does 'श्च' have an o-matra?
Wait, if it is "श्चोत्पद्यन्ते" = च + उत्पद्यन्ते!
च (ca) + उत्पद्यन्ते (utpadyante) = चोत्पद्यन्ते (cotpadyante)!
Aha! च + उत्पद्यन्ते = चोत्पद्यन्ते!
Then before 'च' is 'सास्रवा अनास्रवाश्चोत्पद्यन्ते'?
Wait, if it's सास्रवा + अनास्रवाः + च + उत्पद्यन्ते:
सास्रवा + अनास्रवा = सास्रवाऽनास्रवाः (or सास्रवा अना
निर्देशः ] षष्ठं कोशस्थानम् ६७५
लोकोत्तरेणाप्येवमित्यपरे । किं कारणम् ?
त्यक्ते क्लेशासमन्वयात् ॥ ४६ ॥
यदि ह्यार्यमार्गेण वैराग्यं प्राप्नुवतो लौकिकी विसंयोगप्राप्तिर्नोत्पद्यते, एवं
सति य आर्यमार्गेणाकिञ्चन्यायतनाद् वीतरागो ध्यानं निश्रित्येन्द्रियाणि सञ्चरति, स
कृत्स्नपूर्वमार्ग त्यागात् केवलफलमार्गलाभाच्च ऊर्ध्वभूमिकक्लेशविसंयोगेनासमन्वागतः
स्यात् । त्यक्ते च तस्मिन् पुनरपि तैः क्लेशैः समन्वागतः स्यादिति ॥ ४६ ॥
भवाग्रार्धविमुक्तोर्ध्वजातवत् त्वसमन्वयः ।
असत्यामपि तु तस्यां¹ लौकिक्यां विसंयोगप्राप्तौ न तैः समन्वागमः स्यात् ।
तद्यथा भवाग्रार्धप्रकारविमुक्तस्य असत्यामपि तु लौकिक्यां तद्विसंयोगप्राप्तौ
त्यक्तायामपि चेन्द्रियसञ्चारेण लोकोत्तरायां न पुनस्तैः क्लेशैः समन्वागमो भवति ।
ध्यानं निश्रित्येति । यावच्छैक्षः षड्भूमीर्निश्रित्येन्द्रियाणि सञ्चरति,
नारूप्यमिति । "अशैक्षो नव निश्रित्य भूमीः शैक्षस्तु षड्" (अभि० को० ६.६१)
इति वचनात् । तेनाह—यो ध्यानं निश्रित्येन्द्रियाणि सञ्चरति । स कृत्स्नपूर्व-
मार्ग त्यागादारूप्यमार्गाणां मृद्विन्द्रियसंगृहीतानां पूर्वलब्धानां त्यागात् । केवल-
फलमार्गलाभाच्च केवलस्यानागामिफलस्य तीक्ष्णेन्द्रियस्वभावस्य लाभात् । "स
विशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन्" (अभि० को० ६.६२) इति वचनात् ।
ऊर्ध्वभूमिकक्लेशविसंयोगेन आरूप्यावचरक्लेशविसंयोगेनासमन्वागतः स्यात् ।
अयं चापरो दोषः—त्यक्ते च तस्मिन्नूर्ध्वभूमिकक्लेशविसंयोगे तैः क्लेशैरूर्ध्व-
भूमिकैः समन्वागतः स्यादिति ॥ ४६ ॥
"भवाग्रार्धविमुक्तोर्ध्वजातवत् त्वसमन्वयः" इति । अर्धेन विमुक्तोर्धविमुक्तः,
भवाग्रादधंविमुक्तो भवाग्रार्धविमुक्तः; ऊर्ध्वं जात ऊर्ध्वजातः, भवाग्रार्धविमुक्त-
श्चोर्ध्वजातश्च भवाग्रार्धविमुक्तोर्ध्वजातौ, तयोरिवेति भवाग्रार्धविमुक्तोर्ध्वजातवत् ।
समन्वयस्तैस्तस्येति वाक्यशेषः । तुशब्दः पूर्वदोषव्यावर्तनार्थम् ।
तमर्थं विवृण्वन्नाह—असत्यामिति विस्तरः । असत्यामपि तस्य पुद्गलस्य
लौकिक्यां विसंयोगप्राप्तौ न तैः क्लेशैः समन्वागमः स्यात् । तद्यथा भवाग्रार्ध-
प्रकारविमुक्तस्येति विस्तरः । तस्य हि लौकिकी भवाग्रार्धप्रकारविसंयोगप्राप्ति-
र्नास्ति; तत्प्रतिपक्षलौकिकमार्गाभावात् । लोकोत्तरा च तद्विसंयोगप्राप्तिर्ध्यानं
१. भवाग्राध०—का० ।
"! Wait, is it "ध्यानान्त्याः" or "ध्यानाप्याः"?
Look at the stroke:
'ना' is followed by 'रू' (curve from the middle of vertical bar? No, it's र with long ū: रू).
Then 'प' joined with 'य', with 'ा' and visarga 'ः': प्याः.
Wait, no, is it 'ना' or 'ना' with macron? "ध्यानाप्याः" or "ध्यानान्तरूपाः"?
Wait! "अष्टौ च ध्यानान्तरूपाः"? There is no 'त'.
It is: ध्या (dhyā) + ना (nā) + रू (rū) + प्याः (pyāḥ) = ध्यानाप्याः (dhyānārūpyāḥ)!
Wait, why ध्यानाप्याः instead of ध्यानान्तरूपाः? Because dhyāna + ārūpya = dhyānārūpya!
In Abhidharmakośa: "अष्टौ च ध्यानाऽऽरूप्याः" or "ध्यानाप्याः" (dhyāna-ārūpyāḥ = dhyānārūpyāḥ).
Look at the characters:
ध्या - ना - रू - प्याः!
Yes! ध्या (1) ना (2) रू (3) प्याः (4)! Exactly: ध्यानाप्याः!
