सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] षष्ठं कोशस्थानम् ६४६
वाहिमार्गत्वात् । सोपधिशेषनिर्वाणेन । सोऽपि निरुपधिशेषनिर्वाणेनेत्यपरे¹ ।
न, आयुरुत्सर्गावशित्वात् ।
३. साभिसंस्कारपरिनिर्वायी किल उपपद्याप्रतिप्रस्रब्धप्रयोगः
साभिसंस्कारं परिनिर्वाति; अभियुक्तवाहिमार्गत्वात् ।
४. अनभिसंस्कारपरिनिर्वायी त्वनभिसंस्कारेण; अभियोगवाहिमार्गाभावात् ।
मार्गो अस्येति वाहिमार्गः । कथं मार्गो वाही ? विनाभिसंस्कारेण सम्मुखी-
भावात् । अभियुक्तश्चासौ वाहिमार्गश्चाभियुक्तवाहिमार्गः, तद्भावः, तस्मात् ।
उत्पन्नमात्रो न चिरात् परिनिर्वाति । सोपधिशेषेण निर्वाणेनेति । निर्वाणद्वैविध्याद्
विशिनष्टि—सोपधिशेषनिर्वाणेन परिनिर्वाति । सर्वास्रवक्षयं करोतीत्यर्थः ।
सोऽपि निरुपधिशेषनिर्वाणेनेति । न केवलमन्तरापरिनिर्वायी निरुपधिशेष-
परिनिर्वाणेन परिनिर्वात्यर्हत्त्वं प्राप्यायुरपरिसमाप्य, उपपद्यपरिनिर्वाय्यपि
तत्सदृश इत्यपरे । न । आयुरुत्सर्गावशित्वात् । नैतदेवम्, सोऽपि निरुपधिशेष-
परिनिर्वाणेनेति । कस्मात् ? आयुरुत्सर्गावशित्वात् । आयुष उत्सर्गे तस्या-
वशित्वात् । कस्मात् पुनरस्यात्रावशित्वम् ? यत्प्रान्तकोटिकचतुर्थध्यानलाभिन
आयुरुत्सर्गावशित्वम्, तच्च प्रान्तकोटिकं ध्यानं मनुष्येष्वेव त्रिषु द्वीपेषूत्पाद्यते ।
स च रूपधातुपपन्न इति । किमन्तरापरिनिर्वायिणोऽस्त्यायुरुत्सर्गावशित्वम् ?
यत एवमसौ निरुपधिशेषपरिनिर्वाणेन परिनिर्वाति, तस्यापि वशित्वं नास्ति ।
अन्तराभावावस्थानाय तु तादृशं कर्म नास्ति, यादृशमुपपद्यपरिनिर्वायिण इति
अतोऽन्तरापरिनिर्वायी शीघ्रं परिनिर्वाति । उपपद्यपरिनिर्वायी तु यावदायुः
स्थित्वा परिनिर्वातीत्युपपद्यपरिनिर्वाय्येव सोपधिशेषनिर्वाणेन परिनिर्वाती-
त्युच्यते ।
साभिसंस्कारपरिनिर्वायी किलेति । किलशब्दो वैभाषिकमतोद्योतकः । स्वमतं हि
सूत्रानुसारेण पश्चाद् वक्ष्यते। अप्रतिप्रस्रब्धप्रयोग इति । पूर्वप्रयोगवेगेनानिरा-
कृतप्रयोग इत्यर्थः । साभिसंस्कारम् सप्रयत्नम् । अभियुक्तवाहिमार्गत्वादिति ।
अभियुक्तत्वात्, अवाहिमार्गत्वाच्च तस्य योगिनः । अत एवासौ साभिसंस्कार-
