अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1012, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] षष्ठं कोशस्थानम् ६८६
विमुक्तिः सामयिकीयेषाम्,
एषां च पञ्चानां सामयिकी कान्ता चेतोविमुक्तिर्वेदितव्या; नित्यानुरक्ष्य-
त्वात् । अत एवैते समयविमुक्ता उच्यन्ते । समयापेक्षाश्चैतेऽधिमुक्ताश्चेति
समयविमुक्ताः मध्यमपदलोपात् ; घृतघटवत् ।
एषां हि समयापेक्षासमाधिसम्मुखीभावः, उपकरणारोग्यदेशविशेषापेक्षत्वात् ।
अकोप्याकोप्यधर्मणः ।। ५६ ।।
अकोप्यधर्मणस्त्वकोप्या विमुक्तिः; कोपयितुमशक्यत्वादपरिहाणितः ॥५६॥
अतोऽसमयमु क्तोऽसौ,
अत एवासमयविमुक्त उच्यते । स ह्यसमयापेक्षाविमुक्तश्च; इच्छातः
समाधिसम्मुखीभावात् । कालान्तरात्यन्तविमुक्तितो वा; कोप्याकोप्यधर्मणोः
समयासमये विमुक्तत्वं परिहाणिसम्भवासम्भवतः ।
"सामयिकी" इति । समयं उपकरणारोग्यदेशविशेषादिलक्षणं भवा
सामयिकी । कान्ता च । कान्ता चेतोविमुक्तिः । कस्मात् कान्तेति ? नित्यानुरक्ष्य-
त्वात् । कान्तं हि नित्यमनुरक्ष्यमिति लोके दृश्यते । सूत्रेऽप्युक्तम्—"तद्यथा
नामैकाक्षस्य पुरुषस्य ज्ञातय एकमक्षि साधु च सुष्ठु चानुरक्षितव्यं मन्येरन्—
मास्य शीतं मास्योष्णं मास्य रजोऽशवश्चक्षुषि निपतेयुर्मास्य यद्यप्येकं चक्षुर-
विनष्टं तदपि विनश्येदिति; एवमेव समयविमुक्तस्यार्हतोऽनुरक्ष्य एष धर्मोऽनु-
कम्प्योऽनुग्राह्यः । तत एवं समयविमुक्तोऽर्हन् साधु च सुष्ठु चानुरक्षितव्यं
मन्यते—कच्चिदहमेतस्माद् धर्मान्न परिहीयेय" इति । स तस्मान्न परिहीयत
इति ।
घृतघटवदिति । यथा घृतस्य पूर्णो घटो घृतघट इति भवति, मध्यगतस्य
पूर्णशब्दस्य लोपात् । यथा वा घृतापेक्षो घटो घृतघटः, यत्र घृतं प्रक्षेप्स्यते,
अपेक्षशब्दलोपात् घृतघट इति भवति । एवमिहापि मध्यगतस्यापेक्षशब्दस्य
लोपात् समयापेक्षाश्चैते विमुक्ताश्चेति समयविमुक्ताः । समयः पुनरुपकरणादि-
रित्युक्तम् ।
कथं कोपयितुमशक्यत्वात् ? इत्याह -अपरिहाणित इति ॥ ५६ ॥
कालान्तरात्यन्तविमुक्तितो वेति । कालान्तरविमुक्तितः समयविमुक्तत्वम्,
अत्यन्तविमुक्तितोऽसमयविमुक्तित्वमित्यर्थः । कथमेवम् ? इत्याह — परिहाणि-