Now let's check line 10 end to line 1
निर्देशः ] षष्ठं कोशस्थानम् ६७७
त्रिभूमिजयादूर्ध्वं मौलादेव, न पुनः सामन्तकाद्; उपेक्षेन्द्रियसामान्यात् ।
त्रिषु हि ध्यानेषु सामन्तकमौलयोरिन्द्रियभेदात् कश्चिन्न शक्नोति मौलं ध्यानं
प्रवेष्टुम्; इन्द्रियसञ्चारस्य दुष्करत्वात् ।
अतस्त्रिभूमिवैराग्ये ध्यानसामन्तकादप्यन्यो विमुक्तिमार्गो भवति ।
“अनास्रवेण वैराग्यमनागम्येन सर्वतः” (अभि०को० ६.४७), इत्युक्तम् ,
अन्यैस्तु नोक्तम् । अत उच्यते—
आर्यैरष्टाभिः स्वोर्ध्वभूजयः ॥ ४८ ॥
अनास्रवैरष्टाभिर्ध्यानध्यानान्तारूप्यैः स्वस्या ऊर्ध्वायाश्च भूमेर्वैराग्यं
नाधरायाः, वीतरागत्वात् । तत्र लोकोत्तरा आनन्तर्यविमुक्तिमार्गाः सत्यालम्बन-
त्वात् सत्याकारप्रवृत्ता इति सिद्धम् ॥ ४८ ॥
विमुक्त्यानन्तर्यपथा लौकिकास्तु यथाक्रमम् ।
शान्ताद्युदाराद्याकाराः,
विमुक्तिमार्गाः शान्ताद्याकाराः, आनन्तर्यमार्गा औदारिकाद्याकाराः । ते
पुनर्यथाक्रमम्—
उत्तराधरगोचराः ॥ ४९ ॥
विमुक्तिमार्गा उत्तरां भूमिं शान्ततः प्रणीततो निःसरणतश्चाकारयन्ति
उपेक्षेन्द्रियसामान्यादिति । चतुर्थध्यानादिसमापत्तितत्सामन्तकयोरुपेक्षेन्द्रियं
तुल्यमिति । कश्चिन्न शक्नोतीति मृद्विन्द्रियः । इन्द्रियसञ्चारस्य दुष्करत्वा-
दिति । उपेक्षेन्द्रियानन्तरं सुखेन्द्रियस्य सौमनस्येन्द्रियस्य वा दुष्करत्वात् ।
मौलसामन्तकयोरुपेक्षेन्द्रियसामान्ये सति किमर्थं मौलादेवान्त्यं विमुक्तिमार्गं
सम्मुखीकरोति । न सामन्तकात् वीतरागभूमिबाहुमान्यात् । नाधराया वीतराग-
त्वादिति । तत्सामन्तकेन चाधोवैराग्यस्य कृतत्वात् । सत्याकारप्रवृत्ता इति ।
अनित्याद्याकारप्रवृत्ताः ॥ ४८ ॥
सम्भवत इति । यद्यधरां भूमिमौदारिकतः पश्यन्यूर्ध्वं तद्विपर्ययेण शान्त-
इत्येके । अपरे व्याचक्षते—शान्ताद्याकाराणां कदाचिदेकेनाप्याकारेणाकार-
६७८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
सम्भवतः । आनन्तर्यमार्गा अधरां भूमिमौदारिकतो दुःखितः स्थूलभित्तिकतश्च ।
अशान्तत्वादौदारिकतः; महाभिसंस्कारतरत्वात् । अप्रणीतत्वात् ; दुःखितो
बहुदौष्ठुल्यतरत्वेन प्रतिकूलभावात् । स्थूलभित्तिकतः; तयैव तद्भूभ्यनिःसरणात्,
भित्त्यानिःसरणवत् । तेषां¹ विपर्ययेण शान्तप्रणीतनिःसरणाकाराः ॥ ४९ ॥
गतमानुषङ्गिकम् ॥
इदं² वक्तव्यम्—अथ क्षयज्ञानादनन्तरं किमुत्पद्यते ?
यद्यकोप्यः क्षयज्ञानादनुत्पादमतिः,
अकोप्यधर्मा चेदर्हन्भवति क्षयज्ञानात् समनन्तरमनुत्पादज्ञानमस्योत्पद्यते ।
न चेत् ।
क्षयज्ञानमशैक्षी वा दृष्टिः,
यन्ति, नावश्यं समस्तैरिति । औदारिक इति । औदारिकमित्यौदारिकतः ।
अशान्तत्वादौदारिकतः । कथमशान्ताधरा भूमिः ? महाभिसंस्कारतरत्वात् । इदं
महाभिसंस्कारं यत्नसाध्यं मार्गेण सहाधरं स्थानम्, इदमपि महाभिसंस्कारं
सह मार्गेणोर्ध्वं स्थानम्, इदमनयोरतिशयेनेति महाभिसंस्कारतरम्, तद्भावः
तस्मात् । खिलम् दुर्भेद्यम्, कुत्सितं खिलं दुःखिलमिति दुःखिलतः । कथम्-
प्रणीताधरा भूमिः ? इत्याह—बहुदौष्ठुल्यतरत्वेन प्रतिकूलभावादिति । दौष्ठुल्यं
कायचित्तयोरकर्मण्यता, क्लेशानुकूलतेत्यर्थः । बहुदौष्ठुल्यमस्येति बहुदौष्ठु-
ल्यम् । इदमपि बहुदौष्ठुल्यं समार्गमधरं स्थानम्, इदमपि बहुदौष्ठुल्यं
समार्गमूर्ध्वं स्थानम्, इदमनयोरतिशयेनेति बहुदौष्ठुल्यतरम्, तद्भावात् । स्थूल-
भित्तिकत इति । स्थूलभित्तिकभावेन । तयैव तद्भूभ्यनिःसरणात् । तयैव भूम्या
तस्या एव भूमेरनिःसरणात् । भित्त्यानिःसरणवत् । यथा तथा तयैव भित्त्या तस्या
एव भित्तेरनिःसरणम्, तदवष्टब्धाकाशदेशात् । तेषां विपर्ययेणेति । अल्पाभि-
संस्कारत्वादल्पदौष्ठुल्यतरत्वेनाप्रतिकूलभावात् तया भूम्या तद्भूमिनिःसरणाद्
यथाक्रमं शान्तप्रणीतनिःसरणाकाराः ॥ ४६ ॥
गतमानुषङ्गिकम् । इदं वक्तव्यमिति । क्षयज्ञानान्तराभावि वक्तव्यम् ।
अनुषङ्गेण तु लौकिकानन्तर्यविमुक्तिमार्ग लक्षणनिर्देश इति ।
“यद्यकोप्यः क्षयज्ञानादनुत्पादमतिः” इति । अपुनःकर्तव्यताज्ञानम् । तदस्य
१. एषां—का० । २. इदं तु—का० ।
निर्देशः ] षष्ठं कोशस्थानम् ९७६
न चेदकोप्यधर्मा भवति क्षयज्ञानात् क्षयज्ञानमेवोत्पद्यते, अशैक्षी वा
सम्यग्दृष्टिः । न त्वनुत्पादज्ञानम्; परिहाणिसम्भवात् ।
किं पुनरकोप्यधर्मणः सा नैवोत्पद्यते ?
