अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
६६० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
दृष्टिप्राप्तान्वयश्च सः ।
स चाकोप्यधर्मा दृष्टिप्राप्तपूर्वको वेदितव्यः ।
किं पुनरेते षडर्हन्त आदित एव तद्गोत्रा भवन्ति ? अथ पश्चात् ?
तद्गोत्रा आदितः केचित् केचिदुत्तापनागताः ।। ५७ ।।
कश्चित् प्रथमत एव चेतनाधर्मगोत्रको भवति । कश्चित् पुनः परिहाणधर्मा
भूत्वेन्द्रियाणामुत्तापनया चेतनाधर्मतां गतः । एवं यावदकोप्यधर्मतां गतो
वेदितव्यः ।
तत्र परिहाणधर्मा यः परिहातुं भव्यः, न च चेत¹नादिधर्मा । चेतनाधर्मा
यश्चेतयितुं भव्यः । अनुरक्षणाधर्मा योऽनुरक्षितुं भव्यः । स्थिताकम्प्यो यः
सम्भवासम्भवतः । परिहाणिसम्भवात् कालान्तरविमुक्त्या समयविमुक्त-
इत्युच्यते । परिहाण्यसम्भवादत्यन्तविमुक्त्यासमयविमुक्त इत्युच्यते ।
“दृष्टिप्राप्तान्वयश्च सः” इति । यदा शैक्षो भूत्वेन्द्रियाणि सञ्चरति, स
दृष्टिप्राप्ततामापद्यते । अथ स्वभावतस्तीक्ष्णेन्द्रियः, स षोडशे चित्तक्षणे दृष्टिप्राप्त
एव । तस्मादसावकोप्यधर्मा दृष्टिप्राप्तपूर्वक इत्युच्यते । यस्त्वर्हत्त्वावस्थायामि-
न्द्रियाणि सञ्चरति, नासावकोप्यधर्मा दृष्टिप्राप्तपूर्वक इत्यवगन्तव्यम् ।
कश्चित् प्रथमत एव चेतनाधर्मगोत्रक इति । परिहाणधमा नोच्यते;
यस्मादुत्तापनागतो न भवतीति । “तद्गोत्रा आदितः केचित्” इत्यपदिष्टम्,
तत् किमिदं परिहाणधर्मगोत्रं नाम यावदकोप्यधर्मगोत्रमिति, न तैः
परिहाणधर्मादिगोत्रमपदिष्टम् ? तत्र केचिदेवं वर्णयन्ति—कुशलमूलानि गोत्र-
मिति । कस्यचिद्धि यादृशानि कुशलानि भवन्ति, यः परिहाणधर्मा
यावदकोप्यधर्मा । अन्ये पुनराहुः—पृथग्जनावस्थामारभ्येन्द्रियभेदो गोत्रमिति ।
सौत्रान्तिकाः पुनर्वर्णयन्ति—बीजं सामर्थ्यं चेतसो गोत्रमिति । पृथग्जना-
वस्थायां शैक्षावस्थायां तद्बीजवृत्तिलाभात् परिहाणधर्मेत्युच्यते । एवं यावद्-
कोप्यधर्मेति ।
तत्र परिहाणधर्मेति विस्तरः । परिहाणधर्मा यः परिहातुं भव्य इति ।
यद्येतावद् ब्रूयात्, न च चेतनादिधर्मेत्येतन्न ब्रूयात्, सर्व एवैते चेतना-
धर्मादयश्चत्वारः परिहातुं भव्या इत्येषामेवान्यतरः परिहाणधर्मा स्यात् ।
न तेभ्योऽन्यः पञ्चमः । अतस्तेभ्योऽन्य एवायं पञ्चम इति विशेषयन्न च
चेतनादिधर्मेत्याह । चेतनाधर्मादीनां पुनश्चतुर्णां परिहाणधर्मकत्वेऽसति
१. का० पुस्तके नास्ति ।
निर्देशः ] षष्ठं कोशस्थानम् ६६१
परिहाणिप्रत्ययं बलवन्तमन्तरेणानुरक्षन्नपि स्थातुं भव्यः, न हातुं नापि वर्धयितुं
विनाभियोगेन । प्रतिवेधनाभव्यो योऽकोप्यः प्रतिवेद्धुं भव्यः । अकोप्यधर्मा यो
नैव परिहातुं भव्यः ।
प्रथमौ द्वौ पूर्वमेव शैक्षावस्थायां सातत्य-सत्कृत्यप्रयोगविकलौ । तृतीयः
सातत्यप्रयोगो । चतुर्थः सत्कृत्यप्रयोगी । पञ्चम उभयथाप्रयोगी मृद्विन्द्रियस्तु ।
षष्ठ उभयथाप्रयोगी तीक्ष्णेन्द्रियश्च ।
नचावश्यं परिहाणधर्मा परिहीयते, नापि यावत् प्रतिवेधनाभव्यः
प्रतिविध्यति । सम्भवं तु प्रत्येवमुच्यते । एवं च १ कृत्वा धातुत्रयेऽपि षडर्हन्तो
युज्यन्ते ।
एकैकस्य विशेषलक्षणापदेशादेव पुनरिदं वक्तव्यं जायते । चेतनाधर्मा चेतयितुं
भव्यो न चानुरक्षणाधर्मा, यावन् प्रतिवेधनाभव्य इति । एवमनुरक्षणाधर्मा ।
परिहाणिप्रत्ययं बलवन्तमन्तरेणेति । यदि परिहाणिप्रत्ययो बलवान् स्यात्,
परिहीयेत स इत्यभिप्रायः । अनेन बलवत्प्रत्ययवचनेन परिहाणधर्मणः
पूर्वोक्ताद् विशिनष्टि । परिहाणधर्मा ह्यबलवतापि परिहाणिप्रत्ययेन परिहीयते ।
परिहाणिप्रत्ययाः पुनर्यथा सूत्रम्—"पञ्च हेतवः, पञ्च प्रत्ययाः समयविमुक्त-
स्यार्हतः परिहाणाय संवर्तन्ते । कतमे पञ्च ? कर्मान्तप्रसृतो भवति, भाष्य-
प्रसृतो भवति, अधिकरणप्रसृतो भवति; दीर्घचारिका योगमनुयुक्तो भवति,
दीर्घेण च रोगजातेन स्पृष्टो भवति' इति । अननुरक्षन्नपीत । अनेनानुरक्षणा-
धर्मणो विशिनष्टि । स ह्यनुरक्षन्नेव न परिहीयेत, अयं त्वननुरक्षन्नपीति ।
अननुरक्षन्नपि तत्फलं स्थातुं भव्यः तत्फले । न हातुं तत्फलात् । नापि वर्धयितुं
प्रतिवेधनाभव्यताप्राप्त्या । विनाभियोगेन । विना वीर्येण । अनेनार्थादुक्तं
भवति—यद्यभियोगं कुर्याद्भव्यः स्यादिति प्रतिवेदनाभव्याच्चायमेवं विशेषितो
भवति, स हि विनाप्यभियोगेन प्रतिवेद्धुं भव्य इति ।
प्रथमौ द्वाविति विस्तरः । परिहाणधर्मा सातत्यसत्कृत्यप्रयोगविकलौ ।
चेतनाधर्मापि सातत्यप्रयोगेण विकलः । विशेषेण तु सत्कृत्यप्रयोगेण विकल
इत्यनयोर्विशेषः । मृद्विन्द्रियस्त्विति । षष्ठाद् विशिनष्टि । षष्ठो हि तीक्ष्णेन्द्रियः ।
इन्द्रियकृतो ह्यनयोर्विशेषो न प्रयोगकृत इति ।
एवं च कृत्वेति विस्तरः । यस्मान् नावश्यमेवं भवति, तस्माद् रूपारूप्य-
धात्वोरपि षडर्हन्तः, न केवलं कामधातावेव षडित्यभिप्रायः ।
१. का० पुस्तके नाति ।
६६२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
येषां त्ववश्यं परिहीयते यावत् प्रतिविध्यति, तेषां कामधातौ षड्, रूपारूप्य-
धात्वोः स्थिताकम्प्यः अकोप्यधर्मा च; तयोः परिहाणिचेतनेन्द्रियसञ्चारा-
भावात् ॥ ५७ ॥
कः पुनरेषां कुतः परिहीयते ? फलात् ? गोत्राद्वा ?
