सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1010, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1010

निर्देशः ] षष्ठं कोशस्थानम् ९८७
अथवा—सर्व एवार्यमार्गो धर्मचक्रम् ; विनेयजनसन्ताने¹ क्रमणात्¹ । तत्तु
परसन्ताने दर्शनमार्गोत्पादनाद् वर्तयितुमारब्धम्, अतः प्रवर्तितमित्युच्यते ॥ ५४ ॥
अथ कस्मिन् धातौ कति श्रामण्यफलानि प्राप्यन्ते ?
कामे त्रयाप्तिः,
कामधातावेव त्रयाणां श्रामण्यफलानां प्राप्तिः, नान्यत्र ।
अन्त्यस्य त्रिषु,
अन्त्यं श्रामण्यफलमर्हत्त्वं तस्य त्रिषु धातुषु प्राप्तिः ।
फलद्वयस्य तावद्वीतरागप्राप्त्यत्वादूर्ध्वमप्राप्तिर्युक्ता, तृतीयस्य तु
कस्मादप्राप्तिः ?
नोर्ध्वं हि दृक्पथः ।
ऊर्ध्वं हि कामधातोर्दर्शनमार्गो नास्ति । न च तेन विनाऽस्ति वीतराग-
स्यानागामिफलप्राप्तिरित्येतत् कारणम् ।
किं पुनः कारणं तत्र दर्शनमार्गो नास्ति ? आरूप्येषु तावत् श्रवणाभावाद्,
अधोधात्वनालम्बनाच्च ।
प्रवर्तनं परसन्ताने गमनं विनेयजनसन्ताने प्रेरणम् । कथं गमनम् ?
अर्थज्ञापनात् ।
अथ वा सर्व एवार्यमार्गो दर्शनभावनाशैक्षमार्गो धर्मचक्रम् । विनेयजनसन्ताने
क्रमणात् । क्रमणाच्चक्रमिति कृत्वा । यदि सर्व एवार्यमार्गो धर्मचक्रम्,
कथमार्याज्ञातकौण्डिन्यस्य दर्शनमार्गमात्रोत्पादे तत् तत् प्रवर्तितमित्युक्तम् ?
अत उच्यते—तत्तु परसन्ताने आर्यकौण्डिन्यसन्ताने । दर्शनमार्गोत्पादनाद्
वर्तयितुमादौ वर्तितमित्येतत् प्रवर्तितमित्युच्यते । आदिकर्मणि प्रशब्दो वर्तते,
प्रभुक्त ओदन इति यथा ॥ ५४ ॥
तृतीयस्य तु कस्मादप्राप्तिरिति । रूपधातूपपन्नो यदि नियामकक्रामेत् ।
षोडशे चित्तक्षणे कस्मादनागामिफलप्राप्तिर्न स्यादित्यभिप्रायः ।
परिहार उच्यते—
“नोर्ध्वं हि दृक्पथः” इति । श्रवणाभावादिति । आरूप्येषु श्रावकबोधिरैव
भवन्ती भवेत्; स्वयम्भुबोधेरसम्भवात् । श्रावकाभिसमयश्च परतो घोषमन्तरेण
न भवति । किञ्च अधोधात्वनालम्बनाच्च ।
१-१. विनेयसन्तानक्रमणात्-का० ।