सर्वस्य साऽर्हतः ॥ ५० ॥
अकोप्यधर्मणोऽप्यनुत्पादज्ञानात् कदाचिदनुत्पादज्ञानमेवोत्पद्यते, कदाचिद-
शैक्षी सम्यग्दृष्टिः ॥ ५० ॥
यान्येतानि चत्वारि फलान्युक्तानि, कस्यैतानि फलानि ? श्रामण्यफलानि ।
किमिदं श्रामण्यं नाम ?
श्रामण्यममलो मार्गः,
अनास्रवो मार्गः श्रामण्यम् । तेन हि श्रमणो भवति; क्लेशसंशमनात् ।
“शमिता अनेन भवन्ति अनेकविधाः पापका अकुशला धर्मा विस्तरेण यावज्जरा-
मरणीयाः, स्तस्माच्छ्रमण इत्युच्यते” इति सूत्रे वचनात् । अनत्यन्तशमनान्न
पृथग्जनः परमार्थश्रमणः ।
तस्य पुनः श्रामण्यस्य ?
संस्कृतासंस्कृतं फलम् ।
संस्कृतासंस्कृतानि हि श्रामण्यफलानि पुनश्चत्वार्युक्तानि सूत्रे । अपि तु
एकान्नवतिस्तानि,
कानि पुनस्तानि ?
मुक्तिमार्गाः सह क्षयैः ॥ ५१ ॥
दर्शनहेयप्रहाणायाष्टावानन्तर्यमार्गाः, अष्टौ विमुक्तिमार्गा भावनाहेयप्रहाणाय ।
नवसु भूमिषु प्रत्येकं नवप्रकाराणां क्लेशानां प्रहाणाय तावन्त एवानन्तर्यमार्गाः,
विमुक्तिमार्गाश्च ।
तदानीमुत्पद्यते । परिहाणिसम्भवादिति । क्लेशोत्पादावकाशोऽस्तीति नास्या-
नुत्पादज्ञानमुत्पद्यते । किं कारणम् ? परिहाणिसम्भवात् । यस्मादस्य परिहाणिः
सम्भवति । यस्य पुनरनुत्पादज्ञानम्, न तस्य परिहाणिरिति ॥ ५० ॥
तेन हि श्रमणो भवतीति । श्रामण्ययोगाच्छ्रमणो भवति । यथा शौक्ल्य-
योगाच्छुक्लः पट इति । शमयति क्लेशानिति श्रमणः ।
तत्रानन्तर्यमार्गाः श्रामण्यम्, विमुक्तिमार्गाः संस्कृतानि श्रामण्यफलानि ।
तन्निष्यन्दपुरुषकारफलत्वात् । तेषां क्लेशानां प्रहाणान्यसंस्कृतानि श्रामण्य-
फलानि । एवमेकान्ननवतिर्भवन्ति ॥ ५१ ॥
एवं तर्हि बुद्धस्योपसंख्यानं कर्तव्यं जायते ? न कर्तव्यम् । यद्यपि
भूयांसि फलानि,
चतुष्फलव्यवस्था तु पञ्चकारणसम्भवात् ।
यस्यां हि प्रहाणमार्गावस्थायां पञ्च कारणानि सम्भवन्ति, तस्यां किल
भगवता फलं व्यवस्थितम् ।
कतमानि पञ्च ?
पूर्वत्यागोऽन्यमार्गाप्तिः क्षयसंकलनं फले ॥ ५२ ॥
ज्ञानाष्टकस्य लाभोऽथ षोडशाकारभावना ।
१. पूर्वमार्गत्यागः, २. अपूर्वमार्गाप्तिः; प्रतिपन्नकफलमार्गत्यागलाभात् ।
३. प्रहाणसंकलनम्; सर्वस्यैकप्राप्तिलाभात् ॥ ५२ ॥
तन्निष्यन्दपुरुषकारफलत्वादिति । तस्य श्रामण्यस्यानन्तर्यमार्गलक्षणस्य
यथायोगं विमुक्तिमार्गा असंस्कृतानि च निष्यन्दफलत्वात् पुरुषकारफलत्वाच्च ।
विमुक्तिमार्गास्तस्य निष्यन्दफलं पुरुषकारफलं च । असंस्कृतानि पुरुषकार-
फलमेव ।
“यद्बलाज्जायते यत् तत् फलं पुरुषकारजम्” (अभि० को० २.५८)
यद्बलात् प्राप्यते च यत् तच्च पुरुषकारफलमिति कृत्वा ॥ ५१ ॥
एवं तर्हीति विस्तरः । यथा पृथग्जनस्य पाणिनेः प्रवचने उपसंख्यानं
क्रियते, एवं सर्वज्ञस्यापि बुद्धस्योपसंख्यानं कर्तव्यमुपजायत इति वाक्यार्थः ।
पूर्वमार्गत्याग इति विस्तरः । पूर्वमार्गत्यागः, प्रतिपन्नकमार्गत्यागात् ।
अपूर्वमार्गप्राप्तिश्च फलमार्गलाभादिति । सर्वस्य
दर्शनहेयप्रहाणस्यैका भावनामार्गसंगृहीता प्राप्तिः स्रोतआपत्तिफलप्राप्तिकाले
लभ्यते । तथा सकृदागामिफलप्राप्तिकाले दर्शनहेयप्रहाणस्य षड्विधभावना-
मार्गहेयप्रहाणस्य च सर्वस्यैका सकृदागामिफलसंगृहीता प्राप्तिर्लभ्यते ।
एवमनागाम्यर्हत्त्वफलयोरपि योज्यम् ॥ ५२ ॥
निर्देशः ] षष्ठं कोशस्थानम् ६८१
४. युगपदष्टज्ञानलाभश्चतुर्विधानां धर्मान्वयज्ञानाम् । ५. षोडशाकार-
भावना अनित्याद्याकाराणाम् । इमानि हि पञ्च कारणानि फले फले भवन्ति ।
यद्यनास्रवो मार्गः श्रामण्यम् , कथं लौकिकमार्गप्राप्तं फलद्वयं श्रामण्यफलं
युज्यते ?