गोत्राच्चतुर्णां पञ्चानां फलाद्धानिः³,
चेतनाधर्मादीनां चतुर्णां गोत्रात् परिहाणिः । न हि परिहाणधर्मा पुनः
स्वगोत्रात् परिहीयते । परिहाणधर्मादीनां पञ्चानां फलात् परिहाणिः । तेषामपि तु
न पूर्वकात् ।
यस्य यत् प्रथमगोत्रं स तस्मान्न परिहीयते; शैक्षाशैक्षमार्गाभ्यां दृढीकृत-
त्वात् । शैक्षस्तु लौकिकलोकोत्तराभ्यां दृढीकृतत्वात् न परिहीयते स्वगोत्रात् ।
रूपारूप्यधात्वोर्द्वौ स्थिताकम्प्य एकः । अकोप्यधर्मा च द्वितीयः । स्थिता-
कम्प्यस्तावद् बद्धाभिरुचिः स्यात्, न प्रतिवेधनभव्यताक्रियादरवानिति । न
कामधातौ स्थिताकम्प्यः प्रतिवेधनाभव्यतामपद्यते । रूपारूप्यधात्वोश्च
परिहाणिप्रत्ययो बलवान् नास्तीति नासौ परिहीयते । न चेन्द्रियाणि सञ्च-
रन्तीति स्थिताकम्प्यगोत्रक एव संस्तत्र भवति । अकोप्यविमुक्तियोगाच्चा-
कोप्यधर्मापि भवति । एवेति द्वावेव तौ भवतः । नातोऽन्ये ।
तयो रूपारूप्यधात्वोः परिहाणिचेतनेन्द्रियसञ्चाराभावात् । परिहाणधर्मा
तावत् तत्र नास्ति; परिहाण्यभावात् । अनुरक्षणाधर्मापि नास्ति; परिहाण्य-
भावेनानुरक्षितव्यानुयोगात् । अत एव चेन्द्रियसञ्चाराभावान् प्रतिवेधना-
भव्योऽपि न भवति । तथा चोक्तम्—"स चोर्ध्वजश्च नैवाक्षसञ्चारपरिहाणि-
भाग्" (अभि० को० ६.४१) इति । तत्र च नात्मसञ्चेतना न परसञ्चेतनास्तीति
चेतनाधर्मापि न भवतीति ॥ ५७ ॥
चेतनाधर्मादीनां चतुर्णामिति । चेतनानुरक्षणाधर्मस्थिताकम्प्यपरिवेधना-
भव्यानाम् । न हि परिहाणधर्मा पुनः स्वगोत्रात् परिहीयत इति । तस्य
गोत्रस्याकृत्रिमत्वात् । परिहाणधर्मादीनां पञ्चानामिति । यस्मात् परिहाण-
धर्मणोऽपि फलात् परिहाणिः सम्भवति । फलस्यागन्तुकत्वात् ।
"न पूर्वकाद्" इति । गोत्रात्, फलाच्च ।
स तस्मान् न परिहीयत इत्यर्थन् । कस्मात् ? इत्याह—शैक्षाशैक्षमार्गाभ्यां
दृढीकृतत्वादिति यच्छैक्षावस्थायां गोत्रमस्ति । तच्छैक्षेण मार्गेण भावितम् ।
निर्देशः ] षष्ठं कोशस्थानम् ६६३
यत्तु पश्चात् प्रतिलब्धमुत्तापनया तस्मात् परिहीयते ।
अशैक्षावस्थायां च पुनर्भावितमिति । ताभ्यां दृढीकृतत्वान्न तस्मान्
सोऽर्हन् परिहीयते । शैक्षस्तु कथम् ? इत्याह - शैक्षस्तु लौकिकलोकोत्तराभ्यां
दृढीकृतत्वात् प्रथमात् गोत्रान्न परिहीयते । यत् तदात्मीयं गोत्रं यल्लौकिकेन
मार्गेण पूर्वं भावितम्, शैक्षेण च मार्गेण पुनर्भावितमिति ततो न परिहीयते ।
अत्र कश्चिदाह—"यदुच्यते 'यस्य यत् प्रथमं गोत्रम्, स तस्मान्
न परिहीयते शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वाद्' इति, तदेतदकारणम्; यस्माद्
योऽपि चेतनाधर्मा उत्तपनागतस्तस्मात् गोत्रात् परिहीयते । तद् गोत्रं
शैक्षाशैक्षाभ्यां मार्गाभ्यां दृढीकृतमिति परिहाणिर्न प्राप्नोति । तस्मात्
गोत्रमेव तत् तादृशं यस्मादाद्यान्न परिहीयते । उत्तापनागोत्रात् तु परि-
हीयत इति । यदप्युक्तम् 'शैक्षस्तु लौकिकलोकोत्तराभ्यां दृढीकृतत्वान्न परि-
हीयते' इत्येतदप्यकारणम्; स्रोतआपन्नस्य परिहाणिप्रसङ्गात् । न हि
स्रोतआपत्तिफलं लौकिकेन मार्गेण दृढीकृतम्" इति । कर्तव्योऽत्र यत्न इति ।
अत्र वयमाचार्यस्याभिप्रायं दर्शयामो येनैवमुक्तम् । कथमिति ? यत्
तावदुक्तं 'चेतनाधर्मा उत्तपनागतस्तस्मात् गोत्रात् परिहीयत' इति तदयुक्तम् ।
यदि चेतनाधर्मगोत्रं शैक्षावस्थायां भावितं पुनश्चाशैक्षावस्थायामपि भावितमिति
दृढीकृतम् । नैव स तस्मादर्हन्त्वात् परिहीयमाणः परिहीयते; शैक्षावस्थायां
प्रथमीभूतत्वात् । उक्तं चाचार्यसङ्घभद्रेण—'यः शैक्षावस्थायां गोत्रान्तरमधि-
गम्यार्हत्त्वं प्राप्नोति, असावपि तं मार्गं परित्यजति । न चोत्तापनागत एव गोत्रे
नावतिष्ठते' इति । यत्तु चेतनाधर्मगोत्रमशैक्षावस्थायामिदानीमेवाधिगतं न
शैक्षावस्थायामधिगतम्, स तस्मान् परिहीयमाणः परिहीयते; तदवस्थाद्वया-
दृढीकृतत्वान् । इति न कारणमेवैतद्भवति । यदप्युक्तम्—'शैक्षस्तु लौकिक-
लोकोत्तराभ्यां मार्गाभ्यां दृढीकृतत्वान्न परिहीयते इत्येतदप्यकारणम्; स्रोत-
आपन्नस्य परिहाणिप्रसङ्गात् । न हि स्रो . आपत्तिफलं लौकिकेन लोकोत्तरेण
दृढीकृतम्' इति । तदप्यनवबुद्ध्यैवाभिहितम् । तद्गोत्रं प्रति कारणमुच्यते, न
फलं प्रति । तत्र हि कारणान्तरं वक्ष्यते येन प्रथमात् फलान्न परिहीयते । न हि
किञ्चिदप्यस्ति फलं यद् युगपदुभाभ्यां लौकिकलोकोत्तराभ्यां प्राप्यते । गोत्रं
तु लौकिकलोकोत्तराभ्यां मार्गाभ्यां दृढीकृतं भवति; पैहजन्मकेनोष्मगतादिना
पारजन्मकेन वा प्रहाणमार्गेणान्येन वा लौकिकेन मार्गेण लोकोत्तरेण शैक्षा-
वस्थायां भावितत्वात् । यत्तु पश्चात् प्रतिलब्धमुत्तापनयेति । यद्यागन्तुकं गोत्रं
पश्चादेव न द्वयोरवस्थयोरधिगतं तस्मात् परिहीयते ।
६६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
यस्य च यत् प्रथमं फलं स तस्मान्न परिहीयते । शेषात् परिहीयते ।
अत एव स्रोतआपत्तिफलान्नास्ति परिहाणिः ।
एवं च कृत्वा परिहाणधर्मणस्त्रयः प्रकारा भवन्ति—तदवस्थस्य परिनिर्वाणम्,
इन्द्रियसञ्चारः, परिहाय वा शैक्षत्वम् । चेतनाधर्मणश्चत्वारः— एत एव त्रयः,
