सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1004, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1004

निर्देशः ] षष्ठं कोशस्थानम् ६८१
४. युगपदष्टज्ञानलाभश्चतुर्विधानां धर्मान्वयज्ञानाम् । ५. षोडशाकार-
भावना अनित्याद्याकाराणाम् । इमानि हि पञ्च कारणानि फले फले भवन्ति ।
यद्यनास्रवो मार्गः श्रामण्यम् , कथं लौकिकमार्गप्राप्तं फलद्वयं श्रामण्यफलं
युज्यते ?
लौकिकाप्तं तु मिश्रत्वानास्रवाप्तिः धृतेः फलम् ॥ ५३ ॥
न हि तत्र लौकिकमार्गफलमेव प्रहाणं सकृदागामिफलं वा भवति, अनागामि-
फलं वा । किं तर्हि ? दर्शनमार्गफलमपि प्रहाणं तत्र मिश्रीक्रियते; सर्वस्य
तत्फलसंगृहीतैकविसंयोगप्राप्तिलाभात् । अत एव हि सूत्र उक्तम्—"सकृदा-
गामिफलं कतमत् ? यत् त्रयाणां संयोजनानां प्रहाणं रागद्वेषमोहानां च तनुत्व-
मिति । अनागामिफलं कतमत् ? यदुत पञ्चानामवरभागीयानां संयोजनानां
प्रहाणम्" इति । अनास्रवया च विसंयोगप्राप्त्या तत्प्रहाणं सन्धार्यते । तद्-
बलेन परिहीणात् १ । अतोऽप्यस्य मरणं युक्तं श्रामण्यफलम् ॥ ५३ ॥
चतुर्विधानां धर्मान्वयज्ञानामिति । सत्यभेदाच्चतुर्विधानां धर्मज्ञानानामन्वय-
ज्ञानानां च तथैव चतुर्विधानामिति । युगपदष्टज्ञानलाभः । लौकिकमार्गप्राप्तं
फलद्वयमिति । सकृदागामिफलमनागामिफलं च । तद्धि लौकिकेनापि मार्गेण
प्राप्तं सम्भवति । तत्कथं श्रामण्यस्यानास्रवमार्गलक्षणस्य फलं युज्यते ?
दर्शनमार्गफलमपि प्रहाणमिति । अपिशब्दाद् भावनामार्गफलमपि प्रहाणं
गृह्यते । तस्य द्विप्रकारस्यापि प्रहाणस्य सकृदागामिफलसंगृहीता अनागामिफल-
संगृहीता वा एका प्राप्तिर्लभ्यते । तस्माद्दर्शनमार्गफलप्रहाणयोगादसंस्कृतं
सकृदागामिफलमनागामिफलं वा श्रामण्यफलं भवति । यत् त्रयाणां संयोजनानां
प्रहाणमिति । त्रिसंयोजनप्रहाणं दर्शनमार्गेण । पञ्चावरभागीयकदेशानां
सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सानां दर्शनमार्गेणैव प्रहाणम् । तस्य
प्रहाणस्य सकृदागाम्यनागामिफलत्वे । किम् ? कुतः श्लेषः । तेन ज्ञायते—
प्रहाणमिश्रीकरणादेवमुक्तं भगवतेति । तद्बलेन परिहीणादिति ।
“लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा” (अभि० को० ६.४६) इति
तत्रानास्रवया विसंयोगप्राप्त्या तत्प्रहाणं यह्लौकिकमार्गसम्प्राप्तं सन्धार्यते ।
१. परिहीणामरणात्—का० ।
अभि० को० ३ : १५