लौकिकाप्तं तु मिश्रत्वानास्रवाप्तिः धृतेः फलम् ॥ ५३ ॥
न हि तत्र लौकिकमार्गफलमेव प्रहाणं सकृदागामिफलं वा भवति, अनागामि-
फलं वा । किं तर्हि ? दर्शनमार्गफलमपि प्रहाणं तत्र मिश्रीक्रियते; सर्वस्य
तत्फलसंगृहीतैकविसंयोगप्राप्तिलाभात् । अत एव हि सूत्र उक्तम्—"सकृदा-
गामिफलं कतमत् ? यत् त्रयाणां संयोजनानां प्रहाणं रागद्वेषमोहानां च तनुत्व-
मिति । अनागामिफलं कतमत् ? यदुत पञ्चानामवरभागीयानां संयोजनानां
प्रहाणम्" इति । अनास्रवया च विसंयोगप्राप्त्या तत्प्रहाणं सन्धार्यते । तद्-
बलेन परिहीणात् १ । अतोऽप्यस्य मरणं युक्तं श्रामण्यफलम् ॥ ५३ ॥
चतुर्विधानां धर्मान्वयज्ञानामिति । सत्यभेदाच्चतुर्विधानां धर्मज्ञानानामन्वय-
ज्ञानानां च तथैव चतुर्विधानामिति । युगपदष्टज्ञानलाभः । लौकिकमार्गप्राप्तं
फलद्वयमिति । सकृदागामिफलमनागामिफलं च । तद्धि लौकिकेनापि मार्गेण
प्राप्तं सम्भवति । तत्कथं श्रामण्यस्यानास्रवमार्गलक्षणस्य फलं युज्यते ?
दर्शनमार्गफलमपि प्रहाणमिति । अपिशब्दाद् भावनामार्गफलमपि प्रहाणं
गृह्यते । तस्य द्विप्रकारस्यापि प्रहाणस्य सकृदागामिफलसंगृहीता अनागामिफल-
संगृहीता वा एका प्राप्तिर्लभ्यते । तस्माद्दर्शनमार्गफलप्रहाणयोगादसंस्कृतं
सकृदागामिफलमनागामिफलं वा श्रामण्यफलं भवति । यत् त्रयाणां संयोजनानां
प्रहाणमिति । त्रिसंयोजनप्रहाणं दर्शनमार्गेण । पञ्चावरभागीयकदेशानां
सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सानां दर्शनमार्गेणैव प्रहाणम् । तस्य
प्रहाणस्य सकृदागाम्यनागामिफलत्वे । किम् ? कुतः श्लेषः । तेन ज्ञायते—
प्रहाणमिश्रीकरणादेवमुक्तं भगवतेति । तद्बलेन परिहीणादिति ।
“लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा” (अभि० को० ६.४६) इति
तत्रानास्रवया विसंयोगप्राप्त्या तत्प्रहाणं यह्लौकिकमार्गसम्प्राप्तं सन्धार्यते ।
१. परिहीणामरणात्—का० ।
अभि० को० ३ : १५
६८२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [मार्गपुद्गल-
यदेव चैतच्छा्मण्यमुक्तम् ,
ब्राह्मण्यम्, ब्रह्मचक्रं च तदेव,
क्लेशानां वाहनाद् ब्राह्मण्यम् । ब्रह्मचक्रं तु
ब्रह्मवर्तनात् ।
अनुत्तरब्राह्मण्ययोगात् भगवान् ब्रह्मा । "एष हि भगवान् ब्रह्मा इत्यपि,
शान्तः शीतीभूत इत्यपि" इति सूत्रात् । तस्येदं चक्रमिति ब्राह्मम्; तेन
प्रवर्तितत्वात् ।
धर्मचक्रं तु दृङ्मार्गः,
चङ्क्रमणाच्चक्रम् , तत्साधर्म्याद् दर्शनमार्गो धर्मचक्रम् ।
कथमस्य साधर्म्यम् ?