परिहाणधर्मगोत्रप्रत्यागमनं च ।
एवमन्येषां त्रयाणामेकैकप्रकारवृद्ध्या यथाक्रमं पञ्च , षट् , सप्त प्रकारा
वेदितव्याः ।
यस्य च यत् प्रथमं गोत्रं स परिहाय शैक्षीभूतस्तत्रैवावतिष्ठते, नान्यस्मिन्;
अन्यथा हि गोत्रविशेषलाभाद्¹ वृद्धिरेवास्य स्यात् , न परिहाणिः ।
गोत्रं निर्दिश्य फलं निर्दिश्यते—यस्य च यत् प्रथमं फलमिति विस्तरः ।
अत एव च स्रोतआपत्तिफलान्नास्ति परिहाणिरिति । यस्मात् स्रोतआपत्तिफलं
यदि प्राप्यतेऽवश्यं प्रथमं भवति । सकृदागाम्यनागामिफले तु कदाचित् प्रथमे
भवतः, यदि भूयोवीतरागकामवीतरागयोः । कदाचिदप्रथमे, यथानुपूर्विकस्य ।
तत्र यद्यन् फलं प्रथमं भवति स्रोतआपत्तिफलम्, सकृदागामिफलम्, अनागामिफलं
वा, न तस्मात् परिहीयते । यत्तु पश्चात् सकृदागामिफलम्, अनागामिफलम्,
अर्हत्त्वफलं वा ततः परिहीयते । एवं च कृत्वेति । यस्य च यत्प्रथमं गोत्रं फलं च
स तस्मान्न परिहीयत इति कृत्वा । यथाक्रमं पञ्च षट् सप्त प्रकारा इति ।
अनुरक्षणाधर्मणः पञ्च प्रकारा भवन्ति-तदवस्थस्य परिनिर्वाणम् . इन्द्रियसञ्चारः,
परिहाय वा शैक्षत्वम्, चेतनाधर्मगोत्रप्रत्यागमनम्, परिहाणधर्मगोत्रप्रत्यागमनं
च । स्थिताकम्प्यस्य षट् प्रकारा भवन्ति—त एव पञ्च, अनुरक्षणाधर्मगोत्र-
प्रत्यागमनं षष्ठम् । प्रतिवेधनाभव्यस्य सप्त प्रकारा भवन्ति—एत एव च षट्,
स्थिताकम्प्यगोत्रप्रत्यागमनं च सप्तमिति । यस्य च यत्प्रथमं गोत्रं शैक्षावस्थाया
मासीत्, स शैक्षीभूतः । पुनरिति वाक्याध्याहारः । तत्रैवावतिष्ठते नान्यस्मिन् ।
अन्यथा हि गोत्रविशेषलाभाच्छैक्षावस्थाद् गोत्राद्विशिष्टं तद् गोत्रं भवतीति ।
अतो विशिष्टगोत्रलाभान् वृद्धिरेवास्य पुद्गलस्य स्यात्, न परिहाणिरिति । कथं
कृत्वा ? यथा तावन् परिहाणधर्मा अर्हत्त्वावस्थायामिन्द्रियोत्तापनया
प्रतिवेधभव्यताप्राप्तः, सोऽर्हत्त्वात् परिहीयते । शैक्षीभूतस्तद्गोत्रादपि परिहीय-
१. तद्गोत्र०-का० ।
निर्देशः ] षष्ठं कोशस्थानम् ६६५
किं पुनः कारणं प्रथमात्¹ फलात्¹ नास्ति परिहाणिः ? दर्शनहेयानामवस्तु-
कत्वात् । आत्माधिष्ठानप्रवृत्ता ह्येते; सत्कायदृष्टिमूलकत्वात्² । स चात्मा
नास्तीति । असदालम्बनास्तर्हि प्राप्नुवन्ति, नासदालम्बनाः; सत्यालम्बनत्वात् ।
वितथालम्बनास्तु । कतमश्च क्लेशो नैवमस्ति विशेषः । आत्मदृष्टिर्हि रूपादिके
वस्तुनि कारकवेदकवशवर्तित्वेनात्मत्वमभूतमध्यारोपयति । तदधिष्ठानानुप्रवृत्ता-
श्चान्तग्राह्यादय³ इत्यवस्तुका उच्यन्ते । भावनाहेयास्तु रागप्रतिघमानाविद्या
रूपादिके वस्तुनि केवलं सक्त्याघातोन्नत्यसम्प्रख्यानभावेन वर्तन्त इति सवस्तुका
उच्यन्ते ।
अस्ति च तच्छू̥तादिमात्रं यत्र तेषां प्रवृत्तयः, न त्वात्मादिलेशोऽपि अस्ति⁴ ।
माणो न स्थिताकम्प्यगोत्रे तिष्ठति। प्रतिलोमतो यावन्न चेतनाधर्मगोत्रे । किं
तर्हि ? परिहाणधर्मगोत्र एव तिष्ठतीति । अन्यथा हीति । यद्यन्यगोत्रेऽवतिष्ठेत ।
गोत्रविशेषालाभादिति परिहाणधर्मगोत्रविशिष्टगोत्रलाभात् । तस्मादवश्यमर्हत्त्वात्
परिहीयमाण इन्द्रियोत्तापनादपि गोत्रात् परिहीयत इति ।
किं पुनः कारणां प्रथमात् फलान्नास्ति परिहाणिरिति । यस्य यन् प्रथमं फलं
स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा । दर्शनहेयानामवस्तु-
कत्वाद्, अनधिष्ठानत्वादित्यर्थः । आत्माधिष्ठानप्रवृत्ता होते इति विस्तरः ।
आत्मनोऽधिष्ठानेन प्रवृत्ता एते दर्शनहेयाः । कस्माद् ? इत्याह—सत्कायदृष्टि-
मूलत्वात् । यस्मादात्मदर्शनवशेन दर्शनहेयानां समुदाचारः । उक्तं च—'यानि
वा पुनः पृथग्लोके दृष्टिगतानि, तानि सत्कायदृष्टिसमुदयानि सत्कायदृष्टिजाती-
यानि सत्कायदृष्टिप्रभवानि' इति । स चात्मा नास्तीत्यवस्तुंकत्वान्नास्ति परिहाणि-
रिति । सत्यालम्बनत्वादिति । सत्यानां नित्यादिनो ग्रहणात् । कतमश्च
क्लेशो नैवम् । भावनाप्रहातव्योऽपि हि रागादिर्वितथालम्बनः; शुचिसुखनित्या-
त्माकारैः सत्यादितत्त्वालम्बनात् । आत्मत्वमभूतमध्यारोपयतीति । यथोक्तम्—
“ये केचिद् भिक्षव आत्मेति आत्मीय इति समनुपश्यन्तः समनुपश्यन्ति ।
इमानेव ते पञ्चोपादानस्कन्धानात्मत आत्मीयतश्च समनुपश्यन्ति” ( ) इति ।
तदधिष्ठानानुप्रवृत्ताश्चान्तग्राहादय इति । आत्माधिष्ठानानुप्रवृत्ताः । शाश्वत
आत्मा, उच्छेदीति वा; नास्त्यात्मा, अयमेवाग्रः; इयमेव शुद्धिः;
किमसावस्ति नास्तीत्येवमप्याकारप्रवृत्तास्तदन्यदर्शनहेया अवस्तुका उच्यन्ते ।
१-१. प्रथमानां—का० । २. ०मूलत्वात्—का० ।
३. ०नानुवृत्ताश्चान्तग्राहदृष्ट्यादयः—का० । ४. का० पुस्तके नास्ति ।
६६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
तथा हि भावनाहेयानामस्ति प्रतिनियतं वस्तु मनापामनापादिलक्षणम्¹, न तु
दर्शनहेयानामात्मादिलक्षणम् । तस्मादवस्तुका² उच्यन्ते ।
अपि खल्वार्यस्यानुपनिध्यायतः स्मृतिसंप्रमोषात् क्लेश उत्पद्यते नोपनिध्या-
यतः, रज्ज्वामिव सर्पसंज्ञा । न चानुपनिध्यायतः आत्मदृष्ट्यादीनामुत्पत्तिर्युज्यते³
सन्तीरकत्वादिति नास्ति दर्शनहेयप्रहाणात्⁴ परिहाणिः ।