परिनिर्वायी सिध्यति ।
अनभिसंस्कारेणेति । पूर्वविपर्ययेण । प्रयोगस्य प्रतिप्रस्रब्धत्वात् ।
अभियोगवाहिमार्गाभावादिति । अभियोगस्य वीर्यस्याभावात्, वाहिमार्गस्य
१. निरुपधिशेषेणेत्य०--का० ।
अभि० को० ३ : १३

६५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
संस्कृतासंस्कृतालम्बनमार्गनिर्वाणादित्यपरे। तन्न; अतिप्रसङ्गात्।
सूत्रे त्वनभिसंस्कारपरिनिर्वायी पूर्वं पठ्यते। तथैव¹ युज्यते; वाह्यवाहि-
मार्गयोरनभिसंस्काराभिसंस्कारसाध्यत्वादयत्नयत्नप्राप्तितः। उपपद्यपरिनिर्वायिणस्तु
वाहितरोऽधिमात्रतरश्च मार्गः, मृदुतराश्चानुशया इति।
चाभावादित्यर्थः। तदेवमभियोगादिनानात्वात् परिनिर्वाणविशेष उक्तो भवति।
उपपद्यपरिनिर्वायिणो ह्युभयमस्ति—अभियोगश्च, वाही च मार्ग इति।
साभिसंस्कारपरिनिर्वायिणोऽभियोगोऽस्ति, न त्वस्य वाही मार्गः। अनभि-
संस्कारपरिनिर्वायिणस्तूभयमपि नास्ति—नाभियोगः, न च वाही मार्ग इति।
संस्कृतासंस्कृतालम्बनमार्गपरिनिर्वाणादिति। संस्कृतं संस्कार इत्येकोऽर्थः।
एवमसंस्कृतम् असंस्कार इति। संस्कारालम्बनेन मार्गेण दुःखसमुदयमार्गा-
लम्बनेन मार्गेण यः क्लेशान् प्रजहाति, स साभिसंस्कारपरिनिर्वायी।
योऽसंस्कारालम्बनेन निरोधालम्बनेन, सोऽनभिसंस्कारपरिनिर्वायीति।
तन्न; अतिप्रसङ्गादिति। तन्नु नैवम्। कस्मात्? अतिप्रसङ्गात्।
अन्तरापपद्यपरिनिर्वायिनोरपि संस्कृतासंस्कृतालम्बनमार्गपरिनिर्वाणात् प्रत्येकं
साभिसंस्काराभिसंस्कारपरिनिर्वायित्वप्रसङ्गः। तत्रस्थौ द्वावेव पुद्गलौ स्याताम्,
न पञ्चेति।
अनभिसंस्कारपरिनिर्वायी पूर्वं पठ्यत इति। साभिसंस्कारपरिनिर्वायिणः
पूर्वमयं पठ्यते—अनभिसंस्कारपरिनिर्वायी, साभिसंस्कारपरिनिर्वायीति।
तथैव युज्यत इति विस्तरः। अनभिसंस्कार-साभिसंस्कारपरिनिर्वायिणोर्यथा-
क्रमम्। वाह्यवाहिमार्गयोः पुद्गलयोः परिनिर्वाणस्यानभिसंस्कारसाध्यत्वात्
पूर्वस्य, अभिसंस्कारसाध्यत्वाच्चेतरस्य। कथं तथा साध्यत्वम्? इत्याह—अयत्न-
यत्नप्राप्तितस्तत्परिनिर्वाणस्य यथाक्रममित्येव।
अथ वाह्यवाहिमार्गयोरिति मार्गयोरेव ग्रहणम्, न पुद्गलयोरभिसम्बन्धः?