आशुगत्वाद्यरादिभिः ॥ ५४ ॥
आशुगत्वात् , त्यजनक्रमणात् , अजितजयजिताध्यवसनाद् , उत्पतन-
प्राप्तियोगेनावश्यमुपतिष्ठत इत्यर्थः । म्रियते न फलभ्रष्ट इति । तदभावे हि
लौकिकस्येव परिहीणस्य मरणं स्यात् । तद्बलेनेति । अनास्रवविसंयोगप्राप्तिबले-
नेत्यर्थः । सैव च वर्तमानलौकिकमार्गोपजनितानास्रवा प्राप्तिरनागताष्टाङ्ग-
आर्यमार्गो लौकिकबलेन प्राप्यमाणः संस्कृतं श्रामण्यफलं व्यवस्थाप्यमानं न
विरुध्यते । सूत्रे त्वसंस्कृतं श्रामण्यफलमुद्गृह्यते; प्राधान्यात् । संस्कृतमप्यत्रैष्ट-
व्यमिति ॥ ५३ ॥
क्लेशानां वाहनाद् ब्राह्मण्यमिति । वाहिता अनेनानेकविधाः पापका
अकुशला धर्मा इति ब्राह्मणः । तद्भावो ब्राह्मण्यम् = अनास्रवो मार्गः । कथं
ब्रह्मचक्रम् ? इत्याह—ब्रह्मचक्रं तु ब्रह्मवर्तनादिति । यस्माद् ब्रह्मणा प्रवर्तितम्,
तस्मात् ब्रह्मचक्रमिति । अनुत्तरब्राह्मण्ययोगादिति । अनुत्तरानास्रवमार्गयोगा-
दित्यर्थः । एष हि भगवान् ब्रह्मेति एतदुदाहरणम् । जीवकेनोक्तमेतत् ।
“आशुगत्वाद्यरादिभिः” इति । आशुगत्वादिभिररादिभिश्चेत्यर्थः । आशु-
गत्वादिति विस्तरः । इदं मार्गस्य चक्ररत्नेन साधर्म्यमुच्यते । यथा चक्ररत्न-
माशुगम् , एवं दर्शनमार्गः । पञ्चदशभिश्चिचत्तक्षणैः सत्याभिसमयादाशुग इति ।
त्यजनक्रमणात् । यथा तदन्यं देशं त्यजत्यन्यं देशं क्रामति, एवमयमानन्तर्यमार्गे
त्यजति विमुक्तिमार्गं क्रामति सम्मुखीभावतः । · सत्यान्तरत्यजनक्रमणाद्वा ।
The provided image is completely blank and contains no text. Please provide an image that contains the text you would like transcribed.
६८४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
कथं तत् त्रिपरिवर्तं द्वादशाकारं च ? इदं दुःखमार्यसत्यम्, तत् खलु
परिज्ञेयम्, तत् खलु परिज्ञातम्—इत्येते त्रयः परिवर्ताः । एकैकस्मिंश्च परिवर्ते
चक्षुरुदपादि, ज्ञानम्, विद्या, बुद्धिरुदपादि---इत्येते द्वादशाकाराः । प्रतिसत्यमेवं
मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । तत् खलु दुःखमार्यसत्यमभिज्ञाय परिज्ञातं
मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । तत् खलु दुःखसमुदय आर्यसत्यम-
भिज्ञाय प्रहीणं मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । तत् खलु दुःखनिरोध
आर्यसत्यमभिज्ञाय साक्षात्कृतं मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । तत् खलु
पुनर्दुःखनिरोधगामिनी प्रतिपदार्यसत्यमभिज्ञाय भावितं मयेति पूर्वमननुश्रुतेषु
धर्मेषु पूर्ववत् । यावच्च मम भिक्षव एषु चतुर्वार्यसत्येष्वेवं त्रिपरिवर्तं
द्वादशाकारं न चक्षुरुदपादि, न ज्ञानम्, न विद्या, न बुद्धिरुदपादि; न तावदह-
मस्मात् सदेवकाल्लोकात् समारकात् सब्रह्मकात् सश्रमणब्राह्मणिकायाः प्रजायाः
सदेवमानुषासुराया मुक्तो निःसृतो विसंयुक्तो विप्रयुक्तो विपर्यासांपगतेन चेतसा
बहुलं व्यहार्षम् । न तावदहमनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धोऽस्मीत्यध्य-
ज्ञासिषम् । यतश्च मम भिक्षव एषु चतुर्वार्यसत्येष्वेवं त्रिपरिवर्तं द्वादशाकारं
चक्षुरुदपादि, यावद् बुद्धिरुदपादि । ततोऽहमस्मात् सदेवकाद्यावत् विप्रयुक्तो
विपर्यासापगतेन चेतसा बहुलं व्यहार्षम् । ततोऽहमनुत्तरां सम्यक्सम्बोधिम-
भिसम्बुद्धोऽस्मीति अध्यज्ञासिषम्' । अस्मिन् खलु पुनर्धर्मपर्याये भाष्यमाणे
आयुष्मतः कौण्डिन्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नमशीतेश्च
देवतासहस्राणाम् । तत्र भगवानायुष्मन्तं कौण्डिन्यमामन्त्रयते स्म—
'आज्ञातस्ते कौण्डिन्य धर्मः' ? 'आज्ञातो मे भगवन् !' 'आज्ञातस्ते कौण्डिन्य
धर्मः' ? 'आज्ञातो मे सुगत !' 'आज्ञाता आयुष्मता कौण्डिन्येन धर्मः' इति