अर्हत्त्वादपि नास्ति परिहाणिरिति सौत्रान्तिकाः । एष एव च न्यायः ।
कथमिदं गम्यते ? आगमाद्, युक्तितश्च । १. कथमागमात् ? “तद्धि
भिक्षवः प्रहीणं यदार्यप्रज्ञया⁵ प्रहीणम्” इत्युक्तम् । आद्यन्तयोश्च फलयोरार्ययैव
निरधिष्ठाना उच्यन्त इत्यर्थः । न त्वात्मादिक्लेशोऽस्तीति । आदिग्रहणेनात्मीय-
ग्रहणम्, ईश्वरादिग्रहणं वा । प्रतिनियतं मनापामनापादिलक्षणमिति । रागस्य
भावनाहेयस्य मनापं केशदन्तशुभादिलक्षणं वस्तु । प्रतिघस्यामनापं तदशु-
भतादिलक्षणम् ! मानस्यापि मनापं अविद्याया अपि तदेव द्वयं सम्मोहनीयं
किञ्चिदिति । न तु दर्शनहेयानामात्मादिलक्षणमिति । न तु दर्शनहेयानामा-
त्मात्मीयलक्षणं प्रतिनियतं वस्तु किञ्चिदस्ति । अन्यत्र तदालम्बनेभ्यो
रागादिभ्यः । तस्मादवस्तुका उच्यन्ते । तस्मान्न प्रतिनियतवस्तुका उच्यन्त
इत्यर्थः ।
अपि खल्विति विस्तरेणाचार्यः । आर्यस्य शैक्षस्यानुपनिध्यायतोऽसन्तीरयतः
स्मृतिसम्प्रमोषात् क्लिष्टस्मृतियोगात् क्लेश उत्पद्यते । रागादिकः । नोपनिध्यायतः ।
रज्ज्वामिव सर्पसंज्ञा । कस्यचिदनुपनिध्यायतः स्मृतिसम्प्रमोषाज्जायते, नोपनि-
ध्यायतः, तद्वत् । आत्मदृष्ट्यादीनामिति । अन्तग्राहदृष्ट्यादीनां ग्रहणम् । कि
पुनः कारणम् ? न चानुपनिध्यायतः आत्मदृष्ट्यादीनामुत्पत्तिर्युज्यते । सन्तीर-
कत्वात् । केषाम् ? आत्मदृष्ट्यादीनां क्लेशानाम् । अतोऽनुपनिध्यानादार्यस्या-
त्मदृष्ट्यादीनामुत्पत्तिर्न युज्यत इति । परिहाणिकारणाभावान् नास्ति दर्शनहेय-
प्रहाणात् परिहाणिरिति ।
अर्हत्त्वादपि नास्तीति । न केवलं दर्शनहेयप्रहाणान्नास्ति परिहाणिः, अर्हत्त्वा-
दपि नास्ति परिहाणिरित्यपिशब्देन दर्शयति । अप्रथमाभ्यां तु सकृदागाम्यना-
गामिफलाभ्यां परिहाणिः सम्भवति । लौकिकेन मार्गेण तत्प्राप्तिसम्भवादित्यभि-
प्रायः । एष एव च न्याय इत्याचार्यः समर्थयति । तद्धि भिक्षवः प्रहीणमिति ।
१. ॰मनापलक्षणं-का० । २. तस्मादप्यव०-का० । ३. ॰मुपपत्ति०-का० ।
४. ॰हेयक्लेश०-का० । ५. यदार्यया प्रज्ञया-का० ।
निर्देशः ] षष्ठं कोशस्थानम् ६६७
प्रज्ञयाऽधिगमः । "शैक्षस्य चाप्रमादकरणीयेऽप्रमादकरणीये प्रवेदयामि" इत्युक्तम्,
नार्हतः । "अर्हतोऽप्यहमानन्द लाभसत्कारमन्तरायकरं वदामि" इत्यत्र सूत्रे
दृष्टधर्मसुखविहारमात्रादेव परिहाणिरुक्ता । "या त्वनेनाकोप्यचेतोविमुक्तिः कायेन
साक्षात्कृता, ततोऽहं न केनचित् पर्यायेण परिहाणं वदामि" इति चोक्तम् ।
सामयिक्या अस्तीति चेत् ? वयमप्येवं ब्रूमः । सा तु विचार्या—किमर्हत्त्वम्,
अहोस्विद्ध्यानानीति । मौलो हि ध्यानसमाधिः समये सम्मुखीभावात् सामयिकी
तदेव प्रहीणम् यदार्यप्रज्ञया प्रहीणम् । तद्धि न पुनरुत्पद्यते । लौकिक्या तु
यत्प्रहीणम्, तत्त पुनरुत्पद्यत इत्यभिप्रायः । शैक्षस्य चाप्रमाद इति विस्तरेण
द्वितीयं सूत्रपदं ज्ञापकम्—
६६८ भाष्यस्फुटार्थामहितेऽभिधर्मकोशे [ मार्गपुद्गल-
विमुक्तिरित्युच्यते । दृष्टधर्मसुखविहारार्थं च पुनः पुनरेषणीयत्वात् कान्तेत्युच्यते ।
आस्वादनीयत्वादित्यपरे ।
अर्हत्त्वविमुक्तिस्तु नित्यानुगतत्वान्न युज्यते सामयिकी, अपुनःप्रार्थनीयत्वान्न
कान्तेति । यदि चार्हत्त्वात् परिहाणिसम्भवोऽभविष्यत्, किमर्थं भगवानाधिचैतसि-
केभ्य एव दृष्टधर्मसुखविहारेभ्यः परिहाणिमवक्ष्यत् । अतो गम्यते—सर्वस्यैवार्हतो
विमुक्तिरकोप्या दृष्टधर्मसुखविहारेति अस्तु । कश्चित् लाभसत्कारव्याक्षेपदोषात्
परिहीयते, वशित्वभ्रंशाद् यो मृद्विन्द्रियः । कश्चिन्न परिहीयते यस्तीक्ष्णेन्द्रियः ।
तत्र यः परिहीयते स परिहाणधर्मा, यो न परिहीयते सोऽपरिहाणधर्मा ।
एवं चेतनाधर्मादयोऽपि योज्याः ।
ध्यानान्येव लौकिकानि सामयिकी विमुक्तिरिति । कस्मादेवमाशङ्क्यते ? इत्याह-
मौलो हि ध्यानसमाधिरिति । ध्यानमेव समाधिर्ध्यानसमाधिः । मौलध्यानग्रहणं
सुखप्रतिपदामप्तत्वात् । समये सम्मुखीभावात् । कस्मिंश्चित् काले निःशब्दादिके
सम्मुखीभावात् । समये भवा सामयिकी विमुक्तिरित्युच्यते । पुनःपुनरेषणीयत्वात्
कान्तेति । परिहाणौ परिहाणौ कमनीयत्वात् प्रार्थनीयत्वादित्यर्थः ।
आस्वादनीयत्वादित्यपर इति । भदन्तर्रामः । सास्रवत्वादास्वादनासम्प्रयुक्त-
ध्यानयोगात् कान्तेत्यभिप्रायः । अर्हत्त्वविमुक्तिस्त्विति विस्तरः । अर्हत्त्वमेव
विमुक्तिरर्हत्त्वविमुक्तिः । नित्यानुगतत्वात् प्राप्तियोगेन । न युज्यते सामयिकीति ।
अनेन सामयिक्या विमुक्तेर्विपर्ययेणार्हत्त्वविमुक्तिं दर्शयति । अपुनःप्रार्थनीयत्वान्न
कान्तेति । अनेन कान्तविपर्यये ऽर्हत्त्वविमुक्तिं न कान्तेति । नित्यानुगतत्वेनास्ति-
त्वादप्रार्थनीयत्वान्न कान्तेत्यर्थः ।
आधिचैतसिकेभ्य एवेति । अधिचेतसि भवा आधिचैतसिका दृष्टधर्मसुख-
विहाराः, तेभ्य एव । किमर्थं परिहाणिमवक्ष्यदिति । ये ते चैतसिका
दृष्टधर्मसुखविहारा अधिगताः, ततोऽहमस्यान्यतमस्मात् परिहाणिं वदामीति
वचनात् । यद्यर्हत्त्वात् सामयिकीविमुक्तिलक्षणात् परिहाणिसम्भवोऽभविष्यत्,
किमर्थं तेभ्य एव परिहाणिमवक्ष्यत् । न तेभ्य एव परिहाणिमवक्ष्यदित्यर्थः ।