वाहिनो मार्गस्यानभिसंस्कारसाध्यत्वादवाहिनश्चाभिसंस्कारसाध्यत्वात्, अयत्न-
यत्नप्राप्तितः, अयत्नसम्मुखीभावतः पूर्वमार्गस्य, यत्नप्राप्तित इतरस्येति
तदेवमनभिसंस्कारपरिनिर्वायी पूर्वं युज्यते। आह—यद्यनभिसंस्कारपरि-
निर्वाायिणो वाही मार्गः, अनभिसंस्कारसाध्यत्वादुपपद्यपरिनिर्वायिणोऽपि वाही
मार्ग इति कस्तयोर्विशेष इति? अत उच्यते—उपपद्यपरिनिर्वायिणस्तु मार्गो
१. तथैव च—का०।

निर्देशः ] षष्ठं कोशस्थानम् ६५१
५. ऊर्ध्वस्रोता यस्योर्ध्वं गतिर्न तत्रैव परिनिर्वाणं यत्रोपपन्नः । स्रोतो
गतिरित्येकोऽर्थः ।
सध्याने व्यवकीर्णेऽकनिष्ठगः ॥ ३७ ॥
ऊर्ध्वस्रोता द्विविधः—हेतुतः, फलतश्च । हेतुतो व्यवकीर्णान्यवकीर्णध्यान-
त्वात् । फलतोऽकनिष्ठभवाग्रपरमत्वात् । तत्र येन ध्यानं व्यवकीर्णं सोऽकनिष्ठान्
गत्वा परिनिर्वाति ॥ ३७ ॥
स प्लुतोऽर्धप्लुतः सर्वच्युतश्च,
स पुनरेषोऽकनिष्ठपरम ऊर्ध्वस्रोतास्त्रिविधः, प्लुतादिभेदात् ।
१. तत्र प्लुतो नाम य इह ध्यानानि व्यवकीर्य ध्यानत्रयात्¹ परिहीणः
प्रथमं ध्यानमास्वाद्य ब्रह्मकायिकेषूपपन्नः पूर्वाभ्यासवशाच्चतुर्थं ध्यानं व्यवकीर्य
तस्मात् प्रच्युतोऽकनिष्ठेषूपपद्यते । एष हि मध्यानिमज्जनात् प्लुतः ।
वाहितरो जिततरः । नानभिसंस्कारपरिनिर्वाणिनः । एवमधिमात्रतरो
हेतूपचयतः । मृदुतराश्चानुशयाः मार्गाधिमात्रतरत्वेन क्षपितत्वात् ।
ऊर्ध्वस्रोता इति । ऊर्ध्वस्रोतो गतिरस्येति ऊर्ध्वस्रोताः । यत्र ऊर्ध्वमिति
पठ्यते—"ऊर्ध्वं दमाच्च देहाच्च" इति, ऊर्ध्वदमिकः ऊर्ध्वदेहिक इति ।
तत्प्रत्ययसन्नियोगेनोर्ध्वशब्दस्य मान्तोऽपि निपात्यत इति वेदितव्यम् । यथा
चिरशब्दस्य चिरन्तनमित्यूर्ध्वमिति निपातोऽस्तीत्यपरे । अकारान्तोऽपि
तूर्ध्वशब्दोऽस्त्येवेति न वार्यते ।
व्यवकीर्णान्यवकीर्णध्यानत्वादिति । मिश्रितामिश्रितध्यानत्वादित्यर्थः ।
अनास्रवेण सास्रवस्य ध्यानस्य मिश्रितत्वात् ॥ ३७ ॥
इह ध्यानानि व्यवकीर्य ध्यानत्रयात् परिहीयत इति । ध्यानव्यवकीर्णं
चतुर्थध्यानव्यवकिरणपूर्वकम् । "आकीर्यते चतुर्थं प्राग्" (अभि० को० ६.४२)
इति वचनात् । चतुर्थमेव हि ध्यानमादितो व्यवकिरणे समर्थम्, नान्यत् ।
चतुर्थाच्च ध्यानादपरिहीणस्य प्रथमादिषु ध्यानेषूपपत्तिर्नास्तीत्यत उच्यते—
ध्यानत्रयात् परिहीण इति । कथं च परिहीणः ? इत्याह—प्रथमं ध्यान-
मास्वाद्येति । मध्यानिमज्जनात् । मध्येऽनिमज्जनात् ।
१. ध्यानचयात्—का० ।

६५२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
२. अर्धप्लुतो नाम यस्ततः शुद्धावासेषूपपद्य मध्यादेकमपि स्थानान्तरं
विलङ्घ्याकनिष्ठान् प्रविशति । महाब्रह्मस्वार्यो नोपपद्यते; दृष्टिस्थानत्वाद्, एकनाय-
कत्वाच्चेति¹ ।
३. सर्वच्युतो नाम यः सर्वाणि स्थानान्तराणि संचर्याकनिष्ठान् प्रविशति ।