भौमा यक्षाः शब्दमुदीरयन्ति घोषमनुश्रावयन्ति । एतन्मार्षा भगवता वाराणस्यां
ऋषिपतने मृगदावे त्रिपरिवर्तद्वादशाकारं धर्मचक्रं प्रवर्तितम् । अप्रवर्तितपूर्वं
श्रमणेन वा ब्राह्मणेन वा वा देवेन वा मारेण वा ब्रह्मणा वा केनचित् पुनर्लोके
सहधर्मेण बहुजनहिताय" ( ) इति विस्तरः ।
तदेवमार्यस्य कौण्डिन्यस्य दर्शनमार्ग उत्पन्ने देवताभिरुक्तं भगवता प्रवर्तितं
धर्मचक्रमिति । सूत्रवचनात् दर्शनमार्गो धर्मचक्रमिति गम्यते ।
कथं त्रिपरिवर्तमिति विस्तरः । इदं दुःखमार्यसत्यमित्येकः परिवर्त्तः । तत्
खलु परिज्ञातव्यमिति द्वितीयः । तत् खलु परिज्ञातमिति तृतीयः । इत्येते त्रयः
परिवर्त्ताः । एकैकस्मिन् परिवर्ते इदं दुःखमित्यस्मिंश्चक्षुरुदपादि ज्ञानं विद्या
भवन्ति । त्रिकद्वादशकसाधर्म्यात्तु त्रिपरिवर्तं द्वादशाकारमुक्तम् । द्वयसप्तस्थान-
कौशलदेशनावत्¹ ।
एभिश्च परिवर्तैर्दर्शन-भावनाऽशैक्षमार्गा यथासंख्यं दर्शिता इति
वैभाषिकाः ।
बुद्धिरुदपादीति चत्वार आकाराः, परिज्ञातव्यमित्यस्मिन् पुनश्चत्वारः, परिज्ञात-
मित्यस्मिन् पुनरपि चत्वारः—इत्येते द्वादशाकाराः । तत्र प्रत्यक्षार्थत्वादनास्रवा
प्रज्ञा चक्षुः । निःसंशयत्वाज्ज्ञानम् । भूतार्थत्वाद् विद्या । विशुद्धत्वाद् बुद्धिः;
विशुद्धा धीर्बुद्धिरिति निरुक्तेः । पुनर्बाह्यकानां सत्येषु दर्शनं कुदृष्टिविचिकित्सा-
विद्यानामप्रतिपक्षः सास्रवं चेति ततो विशेषणार्थं चक्षुरादिग्रहणम् पुनस्त्रिषु
परिवर्तेषु प्रथमं दर्शनं चक्षुः । यथादृष्टव्यवचारणं ज्ञानम् । यावद्भाविकता-
मुपादाय विद्या; यावद्विद्यमानग्रहणात् । यथावद्भाविकतामुपादाय बुद्धिः;
यथाभूतार्थावबोधात् । पुनरननुश्रुतेषु धर्मेष्वानुमानिकज्ञानप्रतिषेधार्थं चक्षु-
रित्याह । आधिमोक्षिकज्ञानप्रतिषेधार्थं ज्ञानमिति । आभिमानिकज्ञानप्रतिषेधार्थं
विद्येति । सास्रवप्रतिषेधार्थं बुद्धिरिति । प्रतिसत्यमेव भवन्तीति । अयं दुःख-
समुदय आर्यसत्यम्, तत् खलु प्रहातव्यम्, तत् खलु प्रहीणमित्येते त्रयः
परिवर्ताः । एकैकस्मिन् परिवर्ते चक्षुरुदपादि, ज्ञानम्, विद्या, बुद्धिरित्येते
द्वादशाकाराः । एवं निरोधमार्गसत्ये अपि योज्ये । आह—यदि प्रतिसत्यमेवं
भवन्ति, त्रयः परिवर्ता द्वादश चाकारा द्वादश परिवर्ताः अष्टचत्वारिंशच्चाकाराः
प्राप्नुवन्ति, कस्मात् 'त्रिपरिवर्तं द्वादशाकारम्' इत्युक्तम् ? अत उच्यते—
त्रिकद्वादशकसाधर्म्यात् तु त्रिपरिवर्तं द्वादशाकारमुक्तमिति । द्वयसप्तस्थान-
कौशलदेशनावदिति । द्वयदेशनावत्, सप्तस्थानकौशलदेशनावच्च । तद्यथा
विस्तरमुक्त्वा "तेन हि भिक्षो द्वयं ते देशयिष्यामि, तच्छृणु साधु च सुष्ठु च
मनसिकुरु भाषिष्ये । द्वयं कतमत् ? चक्षूरूपाणि यावन् मनोधर्मांश्च" इति ।
यथेह द्वयसाधर्म्याद् द्वयमित्युक्तम्, एवं त्रिकद्वादशकसाधर्म्यात् त्रिपरिवर्तं
द्वादशाकारमुक्तम् । यथा च सप्तस्थानकुशलो भिक्षुः रूपं यथाभूतं प्रजानाति,
रूपसमुदयम्, रूपनिरोधम्, रूपनिरोधगामिनीं प्रतिपदम्, रूपस्यास्वादं
च, आदीनवं च, निःसरणं च यथाभूतं प्रजानातीति सप्तस्थानकुशलो भिक्षुः
त्रिविधार्थोपपरीक्षी क्षिप्रमेवास्मिन् धर्मविनये दुःखस्यान्तं प्रजानातीति; प्रत्येकं
स्कन्धेषु सप्तस्थानकुशलसाधर्म्यात् । एवमिहापि त्रिकद्वादशकसाधर्म्यात्
त्रिपरिवर्तं द्वादशाकारमुक्तमिति ।
१. कौशला०-का० ।
६८६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
यद्येवम्, न तर्हि दर्शनमार्ग एव त्रिपरिवर्त्तो द्वादशाकार इति कथमसौ
धर्मचक्रं व्यवस्थाप्यते ? तस्मात् स एव धर्मपर्यायो धर्मचक्रं त्रिपरिवर्तं
द्वादशाकारं च युज्यते ।
कथं च पुनस्त्रिपरिवर्त्तम् ? सत्यानां त्रिःपरिवर्त्तनात् । कथं द्वादशाकारम् ?
