अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1005, कुल 1258 में से
संदर्भ में पढ़ें६८२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [मार्गपुद्गल-
यदेव चैतच्छा्मण्यमुक्तम् ,
ब्राह्मण्यम्, ब्रह्मचक्रं च तदेव,
क्लेशानां वाहनाद् ब्राह्मण्यम् । ब्रह्मचक्रं तु
ब्रह्मवर्तनात् ।
अनुत्तरब्राह्मण्ययोगात् भगवान् ब्रह्मा । "एष हि भगवान् ब्रह्मा इत्यपि,
शान्तः शीतीभूत इत्यपि" इति सूत्रात् । तस्येदं चक्रमिति ब्राह्मम्; तेन
प्रवर्तितत्वात् ।
धर्मचक्रं तु दृङ्मार्गः,
चङ्क्रमणाच्चक्रम् , तत्साधर्म्याद् दर्शनमार्गो धर्मचक्रम् ।
कथमस्य साधर्म्यम् ?
आशुगत्वाद्यरादिभिः ॥ ५४ ॥
आशुगत्वात् , त्यजनक्रमणात् , अजितजयजिताध्यवसनाद् , उत्पतन-
प्राप्तियोगेनावश्यमुपतिष्ठत इत्यर्थः । म्रियते न फलभ्रष्ट इति । तदभावे हि
लौकिकस्येव परिहीणस्य मरणं स्यात् । तद्बलेनेति । अनास्रवविसंयोगप्राप्तिबले-
नेत्यर्थः । सैव च वर्तमानलौकिकमार्गोपजनितानास्रवा प्राप्तिरनागताष्टाङ्ग-
आर्यमार्गो लौकिकबलेन प्राप्यमाणः संस्कृतं श्रामण्यफलं व्यवस्थाप्यमानं न
विरुध्यते । सूत्रे त्वसंस्कृतं श्रामण्यफलमुद्गृह्यते; प्राधान्यात् । संस्कृतमप्यत्रैष्ट-
व्यमिति ॥ ५३ ॥
क्लेशानां वाहनाद् ब्राह्मण्यमिति । वाहिता अनेनानेकविधाः पापका
अकुशला धर्मा इति ब्राह्मणः । तद्भावो ब्राह्मण्यम् = अनास्रवो मार्गः । कथं
ब्रह्मचक्रम् ? इत्याह—ब्रह्मचक्रं तु ब्रह्मवर्तनादिति । यस्माद् ब्रह्मणा प्रवर्तितम्,
तस्मात् ब्रह्मचक्रमिति । अनुत्तरब्राह्मण्ययोगादिति । अनुत्तरानास्रवमार्गयोगा-
दित्यर्थः । एष हि भगवान् ब्रह्मेति एतदुदाहरणम् । जीवकेनोक्तमेतत् ।
“आशुगत्वाद्यरादिभिः” इति । आशुगत्वादिभिररादिभिश्चेत्यर्थः । आशु-
गत्वादिति विस्तरः । इदं मार्गस्य चक्ररत्नेन साधर्म्यमुच्यते । यथा चक्ररत्न-
माशुगम् , एवं दर्शनमार्गः । पञ्चदशभिश्चिचत्तक्षणैः सत्याभिसमयादाशुग इति ।
त्यजनक्रमणात् । यथा तदन्यं देशं त्यजत्यन्यं देशं क्रामति, एवमयमानन्तर्यमार्गे
त्यजति विमुक्तिमार्गं क्रामति सम्मुखीभावतः । · सत्यान्तरत्यजनक्रमणाद्वा ।