न च कदाचिदनागामी । तत्रैवोत्पत्त्यायतने द्वितीयं जन्माभिनिर्वर्तयति, विशेष-
गामित्वात् । एवं चास्य परिपूर्णमनागामित्वं भवति । यत्रोपपन्नस्ततस्तत्र²
चात्यन्तमनागमनात् ।
एवं तावद्ध्याने व्यवकीर्णेऽकनिष्ठगो वेदितव्यः । ततः—
अन्यो भवाग्रगः ।
अव्यवकीर्णध्यान ऊर्ध्वस्रोता भवाग्रनिष्ठो भवति । स हि समापत्त्यन्त-
राण्यास्वादयन् सर्वस्थानान्तरेषूपपद्याप्रविश्यैव शुद्धावासाना रूप्यक्रमोत्पत्तितो
भवाग्रं गत्वा परिनिर्वाति । शमथचरितो ह्येषः । पूर्वकस्तु विपश्यनाचरितः ।
—————————————————————————————————————————————
अर्धप्लुतो नामेति विस्तरः । य एकमपि स्थानान्तरं विलङ्घ्य शुद्धावासेषू-
पपद्याकनिष्ठान् प्रविशतीत्येवं वाक्यभिसम्बन्धः । दृष्टिस्थानत्वादिति । महाब्रह्मणां
प्रथमोपपन्नानां च महाब्रह्मणि निर्मायकायाभिमानतः । एकनायकत्वाच्चेति ।
किम् ? महाब्रह्मस्वार्यो नोपपद्यते । आर्यस्य हि प्रभाववतस्तत्रोत्पादे
सद्युभयनायकत्वं स्यात् । निःसपत्नेन च कर्मणा तत्राधिपत्यम् । अतः
सपत्नं न भवतीति ।
सर्वाणि स्थानान्तराणीति । ब्रह्मकायिकेभ्यश्च्युत्वा ब्रह्मपुरोहितादीनि
सुदर्शनान्तानि चतुर्दशस्थानान्तराणि सञ्चार्याकनिष्ठान् प्रविशति । यत्रोपपन्न-
स्ततस्तत्र चात्यन्तमनागमनादिति । यत्रोपपन्नस्तद्यथा—प्रथमध्याने,
ततोऽत्यन्तमनागमनात् कामधातौ । तथा यत्रोपपन्नस्तत्र चात्यन्तमनागमनात् ।
तत्र च पुनः प्रथमे ध्यानेऽत्यन्तमनागमनात् । परिपूर्णमनागामित्वम् , पुनस्तत्र
द्वितीयजन्माकरणात् ।
शमथचरितो ह्येष इति । य एष भवाग्रपरमः, स समाधिप्रियः । आरूप्येषु
च समाधिरतिप्रशान्तः । तस्मादयमारूप्यान् प्रविशति । पूर्वकस्तु
विपश्यनाचरित इति । योऽसावकनिष्ठपरम उक्तः, स प्रज्ञाप्रियः शुद्धावासान्
—————————————————————————————————————————————
१. ० नामकत्वा०—का० । २. ० न्नस्तस्याद्यस्तत्र—का० ।

निर्देशः ] षष्ठं कोशस्थानम् ६५३
अन्तरा¹ परिनिर्वाणमूर्ध्वस्रोतसो युज्यमानं पश्यामः । अकनिष्ठभवाग्रपरमत्वं तु
परेण गत्यभावात् । यथा सप्तकृत्वःपरमत्वं स्रोतआपन्नस्येति ।
इमे तावत् पञ्च रूपोपगा अनागामिनः ।
आरूप्यगश्चतुर्द्धान्यः,
अन्य आरूप्यगोऽनागामी, यो रूपवीतराग इतश्च्युत्वारूप्येषूपपद्यते ।
स पुनश्चतुर्विधः, उपपद्यादिपरिनिर्वायिभेदात् ।
त एते षडनागामिनो भवन्ति ।
ततः—
इह निर्वाण्यकोऽपरः ॥ ३८ ॥
इहैव जन्मन्त्यपरः परिनिर्वाति । स दृष्टधर्मपरिनिर्वायी सप्तमः ॥ ३८ ॥
पुनस्त्रींस्त्रिविधान् कृत्वा नव रूपोपगाः स्मृताः ।
पुनस्त्रयाणामनागामिनां त्रिधा भेदाद् रूपोपगा नवागामिनो भवन्ति ।
कतमेषां त्रयाणाम् ? अन्तरॊपपद्यपरिनिर्वायिणोरूर्ध्वस्रोतसश्च ।
प्रविशति । अन्तरापरिनिर्वाणमिति विस्तरः । नैतत् प्रति शास्त्रकारैर्निश्चितम्,