चतुर्णां सत्यानां त्रिधाकरणात् । दुःखं समुदयो निरोधो मार्ग इति परिज्ञप्तव्यम्१;
प्रहातव्यम्२, साक्षात्कर्तव्यम्, भावयितव्यमिति; परिज्ञातम्, प्रहीणम्, साक्षात्कृतम्,
भावितमिति ।
तस्य पुनः प्रवर्तनं परसन्ताने गमनम्; अर्थज्ञापनात् ।
एभिश्चेति विस्तरः । एभिश्च परिवर्त्तैर्यथासूत्रनिर्दिष्टैर्दर्शनभावनाशैक्षमार्गा
यथासंख्यं दर्शिताः । इदं दुःखमार्यसत्यमित्यारभ्य यावदियं दुःखनिरोधगामिनी
प्रतिपदार्यसत्यमिति दर्शनमार्गो दर्शितः । तत् खलु दुःखमार्यसत्यमभिज्ञाय
परिज्ञातव्यमित्यारभ्य यावत् तत् खलु दुःखनिरोधगामिनी प्रतिपदार्यसत्यम-
भिज्ञाय भावयितव्यमिति भावनामार्गो दर्शितः । तत् खलु दुःखमार्यसत्यमभि-
ज्ञया परिज्ञातमित्यारभ्य यावत् तत् खलु दुःखनिरोधगामिनी प्रतिपदार्य-
सत्यमभिज्ञाय भावितमित्यशैक्षमार्गो दर्शित इति ।
अत्राचार्य आह - यद्येवमिति विस्तरः । यद्येवमेभिः परिवर्त्तैर्दर्शनादिमार्गा
यथासंख्यं दर्शिताः । न तर्हि दर्शनमार्ग एव त्रिपरिवर्त्तो द्वादशाकारः । किं
तर्हि ? एकपरिवर्त्तश्चतुराकार इति । कथमसौ दर्शनमार्गो धर्मचक्रं व्यवस्थाप्यते ।
त्रिपरिवर्त्ताभावे चक्रसाधर्म्याभावान्न चक्रं युज्यत इत्यभिप्रायः । स एव
धर्मपर्यायो धर्मचक्रम् । तदेवं सूत्रं धर्मचक्रम्; धर्मचक्रप्रकाशनात् । त्रिपरिवर्तं
द्वादशाकारं च युज्यते; तदर्थप्रकाशनात् ।
त्रिःपरिवर्त्तनादिति । दुःखं यावन्मार्ग इत्येकं परिवर्त्तनम् । परिज्ञातव्यं
यावद्भावयितव्यमिति द्वितीयम् । परिज्ञातं यावद्भावितमिति तृतीयम् ।
चतुर्णां सत्यानां त्रिधाकरणादिति । दुःखं समुदयो निरोधो मार्ग इति सत्यस्वरूपं
प्रथम३ आकरणप्रकारश्चतुराकारः । परिज्ञातव्यं प्रहातव्यं साक्षात्कर्तव्यं
भावयितव्यं इति कर्तव्यरूपां परिज्ञानक्रियां प्रति द्वितीय आकरणप्रकारश्चतु-
राकारः । परिज्ञातं प्रहीणं साक्षात्कृतं भावितमिति परिनिष्ठितां परिज्ञानादिक्रियां
प्रति तृतीय आकरणप्रकारश्चतुराकार इति । तस्य पुनरिति । धर्मपर्यायस्य ।
१. परिज्ञेयं-का० । २. प्रहातव्यम्-का० ।
३. प्रत्येक-जा० ।
निर्देशः ] षष्ठं कोशस्थानम् ९८७
अथवा—सर्व एवार्यमार्गो धर्मचक्रम् ; विनेयजनसन्ताने¹ क्रमणात्¹ । तत्तु
परसन्ताने दर्शनमार्गोत्पादनाद् वर्तयितुमारब्धम्, अतः प्रवर्तितमित्युच्यते ॥ ५४ ॥
अथ कस्मिन् धातौ कति श्रामण्यफलानि प्राप्यन्ते ?
कामे त्रयाप्तिः,
कामधातावेव त्रयाणां श्रामण्यफलानां प्राप्तिः, नान्यत्र ।
अन्त्यस्य त्रिषु,
अन्त्यं श्रामण्यफलमर्हत्त्वं तस्य त्रिषु धातुषु प्राप्तिः ।
फलद्वयस्य तावद्वीतरागप्राप्त्यत्वादूर्ध्वमप्राप्तिर्युक्ता, तृतीयस्य तु
कस्मादप्राप्तिः ?
नोर्ध्वं हि दृक्पथः ।
ऊर्ध्वं हि कामधातोर्दर्शनमार्गो नास्ति । न च तेन विनाऽस्ति वीतराग-
स्यानागामिफलप्राप्तिरित्येतत् कारणम् ।
किं पुनः कारणं तत्र दर्शनमार्गो नास्ति ? आरूप्येषु तावत् श्रवणाभावाद्,
अधोधात्वनालम्बनाच्च ।
प्रवर्तनं परसन्ताने गमनं विनेयजनसन्ताने प्रेरणम् । कथं गमनम् ?
अर्थज्ञापनात् ।
अथ वा सर्व एवार्यमार्गो दर्शनभावनाशैक्षमार्गो धर्मचक्रम् । विनेयजनसन्ताने
क्रमणात् । क्रमणाच्चक्रमिति कृत्वा । यदि सर्व एवार्यमार्गो धर्मचक्रम्,
कथमार्याज्ञातकौण्डिन्यस्य दर्शनमार्गमात्रोत्पादे तत् तत् प्रवर्तितमित्युक्तम् ?