वशित्वभ
निर्देशः ] षष्ठं कोशस्थानम् ६६६
अपरिहाणधर्मस्थिताकम्प्याकोप्यधर्माणां को विशेषः ? अपरिहाणधर्माऽनुत्ता-
पनागतः, अकोप्यधर्मा तूत्तापनागतः । तौ हि यं यमेव समापत्तिविशेषमुत्पादयतः,
तस्मान्न परिहीयेते । स्थिताकम्प्यस्तु यस्मिन्नेव गुणे स्थितस्तस्मात् केवलं न
परिहीयते, न त्वन्यमुत्पादयति । उत्पादयति वा तस्मात्१ कम्प्यत२ इत्येव विशेषो
लक्ष्यते ।
आयुष्मान् गौतिकः३ शैक्षीभूतः सामयिक्या विमुक्तेरत्यास्वादनान्मृद्विन्द्रिय-
त्वाच्चाभीक्ष्णं परिहीयमाणो निर्विण्णः शस्त्रमाधारयन् कायजीवितनिरपेक्षत्वान्म-
रणकाल एवार्हत्त्वप्राप्तः परिनिर्वृत्तश्च४ । तस्मात् सोऽपि नार्हत्त्वात् परिहीणः ।
दृष्टधर्मसुखविहारेभ्यः, स परिहाणधर्मा । यो न परिहीयते तत एव सोऽपरि-
हाणधर्मा । एवं चेतनाधर्मादयोऽपि योज्याः । कथम् ? यः समाधिभ्रंशभयादा-
त्मानं चेतयते, स चेतनाधर्मा । योऽनुरक्षति कथञ्चिद् गुणविशेषम्,
सोऽनुरक्षणाधर्मा । यो यस्मिन्नेव गुणे स्थितः तस्मादनुरक्षन्नपि न कम्प्यते,
स स्थिताकम्प्यः । यः परेण प्रतिविध्यति, गुणविशेषमुत्पादयतीत्यर्थः, स
प्रतिवेधनाभव्यः । यो न कुप्यति उत्पन्नेभ्यो न परिहीयते, सोऽकोप्यधर्मा ।
को विशेष इति । अपरिहाणधर्मादीनां त्रयाणामपरिहाणियोगाद्विशेषम-
पश्यन् प्रश्नयति । अनुत्तापनागत इति । स्वभावतस्तीक्ष्णेन्द्रियः । नेन्द्रियोत्तापनां
प्राप्त इत्यर्थः । तस्मान् कम्प्यत इति । तस्मात् गुणविशेषादित्यर्थः । एष विशेषो
लक्ष्यत इति । आचार्यः स्वमतं दर्शयति ।
ननु चायुष्मान् गौतिकोऽर्हत्त्वान्नपरिहीण इत्येवं यदि वैभाषिको ब्रूयादिति
अस्य प्रतिविधानमारभ्यते—आयुष्मान् गौतिक इति विस्तरः । शैक्षीभूत इति । न
तावदर्हन् । शस्त्रमाधारयन्निति शस्त्रं वाहयन् । कायजीवितनिरपेक्षत्वात्
कारणात् मरणकाल एवार्हत्त्वं प्राप्तः। शस्त्राधारादुत्तरकाल इत्यर्थः । परि-
निर्वृत्तश्च४ तेनैव शस्त्रप्रहारेण ।
दशोत्तरे चेति । दशोत्तरनामसूत्रे । किमुक्तम् ? इत्याह—एको धर्म उत्पादयि-
तव्यः । कतमः ? इत्याह—सामयिकी कान्ता चेतोविमुक्तिरिति । दृष्टधर्मसुख-
विहार इत्यभिप्रायः । एको धर्मः साक्षात्कर्तव्यः । कतमः ? इत्याह—अकोप्या
चेतोविमुक्तिरिति । अर्हत्त्वमित्यभिप्रायः । पृथग्वचनाद् द्यकोप्यविमुक्ति-
लक्षणादर्हत्त्वस्वभावा, न कान्ता चेतोविमुक्तिरुक्तेत्यभिप्रायः ।
१. तस्मात्त-का० । २. कम्पत-का० ।
३. भोतिकः-का० । ४. परिनिवृत्तिश्च-जा० ।
१००० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
दशोत्तरे चोक्तम्- "एको धर्म उत्पादयितव्यः-सामयिकी कान्ता
चेतोविमुक्तिः । एको धर्मः साक्षात्कर्तव्यः - अकोप्या चेतोविमुक्तिः" इति । यदि
चार्हत्त्वं सामयिकी कान्ता चेतोविमुक्तिरभविष्यत्, किमर्थं तत्रैव दशकेऽर्हत्त्वस्य
द्विग्रहणमकरिष्यत् ।
न च क्वचिदर्हत्त्वमुत्पादयितव्यमुक्तम् । किं तर्हि ? साक्षात् कर्तव्यम् ।
मृद्विन्द्रियसंगृहीतं चार्हत्त्वमुत्पादयितव्यमिति । किमनेन ज्ञापितं भवति ? यदि
तावदुत्पादयितुं शक्यमित्यन्यदपि शक्यम् । अथोत्पादनमर्हतीति, अन्यत् सुतरा-
मर्हति । तस्मान्न सामयिकी विमुक्तिरर्हत्त्वम् ।
कथं तर्हि समयविमुक्तोऽर्हन्नुच्यते ? यस्य मृद्विन्द्रियत्वात् समयापेक्षः
समाधिसम्मुखीभावः । विपर्ययादसमयविमुक्तः । अभिधर्मेऽपि चोक्तम्- "त्रिभिः
द्विप्रकारत्वादर्हत्त्वस्य पृथग्वचनमिति वैभाषिकवचनावकाशं पश्यन् पुनराह-
यदि चार्हत्त्वमिति विस्तरः । यद्यर्हत्त्वमेव सामयिकी कान्ता चेतोविमुक्तिरभविष्यत्,
किमर्थं तत्रैव दशके न सूत्रान्तरे अर्हत्त्वस्य द्विग्रहणमकरिष्यत्-एको धर्मः
साक्षात्कर्तव्यः, अकोप्या चेतोविमुक्तिरिति । नैवाकरिष्यदित्यर्थः । एवं
ह्यावक्ष्यत्-एको धर्मः साक्षात्कर्तव्यश्चेतोविमुक्तिरिति । ब्रूयास्त्वर्हत्त्वं
द्विप्रकारम् । अतो वचनविभागेनोच्यते-एकमुत्पादयितव्यम्, द्वितीयं
साक्षात्कर्तव्यमिति ।
अत्र ब्रूमः- न च क्वचिदर्हत्त्वमुत्पादयितव्यमुक्तम् । किं तर्हि ? साक्षात्कर्तव्य-
मिति । तत्रतत्र सूत्रे । अभ्युपेत्यापि ब्रूमः । मृद्विन्द्रियसंगृहीतं चोत्पादयितव्य-
मिति । किमनेन ज्ञापनेन ज्ञापितं कथितं भवति । यदि तावदुत्पादयितुं
शक्यमित्येतज्ज्ञापितं भवति । शकि लिङ् च (पा. सू. ३.३. ७२) इति कृत्यप्रत्यय-
लक्षणात् । अन्यदपि शक्यं यत्तीक्ष्णेन्द्रियसंगृहीतमर्हत्त्वम् । तथा च सत्येवं
सूत्रे वक्तव्यं स्यात्-एको धर्म उत्पादयितव्यः, चेतोविमुक्तिरिति । अथोत्पादन-
मर्हतीत्येतज्ज्ञापितं भवति । "अर्हे कृत्यतृचश्च" (पा. सू. ३.३.१७६) इति
लक्षणपरिग्रहात् । अन्यत् सुतरामर्हति । यत्तीक्ष्णेन्द्रियसंगृहीतमर्हत्त्वम्, तद्ध्य-
कोप्यत्वात् सुष्ठूत्पादयितुमर्हतीत्यभिप्रायः ।
कथं तर्हीति विस्तरः । यदि सामयिकी विमुक्तिरहत्त्वं भवति, एवं तद्योगात्
समयविमुक्तोऽर्हन्निति युज्यत इत्यभिप्रायः । समयापेक्षः समाधिसम्मुखीभाव
निर्देशः ] षष्ठं कोशस्थानम् १००१
स्थानैः कामरागानुशयस्योत्पादो भवति । कामरागानुशयोऽप्रहीणो भवत्यपरिज्ञातः