न च प्रतिषिद्धम्, अतोऽप्रतिषेधादूर्ध्वस्रोतसोऽकनिष्ठपरमस्य भवाग्रपरमस्य
चान्तरा अकनिष्ठां भवाग्रं च प्रविश्य परिनिर्वाणं युज्यमानं पश्यामः । सम्भवं तु
पश्याम इत्यर्थः । ननु चाकनिष्ठपरमो भवाग्रपरम इति चोक्तम् ? अत आह—
अकनिष्ठभवाग्रपरमत्वं तु परेण गत्यभावाद् । अकनिष्ठेभ्यो भवाग्राच्चोर्ध्वं
गत्यभावात् । तद्यथा स्रोतआपन्नस्य सप्तकृत्वः परमत्वम् । न हि तस्य द्वौ त्रीन्
वा भवानभिनिर्वर्त्य परिनिर्वाणं न सम्भवतीति । ततः परेण त्वष्टमं भवं
नाभिनिर्वर्तयतीति सप्तकृत्वः परम उक्त इति ।
स पुनश्चतुर्विध इति । अन्तरापरिनिर्वाय्यभावान्न पञ्चविधः। एते षडनागामिनो
भवन्तीति । अन्तरापरिनिर्वायी, उपपद्यपरिनिर्वायी, साभिसंस्कारपरिनिर्वायी,
अनभिसंस्कारपरिनिर्वायी, ऊर्ध्वस्रोतः, आरूप्यगश्च । षष्ठश्चतुर्धाभेदमवि-
गणय्येति ।
दृष्टधर्मपरिनिर्वायी । दृष्टजन्मपरिनिर्वायीत्यर्थः ॥ ३८ ॥
कतमेषां² त्रयाणामिति विस्तरः । त्रयोऽनागामिन इति निर्भिद्य नोक्ता
१. अन्तरापि तु—का० । २. कथमेषां—जा० ।

६५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [मार्गपुद्गल-
कथं त्रिधा भेदात् ? अन्तरापरिनिर्वायिणस्तावदाश्वनाशुचिरपरि-
निर्वाणात् दृष्टान्तत्रयेण । उपपद्यपरिनिर्वायिण उपपद्याभिसंस्कारानभिसंस्कार-
परिनिर्वाणात् । सर्वे ह्येते उपपद्यपरिनिर्वाणादुपपद्यपरिनिर्वायिणः¹। ऊर्ध्वस्रोतसः
प्लुतादिभेदात् । सर्वेषां वा त्रयाणामाश्वनाशुचिरपरिनिर्वाणादिति त्रित्वम् ।
इत्यनवबुध्यमान इतरः पृच्छति । आचार्योऽपि अर्थापत्त्या उक्ता एत इति
पश्यन् विवृणोति-अन्तरोपपद्यपरिनिर्वायिनोः । अन्तरापरिनिर्वाणः उपपद्यपरि-
निर्वाणिश्चेत्यर्थः । 'ऊर्ध्वस्रोतसश्च तृतीयस्येति । आश्वनाशुचिरपरिनिर्वाणात्
दृष्टान्तत्रयेणेति । आशुपरिनिर्वायी अनाशुपरिनिर्वायी, चिरपरिनिर्वायी च
दृष्टान्तत्रयेण योजयितव्याः । तद्यथा परीत्तः शकलिकाग्निरभिनिर्वर्तमान एव
निर्वायात्, एवं प्रथमो य आशुपरिनिर्वायी । तद्यथाऽयोगुडानां वायस्फालानां वा
दीप्ताग्निसम्प्रतप्तानां अयोघनेन हन्यमानानां अयःप्रपाटिकोत्पतत्येव निर्वा-
यात्, एवं द्वितीयोऽनाशु परिनिर्वायी । तद्यथाऽयोगुडानामिति पूर्ववद्यावद्यः-
प्रपाटिकोत्प्लुत्य पृथिव्यामपतितैव निर्वायात्, एवं तृतीयो यश्चिरपरिनिर्वायी ।
एतच्च सूत्रं विस्तरेण पुरस्ताल्लिखितमिति² न पुनर्लिख्यते । उपपद्याभि-
संस्कारानभिसंस्कारपरिनिर्वाणादिति । उपपद्य परिनिर्वाणाद्, अभिसंस्कारेण,
अनभिसंस्कारेण परिनिर्वाणात् त्रिधाभेदान्नवानागामिनो भवन्तीति सम्बन्धः ।
उपपद्यपरिनिर्वायी य उपपन्नमात्रः परिनिर्वाति, न त्वभिसंस्कारेणानभिसंस्कारेण
वा परिनिर्वाति । साभिसंस्कारपरिनिर्वायी तु नोपपद्यैव परिनिर्वाति, किं तर्हि ?
