सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1007, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1007

६८४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
कथं तत् त्रिपरिवर्तं द्वादशाकारं च ? इदं दुःखमार्यसत्यम्, तत् खलु
परिज्ञेयम्, तत् खलु परिज्ञातम्—इत्येते त्रयः परिवर्ताः । एकैकस्मिंश्च परिवर्ते
चक्षुरुदपादि, ज्ञानम्, विद्या, बुद्धिरुदपादि---इत्येते द्वादशाकाराः । प्रतिसत्यमेवं
मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । तत् खलु दुःखमार्यसत्यमभिज्ञाय परिज्ञातं
मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । तत् खलु दुःखसमुदय आर्यसत्यम-
भिज्ञाय प्रहीणं मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । तत् खलु दुःखनिरोध
आर्यसत्यमभिज्ञाय साक्षात्कृतं मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । तत् खलु
पुनर्दुःखनिरोधगामिनी प्रतिपदार्यसत्यमभिज्ञाय भावितं मयेति पूर्वमननुश्रुतेषु
धर्मेषु पूर्ववत् । यावच्च मम भिक्षव एषु चतुर्वार्यसत्येष्वेवं त्रिपरिवर्तं
द्वादशाकारं न चक्षुरुदपादि, न ज्ञानम्, न विद्या, न बुद्धिरुदपादि; न तावदह-
मस्मात् सदेवकाल्लोकात् समारकात् सब्रह्मकात् सश्रमणब्राह्मणिकायाः प्रजायाः
सदेवमानुषासुराया मुक्तो निःसृतो विसंयुक्तो विप्रयुक्तो विपर्यासांपगतेन चेतसा
बहुलं व्यहार्षम् । न तावदहमनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धोऽस्मीत्यध्य-
ज्ञासिषम् । यतश्च मम भिक्षव एषु चतुर्वार्यसत्येष्वेवं त्रिपरिवर्तं द्वादशाकारं
चक्षुरुदपादि, यावद् बुद्धिरुदपादि । ततोऽहमस्मात् सदेवकाद्यावत् विप्रयुक्तो
विपर्यासापगतेन चेतसा बहुलं व्यहार्षम् । ततोऽहमनुत्तरां सम्यक्सम्बोधिम-
भिसम्बुद्धोऽस्मीति अध्यज्ञासिषम्' । अस्मिन् खलु पुनर्धर्मपर्याये भाष्यमाणे
आयुष्मतः कौण्डिन्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नमशीतेश्च
देवतासहस्राणाम् । तत्र भगवानायुष्मन्तं कौण्डिन्यमामन्त्रयते स्म—
'आज्ञातस्ते कौण्डिन्य धर्मः' ? 'आज्ञातो मे भगवन् !' 'आज्ञातस्ते कौण्डिन्य
धर्मः' ? 'आज्ञातो मे सुगत !' 'आज्ञाता आयुष्मता कौण्डिन्येन धर्मः' इति
भौमा यक्षाः शब्दमुदीरयन्ति घोषमनुश्रावयन्ति । एतन्मार्षा भगवता वाराणस्यां
ऋषिपतने मृगदावे त्रिपरिवर्तद्वादशाकारं धर्मचक्रं प्रवर्तितम् । अप्रवर्तितपूर्वं
श्रमणेन वा ब्राह्मणेन वा वा देवेन वा मारेण वा ब्रह्मणा वा केनचित् पुनर्लोके
सहधर्मेण बहुजनहिताय" ( ) इति विस्तरः ।
तदेवमार्यस्य कौण्डिन्यस्य दर्शनमार्ग उत्पन्ने देवताभिरुक्तं भगवता प्रवर्तितं
धर्मचक्रमिति । सूत्रवचनात् दर्शनमार्गो धर्मचक्रमिति गम्यते ।
कथं त्रिपरिवर्तमिति विस्तरः । इदं दुःखमार्यसत्यमित्येकः परिवर्त्तः । तत्
खलु परिज्ञातव्यमिति द्वितीयः । तत् खलु परिज्ञातमिति तृतीयः । इत्येते त्रयः
परिवर्त्ताः । एकैकस्मिन् परिवर्ते इदं दुःखमित्यस्मिंश्चक्षुरुदपादि ज्ञानं विद्या