अत उच्यते—तत्तु परसन्ताने आर्यकौण्डिन्यसन्ताने । दर्शनमार्गोत्पादनाद्
वर्तयितुमादौ वर्तितमित्येतत् प्रवर्तितमित्युच्यते । आदिकर्मणि प्रशब्दो वर्तते,
प्रभुक्त ओदन इति यथा ॥ ५४ ॥
तृतीयस्य तु कस्मादप्राप्तिरिति । रूपधातूपपन्नो यदि नियामकक्रामेत् ।
षोडशे चित्तक्षणे कस्मादनागामिफलप्राप्तिर्न स्यादित्यभिप्रायः ।
परिहार उच्यते—
“नोर्ध्वं हि दृक्पथः” इति । श्रवणाभावादिति । आरूप्येषु श्रावकबोधिरैव
भवन्ती भवेत्; स्वयम्भुबोधेरसम्भवात् । श्रावकाभिसमयश्च परतो घोषमन्तरेण
न भवति । किञ्च अधोधात्वनालम्बनाच्च ।
१-१. विनेयसन्तानक्रमणात्-का० ।
६८८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
रूपधातौ तु—
असंवेगादिह विधा तत्र निष्ठेति चागमात् ॥ ५५ ॥
रूपावचरा हि पृथग्जनाः समापत्तिसुखसङ्गा दुःखवेदनाभावाच्च न
संविजन्ते । न च विना संवेगेनार्यमार्गः शक्तो लब्धुम् । इयं तावद् युक्तिः ।
आगमोऽप्ययम्— "पञ्चानां पुद्गलानामिह विधा तत्र निष्ठा अन्तरापरि-
निर्वाणिनो यावदूर्ध्वस्रोतसः" इति ।
विधा हि मार्गारम्भः, निर्वाणोपायत्वात् ॥ ५५ ॥
इदमुक्तम्— “यद्यकोष्यः क्षयज्ञानादनुत्पादमतिः” (अभि० ६.५०) इति ।
तत्र किमर्हतामप्यस्ति भेदः ? अस्तीत्युच्यते ।
षडर्हन्तो मताः,
सूत्र उक्तम् — “षडर्हन्तः—परिहाणधर्मा, चेतनाधर्मा, अनुरक्षणाधर्मा,
स्थिताकम्प्यः, प्रतिवेधनाभव्यः, अकोप्यधर्मा चेति ।
तेषां पञ्च श्रद्धाधिमुक्तजाः१।
अकोप्यधर्माणं वर्जयित्वाऽन्ये पञ्च श्रद्धाधिमुक्तपूर्वकाः२ ।
“न मौलाः कुशलारूप्याः सास्स्रवाधरगोचराः” (अभि० को० ८.२१) इति ।
त्रिधातुकालम्बनेन च दर्शनमार्गेण भवितव्यमित्यतः स तत्र न भवतीति ।
विधानं विधा, उपाय इत्यर्थः ॥ ५५ ॥
. परिहाणं धर्मः स्वभावोऽस्येति परिहाणधर्मा । चेतनाधर्मा आत्ममारणधर्मा ।
श्रनुरक्षणाधर्मा यस्तां विमुक्तिमनुरक्षितुं शक्नोति । स्थिताकम्प्यः । यस्यां
विमुक्तौ स्थितः, तस्यां अकम्प्यः । प्रतिवेधनाभव्यः । इन्द्रियसञ्चारभव्यः ।
अकोप्यधर्मा । कोप्योऽनिवार्यो धर्मोऽस्येत्यकोप्यधर्मा । स च द्विविधः—
स्वभावतस्तीक्ष्णेन्द्रियः, इन्द्रियसञ्चारतस्तीक्ष्णेन्द्रियश्च ।
“पञ्च श्रद्धाधिमुक्तजाः” । एवेत्यवधारणम् । श्रद्धाधिमुक्ता भूत्वा एते जाता
इत्यर्थः । श्रद्धाधिमुक्तपूर्वका इति यावदुक्तं भवति । षष्ठस्त्वन्यथापि भवतीति
व्याख्यातम् ।
१. ०मुक्तिजाः—का० । २. ०मुक्तिपूर्वकाः—का० ।
निर्देशः ] षष्ठं कोशस्थानम् ६८६
विमुक्तिः सामयिकीयेषाम्,
एषां च पञ्चानां सामयिकी कान्ता चेतोविमुक्तिर्वेदितव्या; नित्यानुरक्ष्य-
त्वात् । अत एवैते समयविमुक्ता उच्यन्ते । समयापेक्षाश्चैतेऽधिमुक्ताश्चेति
समयविमुक्ताः मध्यमपदलोपात् ; घृतघटवत् ।
एषां हि समयापेक्षासमाधिसम्मुखीभावः, उपकरणारोग्यदेशविशेषापेक्षत्वात् ।
अकोप्याकोप्यधर्मणः ।। ५६ ।।
अकोप्यधर्मणस्त्वकोप्या विमुक्तिः; कोपयितुमशक्यत्वादपरिहाणितः ॥५६॥
अतोऽसमयमु क्तोऽसौ,
अत एवासमयविमुक्त उच्यते । स ह्यसमयापेक्षाविमुक्तश्च; इच्छातः
समाधिसम्मुखीभावात् । कालान्तरात्यन्तविमुक्तितो वा; कोप्याकोप्यधर्मणोः
समयासमये विमुक्तत्वं परिहाणिसम्भवासम्भवतः ।
"सामयिकी" इति । समयं उपकरणारोग्यदेशविशेषादिलक्षणं भवा
सामयिकी । कान्ता च । कान्ता चेतोविमुक्तिः । कस्मात् कान्तेति ? नित्यानुरक्ष्य-
त्वात् । कान्तं हि नित्यमनुरक्ष्यमिति लोके दृश्यते । सूत्रेऽप्युक्तम्—"तद्यथा
नामैकाक्षस्य पुरुषस्य ज्ञातय एकमक्षि साधु च सुष्ठु चानुरक्षितव्यं मन्येरन्—
मास्य शीतं मास्योष्णं मास्य रजोऽशवश्चक्षुषि निपतेयुर्मास्य यद्यप्येकं चक्षुर-
विनष्टं तदपि विनश्येदिति; एवमेव समयविमुक्तस्यार्हतोऽनुरक्ष्य एष धर्मोऽनु-
कम्प्योऽनुग्राह्यः । तत एवं समयविमुक्तोऽर्हन् साधु च सुष्ठु चानुरक्षितव्यं
मन्यते—कच्चिदहमेतस्माद् धर्मान्न परिहीयेय" इति । स तस्मान्न परिहीयत
इति ।
घृतघटवदिति । यथा घृतस्य पूर्णो घटो घृतघट इति भवति, मध्यगतस्य
पूर्णशब्दस्य लोपात् । यथा वा घृतापेक्षो घटो घृतघटः, यत्र घृतं प्रक्षेप्स्यते,
अपेक्षशब्दलोपात् घृतघट इति भवति । एवमिहापि मध्यगतस्यापेक्षशब्दस्य
लोपात् समयापेक्षाश्चैते विमुक्ताश्चेति समयविमुक्ताः । समयः पुनरुपकरणादि-
रित्युक्तम् ।
कथं कोपयितुमशक्यत्वात् ? इत्याह -अपरिहाणित इति ॥ ५६ ॥
कालान्तरात्यन्तविमुक्तितो वेति । कालान्तरविमुक्तितः समयविमुक्तत्वम्,
अत्यन्तविमुक्तितोऽसमयविमुक्तित्वमित्यर्थः । कथमेवम् ? इत्याह — परिहाणि-