अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 994, कुल 1258 में से
संदर्भ में पढ़ें। निर्देशः ] षष्ठं कोशस्थानम् ६७१
यस्त्वसौ भावाग्रिको नवमः प्रकार उक्तो यस्य वज्रोपमेन प्रहाणम्,
तत्क्षयाप्त्या क्षयज्ञानम्,
तस्य पुनर्नवमस्य प्रकारस्य क्षयप्राप्त्या सह क्षयज्ञानमुत्पद्यते । वज्रोपसमाधे-
रनन्तरं पश्चिमो विमुक्तिमार्गः । अतएव तत्क्षयज्ञानं सर्वास्रवक्षयप्राप्तिसहजत्वात्
प्रथमतः ।
अशैक्षोऽर्हन्नसौ तदा ।
उत्पन्ने च पुनः क्षयज्ञाने सोऽर्हत्त्वप्रतिपन्नकः अशैक्षो भवत्यर्हंश्चार्हत्त्व-
फलप्राप्तः । फलान्तरं प्रति पुनः शिक्षितव्याभावादशैक्षः । अत एव स
परार्थकरणार्थत्वात्¹, सर्वसरागपूजार्हत्त्वाच्चार्हन्निति सिद्धं भवति ।
अन्ये सप्त पूर्वोक्ताः पुद्गलाः शैक्षा इति ।
तस्य षड्गोत्रभेदात् षोढा भेदः । एवं दुःखाद्याकारसम्प्रयुक्तानां त्रयाणां
प्रत्येकं षोढा भेदः । तेषामपि प्रत्येकं मृदुमध्याधिमात्रेन्द्रियभेदाद् भेदः । यथा
चैषां प्रत्येकं गोत्रेन्द्रियभेदाः, एवं भावाग्निकसमुदयालम्बनानां चतुर्णां प्रत्येकं
षड्गोत्रभेदात् षोढा भेदः । इन्द्रियभेदाच्च त्रिधा भेदः । यथा चैषामष्टानां
गोत्रेन्द्रियभेदात् प्रत्येकं षोढा त्रिधा च भेदः, एवं सर्वेषामनागम्यसंगृहीतानां
ज्ञानाकारालम्बनभेदभिन्नानां यावदाकिञ्चन्यायतनसंगृहीतानां गोत्रेन्द्रियभेदाद्
भेदः । अनया वर्तन्या योज्यः ।
एवं वा योज्यः—प्रथमे पक्षे द्वापञ्चाशदनागम्यसंगृहीताः । यावद्विंशातिरा-
किञ्चन्यायतनसंगृहीता इत्यभिसमस्य चतुरशीत्युत्तराणि त्रीणि शतानि
वज्रोपमानां भवन्ति, तानि षड्गुणीकृत्य त्रिगुणीकृत्य च षट्सहस्राणि नवशतानि
द्वादशोत्तराणि भवन्ति । द्वितीयपक्षे यत्रादितोऽशीतिः, यावदाकिञ्चन्यायतने
चतुर्विंशतिरिति एकपिण्डतः षट्सप्तत्युत्तराणि पञ्चशतानि भवन्ति । गोत्रेन्द्रिय-
भेदात् षड्गुणीकृत्य त्रिगुणीकृत्य च दशसहस्राणि अष्टषष्ट्युत्तराणि च त्रीणि
शतानि वज्रोपमानां भवन्तीति ॥ ४४ ॥
अत एव तत्क्षयज्ञानमिति । कुतः ? इत्याह—सर्वास्रवक्षयप्राप्तिसहजत्वात्
प्रथमत इति । यस्मात् सर्वास्रवक्षयप्राप्त्या सह जातं तत्प्रथमतो ज्ञानम् ।
तस्मात् क्षयज्ञानमित्युच्यते; मध्यमपदलोपात् । नैरूक्तिविधानतो वा । सर्वग्रहणं
स्रोतआपन्नादिज्ञानविशेषणार्थम् । प्रथमतोग्रहणमनुत्पादज्ञानादिविशेषणार्थम् ।
सङ्केतापेक्षया हि शब्दप्रवृत्तिः । अत एव स इति । स्वार्थपरिसमाप्तेः । स
१. परमार्थ०-का० ।