कामरागपर्यवस्था नीयाश्च धर्मा आभासगता भवन्ति, तत्र चायोनिशो मनस्कारः"
इति । परिपूर्णोत्पत्तिरेवमिति चेत् ? कस्य वा परिपूर्णकारणस्योत्पत्तिः ।
एवं तावदागमात् ।
२. कथं युक्तितः ? यदि तावदर्हतस्तद्रूपः प्रतिपक्ष उत्पन्नो येन क्लेशा
अत्यन्तमनुत्पत्तिधर्मतामापन्नाः, कथं पुनः परिहीयते ! अथ नोत्पन्नः, कथं
क्षीणास्रवो भवति ! अत्यन्तमनपोद्धृतायां तद्बीजधर्मतायामक्षीणास्रवो वा पुनः
कथमर्हन् भवतीत्येवं युक्तिः ।
अङ्गारकर्षूपमं तर्हि परिहार्यम्, यत्रेदमुक्तम्- "यस्य खलु श्रुतवत
आर्यश्रावकस्यैवं चरत एवं विहरतः कदाचित् कर्हिचित् स्मृतिसम्प्रमोषादुत्पद्यन्ते
पापका अकुशला वितर्काः" इति ? स हि तत्रार्हन्नेव ज्ञापितः, "दीर्घरात्र
इति । यस्मादस्य समाधिः सास्रवोऽनास्रवोऽपि वा समयमारोग्यदेशविशेषादि-
लक्षणमपेक्षते । अभिधर्मेऽपि चोक्तमिति विस्तरः । कामरागानुशयोऽप्रहीणो
भवतीत्येतदुदाहरणम् । इदं चाप्युदाहरणम्--तत्र चायोनि॒शोमनस्कार इति ।
परिपूर्णोत्पत्तिरेवमिति चेत् । स्यान्मता परिपूर्णकारणस्य क्लेशस्यैवमुत्पत्तिः,
अपरिपूर्णकारणस्य तु क्लेशस्य विषयबलादेवेति ? तद्युक्तम्, कस्माद् ? इत्याह--
कस्य वापिपरिपूर्णकारणस्योत्पत्तिरिति । कस्योत्पत्तिः ? यतः अपरिपूर्णकारणस्यो-
त्पत्तिरस्ति । यावती हि हेतुप्रत्ययसामग्री कार्यस्योत्पत्तये प्रसिद्धा, सा तदेक-
देशविकला सती तस्योत्पत्तये न भवति । तद्यथा - चक्षूरूपालोकमनस्कार-
सामग्री चक्षुर्विज्ञानस्योत्पत्तये प्रसिद्धा ।.स तदन्येतरविकला सती तदुत्पत्तये
न भवतीति तस्मान्न किञ्चिदेतत् ।
तद्रूप इति तत्प्रकारः । तत्स्वभाव इति वा । अथ नोत्पन्न इति प्रतिपक्षः ।
तद्बीजधर्मतायामिति । क्लेशबीजस्वभाव इत्यर्थः । तस्यामनपोद्धृतायामनुन्मूलि-
तायां कथं क्षीणास्रवो भवतीति । ब्रूयास्त्वम्- न भवतीति । अत आह--
अक्षीणास्रवो वा कथमर्हन् भवतीति ।
एवं चरत इति । स्मृतिमत्तश्चरत इत्यर्थः । अनन्तरं स्मृतिवचनात् । 'शैक्षः सः'
इत्यस्य वचनस्य परिहारार्थं स एव परिहाणिवाद्याह - स हि तत्रार्हन्नेव ज्ञापित
१. ० मनयो०-का० ।
१००२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
विवेकिनिम्नचित्तमुच्यते¹ यावनिर्वाणप्राग्भारम्" इति वचनात् ।
अर्हतो ह्येतद् बलमन्यत्रोक्तम्— "सर्वैरास्रवस्थानीयैर्धर्मैः शीतीभूतं वान्ती-
भूतम्" इति चाभिधानात् ? अस्त्येतदेवम् । यावस्तु चारो न सुप्रतिबद्धस्तावदेवं
चरतोऽपि शैक्षस्यास्ति सम्भवः क्लेशोत्पत्ताविति शैक्षावस्थामधिकृत्यैवं
वचनाददोषः ।
प्रतिज्ञायते हि लौकिकमार्गप्रतिलब्धात् फलद्वयात् परिहाणिः । अर्हत्त्वादपि
तु परिहाणिं वर्णयन्ति वैभाषिकाः ।
किं पुनरिमेऽर्हन्त एव षड्गोत्रा भवन्ति ? अथान्येऽपि षड्गोत्रा भवन्ति ?
शैक्षानायाश्चि षड्गोत्राः,
शैक्षपृथग्जना अप्येवं षड्गोत्राः । तत्पूर्वकाण्येव चार्हतां गोत्राणि ।'
अपि तु—
इति । कथं कृत्वा ज्ञापितः ? इत्याह—दीर्घरात्रमिति विस्तरः । अपरिहाणि-
वादिनः स्यादेवं वचनावकाशः । शैक्षस्येदं विवेकिनिम्नचित्तमुच्यते यावनिर्वाण-
प्राग्भारमिति । अस्य परिहारार्थं परिहाणिवादी पुनराह—अर्हतो ह्येतद्बल-
मन्यत्रोक्तमिति सूत्रे । कथम् ? "कति भदन्तार्हतो भिक्षोः क्षीणास्रवस्य बलानि ?
अष्टौ शारिपुत्रार्हतो भिक्षोर्दीर्घरात्रं विवेकिनिम्नं चित्तं यावनिर्वाणप्राग्भारम् ।
अङ्गारकर्षूपमाश्चानेन कामा दृष्ट्वा भवन्ति । यथास्य कामान् जानतः कामान्
पश्यतो यः कामेषु कामच्छन्दः कामस्नेहः विस्तरेण यावत्कामाध्यवसानम्,
तन्नास्य चित्तं न पर्यादाय तिष्ठति" इति विस्तरः । किञ्च शीतीभूतं वान्तीभूत-
मिति चाभिधानात् । तत्रैवाङ्गारकर्षूपमे सूत्रेऽर्हन्नेव ज्ञापति इति ।
अस्त्येतदेवमिति । अङ्गारकर्षूपमे यदुक्तमर्हन्नेव ज्ञापित इति । यावत्तु चारो
न सुप्रतिबद्ध इति । पिण्डपातादिचारः । शैक्षावस्थामधिकृत्यैवं वचनाददोष
इति । यदेतदुक्तम्— "कदाचित् स्मृतिसम्प्रमोषादुत्पद्यन्ते पापका अकुशला
वितर्काः" इति, तच्छैक्षावस्थामधिकृत्योक्तम्, नार्हत्त्वावस्थाम् । यत्तूक्तम्—
'दीर्घरात्रं विवेकिनिम्नम्' इति, तच्छैक्षस्यापि सम्भवति । अर्हतस्तु प्रकर्षेण
भवतीति विशेषः । यच्चाप्युक्तम्—'सास्रवस्थानीयैर्धर्मैः शीतीभूतं वान्तीभूतम्'
इति;, तदपि शैक्षावस्थामधिकृत्य सम्भवति, कामावचरास्रवस्थानीयधर्मशीती-
१. विवेकिनिम्नं चित्तं भवति-का० ।
निर्देशः ] षष्ठं कोशस्थानम् १००३
सञ्चारो नास्ति दर्शने ॥ ५८ ॥
दर्शनमार्गदन्यत्रेन्द्रियसञ्चारो भवति । प्रयोगासम्भवान्न दर्शनमार्गे । कश्चित्
पृथग्जनावस्थायामिन्द्रियाणि सञ्चरति, कश्चिच्छ्रद्धाधिमुक्तावस्थायाम् ॥ ५८ ॥
यदिदं सूत्र उक्तम्— “ये त्वनेन चत्वार आधिचैतसिका दृष्टधर्मसुखविहारा
अधिगतास्ततोऽहमस्यान्यतमान्यतमस्मात् परिहाणिं वदामि, या त्वनेनैकाकिना
यावदकोप्या चेतोविमुक्तिः कायेन साक्षात्कृता, ततोऽहं न केनचित् पर्यायेण
परिहाणिं वदामि” इति, कथमकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणिः ?
