सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1008, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1008

भवन्ति । त्रिकद्वादशकसाधर्म्यात्तु त्रिपरिवर्तं द्वादशाकारमुक्तम् । द्वयसप्तस्थान-
कौशलदेशनावत्¹ ।
एभिश्च परिवर्तैर्दर्शन-भावनाऽशैक्षमार्गा यथासंख्यं दर्शिता इति
वैभाषिकाः ।
बुद्धिरुदपादीति चत्वार आकाराः, परिज्ञातव्यमित्यस्मिन् पुनश्चत्वारः, परिज्ञात-
मित्यस्मिन् पुनरपि चत्वारः—इत्येते द्वादशाकाराः । तत्र प्रत्यक्षार्थत्वादनास्रवा
प्रज्ञा चक्षुः । निःसंशयत्वाज्ज्ञानम् । भूतार्थत्वाद् विद्या । विशुद्धत्वाद् बुद्धिः;
विशुद्धा धीर्बुद्धिरिति निरुक्तेः । पुनर्बाह्यकानां सत्येषु दर्शनं कुदृष्टिविचिकित्सा-
विद्यानामप्रतिपक्षः सास्रवं चेति ततो विशेषणार्थं चक्षुरादिग्रहणम् पुनस्त्रिषु
परिवर्तेषु प्रथमं दर्शनं चक्षुः । यथादृष्टव्यवचारणं ज्ञानम् । यावद्भाविकता-
मुपादाय विद्या; यावद्विद्यमानग्रहणात् । यथावद्भाविकतामुपादाय बुद्धिः;
यथाभूतार्थावबोधात् । पुनरननुश्रुतेषु धर्मेष्वानुमानिकज्ञानप्रतिषेधार्थं चक्षु-
रित्याह । आधिमोक्षिकज्ञानप्रतिषेधार्थं ज्ञानमिति । आभिमानिकज्ञानप्रतिषेधार्थं
विद्येति । सास्रवप्रतिषेधार्थं बुद्धिरिति । प्रतिसत्यमेव भवन्तीति । अयं दुःख-
समुदय आर्यसत्यम्, तत् खलु प्रहातव्यम्, तत् खलु प्रहीणमित्येते त्रयः
परिवर्ताः । एकैकस्मिन् परिवर्ते चक्षुरुदपादि, ज्ञानम्, विद्या, बुद्धिरित्येते
द्वादशाकाराः । एवं निरोधमार्गसत्ये अपि योज्ये । आह—यदि प्रतिसत्यमेवं
भवन्ति, त्रयः परिवर्ता द्वादश चाकारा द्वादश परिवर्ताः अष्टचत्वारिंशच्चाकाराः
प्राप्नुवन्ति, कस्मात् 'त्रिपरिवर्तं द्वादशाकारम्' इत्युक्तम् ? अत उच्यते—
त्रिकद्वादशकसाधर्म्यात् तु त्रिपरिवर्तं द्वादशाकारमुक्तमिति । द्वयसप्तस्थान-
कौशलदेशनावदिति । द्वयदेशनावत्, सप्तस्थानकौशलदेशनावच्च । तद्यथा
विस्तरमुक्त्वा "तेन हि भिक्षो द्वयं ते देशयिष्यामि, तच्छृणु साधु च सुष्ठु च
मनसिकुरु भाषिष्ये । द्वयं कतमत् ? चक्षूरूपाणि यावन् मनोधर्मांश्च" इति ।
यथेह द्वयसाधर्म्याद् द्वयमित्युक्तम्, एवं त्रिकद्वादशकसाधर्म्यात् त्रिपरिवर्तं
द्वादशाकारमुक्तम् । यथा च सप्तस्थानकुशलो भिक्षुः रूपं यथाभूतं प्रजानाति,
रूपसमुदयम्, रूपनिरोधम्, रूपनिरोधगामिनीं प्रतिपदम्, रूपस्यास्वादं
च, आदीनवं च, निःसरणं च यथाभूतं प्रजानातीति सप्तस्थानकुशलो भिक्षुः
त्रिविधार्थोपपरीक्षी क्षिप्रमेवास्मिन् धर्मविनये दुःखस्यान्तं प्रजानातीति; प्रत्येकं
स्कन्धेषु सप्तस्थानकुशलसाधर्म्यात् । एवमिहापि त्रिकद्वादशकसाधर्म्यात्
त्रिपरिवर्तं द्वादशाकारमुक्तमिति ।
१. कौशला०-का० ।