परिहाणिस्त्रिधा ज्ञेया प्राप्ताप्राप्तोपभोगतः ।
१. प्राप्तपरिहाणिः, यदि प्रतिलब्धात् गुणात् परिहीयते । २.अप्राप्त-
परिहाणिः, यदि प्राप्यं गुणं न प्राप्नोति । ३. उपभोगपरिहाणिः, यदि प्राप्तगुणं
न सम्मुखीकरोति ।
आसां पुनः परिहाणीनाम्—
अन्त्या शास्तुरकोप्यस्य मध्या चान्यस्य तु त्रिधा ॥ ५९ ॥
बुद्धस्योपभोगपरिहाणिरेव, नान्या । अकोप्यधर्मणः सा च, अप्राप्त-
भावाभिधानात्। अर्हत्त्वावस्थां चाधिकृत्य तथाभिधानाददोष इति आचार्यस्या-
भिप्रायः ।
प्रयोगासम्भवान् दर्शनमार्गे इति पञ्चदशक्षणो दर्शनमार्गः। तत्रेन्द्रियसञ्चारे
प्रयोगावकाशो नास्ति । कश्चित् पृथग्जनावस्थायामिन्द्रियाणि सञ्चरतीति ।
किमनित्याद्याकारपतितेन मार्गेणेन्द्रियाणि सञ्चरति, किमौदारिकाद्याकारेण
मार्गेणेन्द्रियाणि सञ्चरति, उताहो शान्ताद्याकारेणेति अविशेषितत्वादुभयथापि
सम्भवतीति पश्यामः। तथा ह्येनमर्थमाचार्यः सूचयिष्यति; 'न हि सास्रवेण
मार्गेणार्याणामिन्द्रियसञ्चारः' इत्यार्याणामिति विशेषात् । 'अपि नाम
ममेन्द्रियाणि तीक्ष्णानि स्युः' इति प्रयोगमभिसन्धाय । मार्गं लौकिकं लोकोत्तरं
चान्यस्यानन्तर्यविमुक्तिमार्गक्रमेणेन्द्रियाणि सञ्चरन्तीति वेदितव्यम् ।
कश्चिच्छ्रद्धाधिमुक्तावस्थायामित्यत्राशैक्षावचनम् । शैक्षपृथग्जनाधिकारात् ।
अशैक्षोऽपि त्विन्द्रियाणि सञ्चरतीति बोद्धव्यम् ॥५८॥
कथमकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणिरिति । तीक्ष्णेन्द्रियत्वादस्य
दृष्टधर्मसुखविहारेभ्यः परिहाणिर्न सम्भवेत्, किमुताकोप्याया विमुक्तेरित्य-
१००४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
परिहाणिश्च; पुद्गलविशेषधर्माप्रापणात् । अन्यस्यार्हतः प्राप्तपरिहाणिरप्यस्ति । अत
उपभोगपरिहाणिवचनादकोप्यधर्मणः सूत्रविरोधः । सर्वस्यानास्रवा विमुक्तिर-
कोप्या । अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् । अत एतद् चोद्यमित्य-
परिहाणिवादी ॥ ५९ ॥
अथ योऽर्हत्फलात् परिहीयते किमसो पुनर्भायते ? नास्त्येतत्; यस्मात्
म्रियते न फलभ्रष्टः,
सम्भावयन् पृच्छति । बुद्धस्योपभोगपरिहाणिरेवेति । विनेयकार्यव्यापृतत्वाद्
दृष्टधर्मँसुखविहारान्नोपभुंक्ते । न सम्मुखीकरोतीत्यर्थः । सा चाप्राप्तपरिहाणि-
श्चेति । अकोप्यधर्मणः सा चोपभोगपरिहाणिः; कुतश्चिद्व्यासङ्गात् । अप्राप्ति-
परिहाणिश्च पुद्गलविशेषधर्माप्रापणात् । यस्
निर्देशः ] षष्ठं कोशस्थानम् १००५
नैव हि कश्चित् फलात् परिहीनः कालं करोति; "धन्धा भिक्षव आर्यश्राव-
कस्य स्मृतिसम्प्रमोषा, अथ च पुनः क्षिप्रमेवान्तं परिक्षयं सपदि संगच्छति" इति
सूत्रे वचनात् । अन्यथा ह्यनाश्वासिकं ब्रह्मचर्यं स्यात् ।
यतश्च फलात् परिहीयते तत्फलस्थेन यत्कार्यं
तदकार्यं करोति न ।
परिहीणोऽपि संस्तत्फलविरुद्धां क्रियां न करोति, शूरप्रस्खलनापतनवत् ।
अथेन्द्रियाणि सञ्चरतां कत्यानन्तर्यविमुक्तिमार्गा भवन्ति ?
विमुक्त्यानन्तर्यपथा नवाकोप्ये,
अकोप्यगोत्रे प्रतिविध्यमाने प्रतिवेधभावनाभ्यस्य नवानन्तर्यमार्गा
विमुक्तिमार्गाश्च भवन्ति, यथार्हत्त्वं प्राप्नुवतः । किं कारणम् ?
अतिसेवनात् ॥ ६० ॥
तस्य मृद्विन्द्रियगोत्रं भवतीति नाल्पेन व्यावर्तयितुं शक्यते; शैक्षाशैक्ष-
मार्गाभ्यां दृढीकृतत्वात् ॥ ६० ॥
दृष्टप्राप्ततायामेकैकः,
दृष्टिप्राप्तायां प्रतिविध्यमानायामेक एवानन्तर्यमार्गो भवति, एको
विमुक्तिमार्गः । प्रयोगमार्गस्तु सर्वत्रैक एव ।
ते पुनः सर्व एवानन्तर्यविमुक्तिमार्गाः
तथोक्तमिति । अत एतद्दोषमिति । यदुक्तं सूत्रमाश्रित्य कथमकोप्यधर्मणो
दृष्टधर्मसुखविहारेभ्यः परिहाणिरिति ॥ ५९ ॥
धन्धा इति मन्दाः । अन्यथा ह्यनाश्वसिकमिति । यद्यर्हत्त्वात् परिहीणः
पुनर्जायेत—
"सुचीर्णब्रह्मचर्येऽस्मिन् मार्गे चापि सुभाविते ।
तुष्ट आयुःक्षयाद्भवति रोगस्यापगमे यथा" ॥
इत्याश्वासः, एवंविधो न स्यादिति । तदकार्यमब्रह्मचर्यादिलक्षणम् । शूर-
प्रस्खलनापतनवदिति । यथा शूरस्य प्रस्खलने अपतनं भवति, शक्तित
आत्मधारणात् । तद्वदार्यः फलात् परिहीणोऽपि तत्फलमलब्ध्वा न म्रियते ।
शूरग्रहणमविह्वलत्वात् । बलवान् शूर इत्यपरे ।
कथमभ्यस्तम् ? इत्याह—शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वादिति ॥ ६० ॥
प्रयोगमार्गस्तु सर्वत्रैक एवेति । अकोप्यप्रतिवेधे, दृष्टिप्राप्यतायां च ।
१००६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अनास्रवाः,
न हि सास्रवेण मार्गेणार्याणामिन्द्रियसञ्चारः ।
क्व पुनरिन्द्रियाणि वर्धन्ते ?
नृषु वर्धनम् ।
मनुष्येष्वेवेन्द्रियसञ्चारो नान्यत्र; परिहाण्यसम्भवात् ।
कः पुनः कतमां भूमिं निश्रित्येन्द्रियाणि सञ्चरति ?
अशैक्षो नव निश्रित्य भूमीः,
अनागम्यस्थानन्तरं चत्वारि ध्यानानि, त्रीणि चारूप्याणि ।
शैक्षस्तु षट्,
आरूप्यवर्ज्यः ।
किं कारणम् ?
यतः ।। ६१ ।।
सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन् ।
इन्द्रियाणि हि सञ्चरन् फलं फलविशिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा
तीक्ष्णेन्द्रियगोत्रं फलमार्गमेव प्रतिलभते । न चानागामिफलमारूप्यसंगृहीतमस्ती-
त्येतत्¹ कारणम् ॥ ६१ ॥
न हि सास्रवेणेति । आर्येन्द्रियसञ्चारस्य विवक्षितत्वात् । अन्यथा हि
कश्चित् पृथग्जनावस्थायामिन्द्रियाणि सञ्चरतीत्येतद्विरुष्यते ।
नान्यत्र परिहाण्यसम्भवादिति । परिहाणिभयाद्धीन्द्रियसञ्चार इष्यते ।
अन्यत्र षट्सु कामावचरेषु देवनिकायेषु रूपारूप्यधात्वोश्च परिहाणिर्नास्ती-
त्याह-ऊर्ध्वधातूपपन्न आर्यो नैवेन्द्रियाणि सञ्चरति । नापि कथंचित् परिहीयत
इति । उक्तमत्र कारणम्-कालान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वात् ।
आस्रवविशेषालाभाच्चेति । अथ कस्मात् कामावचरेषु देवेषु परिहाणिर्नास्ति ?
ये पूर्वमभ्युदारेभ्योऽपि विषयेभ्यः संविजन्तो नियतं सत्यानि पश्यन्ति, ते कथं
तानेवालम्ब्य परिहास्यन्ते ? अवश्यं हि ते तीक्ष्णेन्द्रिया भवन्तीत्यभिप्रायः ।
“अशैक्षो नव निश्रित्य” इति । तत्फलस्य नवभूमिसंगृहीतत्वसम्भवात् । फलं
१. ०मारूप्यभूमि०-का० ।
निर्देशः ] षष्ठ कोशस्थानम् १००७
त एते षडेवार्हन्तो नव भवन्ति; इन्द्रियभेदात् ।
कथं कृत्वा ?
द्वौ बुद्धौ श्रावकाः सप्त नवैते नवधेन्द्रियाः ॥ ६२ ॥
कतमे सप्त श्रावकाः ? परिहाणधर्मादयः पञ्च । अकोप्यधर्मा च द्विविधः—
उत्थापनागतः, आदितश्च तद्गोत्रः अकोप्यभेद एव । द्वौ बुद्धौ—प्रत्येकबुद्धः,
बुद्धश्च । इत्येते मृदुमृद्वादिनवप्रकारेन्द्रियभेदान्नव पुद्गला भवन्ति ॥ ६२ ॥
सर्व एव त्वार्यपुद्गलाः सप्त भवन्ति—श्रद्धानुसारो, धर्मानुसारी,
श्रद्धाधिमुक्तः, दृष्टिप्राप्तः, कायसाक्षी, प्रज्ञाविमुक्तः, उभयतोविमुक्तश्च ।
एते पुनः—
प्रयोगाक्षसमापत्तिविमुक्त्युभयतः कृताः ।
पुद्गलाः सप्त,
प्रयोगतः श्रद्धाधर्मानुसारिणौ; पूर्वमेव परप्रत्यधर्मानुसारिभ्यामर्थेषु प्रयोगात् ।
फलविशिष्टं चेति । फलं सकृदागामिफलम् । फलविशिष्टं प्रथमध्यानादि
प्रहाणाय प्रयोगानन्तर्यविमुक्तिविशेषमार्गलक्षणम् । फलमार्गमेव प्रतिलभत इति ।
कामधातुवैराग्यमात्रसंगृहीतम् । न चानागामिफलमारूप्यसंगृहीतमिति ।
‘पञ्चानामवरभागीयानां प्रहाणादनागामी’ इति सूत्रे वचनात्, दर्शनमार्गस्य
च तत्राभावात् । तदभावः कामधात्वनालम्बनादिति व्याख्यातमेतत् ॥ ६१ ॥
अकोप्यधर्मा च द्विविध इति । सूत्रे पठितत्वादकोप्यभेद एव । द्वौ बुद्धाविति ।
अकोप्यधर्मा मृदुमध्याधिमात्रेन्द्रियभेदात् त्रिधा भिद्यते । श्रावको ह्यकोप्य-
धर्माधिमात्रमृद्विन्द्रियः । प्रत्येकबुद्धोऽधिमात्रमध्येन्द्रियः । सम्यक्सम्बुद्धोऽधि-
मात्राधिमात्रेन्द्रिय इति । मृदुमृद्वादिनवप्रकारेन्द्रियभेदादिति । परिहाणिधर्मा
मृदुमृद्विन्द्रियो यावद्भगवानधिमात्राधिमात्रेन्द्रिय इति ॥ ६२ ॥
सप्त भवन्तीति । प्रत्येकबुद्धसम्यक्सम्बुद्धावुभयतोभागविमुक्तसंगृहीतावे-
वेति कृत्वा ।
पूर्वमेवेति विस्तरः । पूर्वमेव पृथग्जनावस्थायां परप्रत्ययेन परतः श्रुत्वा
स्मृत्युपस्थानादीन् धर्मान् पश्चादर्थेषु प्रयोगात् । चिन्ताभावनासेवनादित्यर्थः ।
तथा पूर्वमेव पृथग्जनावस्थायां प्रज्ञया द्वादशाङ्गप्रवचनधर्मानुसारेण स्वयमेवं
बोधिपक्षादीन् धर्माननुसरन्नर्थेषु प्रयोगात् । चिन्ताभावनासेवनात् । इत्येवं
प्रयोगतः श्रद्धाधर्मानुसारिणौ भवतः ।
षट् त्वेते,
द्रव्यतस्त्वेते षट् भवन्ति ।
द्वौ द्वौ मार्गत्रये यतः ॥ ६३ ॥
दर्शनमार्गे हि द्वौ पुद्गलौ, श्र द्धामनुसारिणौ । तावेव भावनामार्गे द्वौ
भवतः, श्रद्धाधिमुक्तदृष्टि प्राप्तौ । तौ पुनरशैक्षमार्गे द्वौ भवतः, समयासमायविमु-
क्ताविति । तत्रेन्द्रियतस्त्रयः, श्रद्धानुसारिणः । गोत्रतः पञ्च । मार्गन्तः पञ्चदश ।
अष्ट क्षान्तिसप्तज्ञानस्थाः । वैराग्यतस्त्रिसप्ततिः । सकलबन्धनः । कामवैराग्या-
श्रद्धाधिमोक्षप्रज्ञाधिक्यत इति । श्रद्धाधिमोक्षाधिक्यतः, प्रज्ञाधिक्यतश्च ।
श्रद्धयाधिमोक्षः, श्रद्धाधिमोक्षः, तस्याधिक्यात् मृद्विन्द्रियत्वम् । प्रज्ञाधिक्यात्
तीक्ष्णेन्द्रियत्वम् ।
विमुक्तित इति । क्लेशविमुक्तितः प्रज्ञया क्लेशाद्विमुक्तः प्रज्ञाविमुक्त इति
कृत्वा । समापत्तिविमुक्तित इति । समाप
निर्देशः ] षष्ठं कोशस्थानम् १००६
नव । एवं यावदाकिञ्चन्यायतनवैराग्यात् । आश्रयतो नव । त्रिद्वीपषड्देव-
निकायाः । इन्द्रियगोत्रमार्गवैराग्याश्रयतः पिण्डिताः¹ शतसहस्रं सम्पद्यन्ते
सहस्राणि च सप्तचत्वारिंशच्छतानि चाष्टौ पञ्चविंशतिश्च ।
एवमन्येऽपि पुद्गलाः सम्भवतः संख्येयाः ॥ ६३ ॥
भवन्ति । एवमेषां मार्गतः पञ्चदशधाभिन्नानां पुनरेकैको वैराग्यतस्त्रिसप्ततिः ।
कथम् ? सकलबन्धनस्तान कामधातावेकः, कामवैराग्यान्नव । एकप्रकारवीतरागो
यावन्नवप्रकारवीतरागः । एवं यावदाकिञ्चन्यायतनवैराग्यान्नवेति । भवाग्र-
वैराग्यान्नवेति न सम्भवति; लौकिकस्य मार्गस्य भवाग्रप्रतिपक्षस्याभावात् ।
त एतेऽष्टौ नवका द्विसप्ततिः । सकलबन्धनेन पूर्वोक्तेन सह त्रिसप्ततिर्भवन्ति ।
पुनरेते वैराग्यतः प्रत्येकं त्रिसप्ततिभिन्नाः । प्रत्येकमाश्रयतो नव । कथम् ? इत्याह
त्रिद्वीपषड्देवनिकायजा इति । त्रयो द्वीपा उत्तरकुरुवर्ज्याः, उत्तरकुरौ मार्गाभावात्
षड् देवनिकायाः कामावचराः, तत ऊर्ध्वं दर्शनमार्गाभावात् । तेषु जाता इति ।
प्रत्येकमेते नवगुणा भवन्ति । इन्द्रियगोत्रमार्गवैराग्याश्रयतः पिण्डिता इति ।
नैगमन उच्यते । इयन्त इति वृत्तौ लिखित्वा ।
एवमन्येऽपि पुद्गलाः सम्भवतः संख्येया इति । धर्मानुसारिप्रभृतयः ।
यथेन्द्रियगोत्रमार्गवैराग्याश्रयतः श्रद्धानुसारिणः संख्याताः, तथैव संख्येयाः
सम्भवत इति । धर्मानुसारिदृष्टि प्राप्तसमय विमुक्तानां गोत्रभेदो नास्ति,
श्रद्धाधिमुक्त समयविमुक्तयोस्तु गोत्रभेदोऽप्यस्तीति सम्भवत इत्युच्यते ।
तत्रेन्द्रियतस्त्रयो धर्मानुसारिणः, गोत्रत एक एवेति भेदो नास्ति । मार्गतः
पञ्चदश अष्टक्षान्तिसप्तज्ञानस्थाः । वैराग्यतस्त्रिसप्ततिः । सकलबन्धनः ।
कामवैराग्यान्नव । एवं यावदाकिञ्चन्यायतनवैराग्यात् आश्रयतो नव ।
त्रिद्वीपषड्देवनिकायजा इति । एवमिन्द्रियमार्गवैराग्याश्रयतः पिण्डिताः
सहस्राण्येकान्नत्रिंशत् सम्पद्यन्ते । शतानि च पञ्च पञ्चषष्टिश्च । एवमिन्द्रिय-
तस्त्रयः श्रद्धाधिमुक्ताः । गोत्रतः पञ्च प्रत्येकम् । वैराग्यतस्त्रिसप्ततिः प्रत्येकमेव
पूर्ववत् । आश्रयतो नव । त्रिद्वीपषड्देवनिकायजा इति । एवमिन्द्रियगोत्र-
वैराग्याश्रयतः पिण्डिताः नव सहस्राणि सम्पद्यन्ते । शतानि चाष्टौ पञ्च पञ्चा-
शच्च । केवलफलस्थो षोडशचित्तप्राप्तोऽधिकृतः ।
“श्रद्धाधिमुक्तदृष्टप्राप्तौ मृदुतीक्ष्णेन्द्रियौ तदा” (अभि० को० ६.३१)
इत्यनयोरिह विवक्षितत्वात् ।
१. पण्डिताः-का० ।