अभिसंस्कारेणाप्रतिप्रस्रब्धस्य पूर्वाभिसंस्कारस्य सामर्थ्यतः परिनिर्वाति । अस्य
हि यद्यपि वाही मार्गोऽस्ति, अभियोगेन तु परिनिर्वाति; उपपद्यपरिनिर्वायी तु
नाभियोगेनेति विशेषः । अनभिसंस्कारपरिनिर्वायी पुनः प्रतिप्रस्रब्धपूर्वाभि-
संस्कारोऽभिसंस्कारमनन्तरेण परिनिर्वातीत्ययमेव एषां विशेषोऽवगन्तव्यः ।
यथा तु साभिसंस्कारानभिसंस्कारपरिनिर्वायिणावप्युपपद्यपरिनिर्वाय्याख्यां
लभेते, तथा दर्शयन्नाह— सर्वे ह्येत उपपद्यपरिनिर्वाणादुपपद्यपरिनिर्वायिण इति ।
· प्लुतादिभेदादिति । प्लुतार्धप्लुतसर्वच्युतभेदादित्यर्थः । सर्वेषां वा त्रयाणामिति ।
अन्तरोपपद्यपरिनिर्वाय्यूर्ध्वस्रोतसामाश्वनाशुचिरपरिनिर्वाणात् त्रिधा भेदः ।
कश्चिदन्तरापरिनिर्वायी आशुपरिनिर्वायी भवति । एवमुपपद्यपरिनिर्वायी,
ऊर्ध्वस्रोताश्चेति । अस्माच्च त्रिधाभेदान्नवानागामिनो भवन्तीति स एव सम्बन्धो
वाच्यः ।
१. त्रयोऽप्युपपन्न०-का० । २. द्र०-अस्यैव ग्रन्थस्य ४११-४१३ पृ० ।

निर्देशः ] षष्ठं कोशस्थानम् ६५५
तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषात् ॥ ३९ ॥
तेषां पुनस्त्रयाणां नवानां चानागामिनां कर्मक्लेशेन्द्रियविशेषाद् विशेषः ।
त्रयाणां तावदभिनिर्वृत्त्युपपद्यापरपर्यायवेदनीयकर्मोपचितत्वाद्यथाक्रमं मृदुमध्याधि-
मात्रक्लेशसमुदाचारत्वाद् अधिमात्रमध्यमृद्विन्द्रियत्वाच्च ।
तेषामपि¹ प्रत्येकमत एव यथायोगं विशेषः । प्रथमयोस्त्रिकयोः क्लेशेन्द्रिय-
विशेषात् पूर्ववत् । पश्चिमस्य त्रिकस्यापरपर्यायवेदनीयकर्मविशेषाच्चेति ।
त एते नवप्रकारक्लेशेन्द्रियत्वान्नवानगामिनो भवन्ति ॥ ३९ ॥
“तद्विशेषः पुनः” इति विस्तरः । तेषां पुनस्त्रयाणामन्तरोपपद्यपरि-
निर्वा​यिणोः, ऊर्ध्वस्रोतसश्च । नवानां चैषामेव प्रत्येकं त्रिधाभेदाद् यथावर्णिताद्
विशेषः । कर्मक्लेशेन्द्रियविशेषात् । कर्मणः क्लेशस्येन्द्रियस्य च विशेषाद्
भवति । कथम् ? इत्याह– त्रयाणामिति विस्तरः । अभिनिर्वृत्तिः । अन्तराभावः ।
अभिनिर्वृत्तिवेदनीयस्य कर्मणा उपचितत्वादन्तरापरिनिर्वायी, उपपद्यवेदनीयस्य
कर्मणा उपचितत्वादुपपद्यपरिनिर्वायी, अपरपर्यायवेदनीयस्य कर्मणः उपचितत्वा-
दूर्ध्वस्रोता इत्येवं तावत्तेषां त्रयाणां कर्मविशेषाद् विशेषः । मृदुमध्याधिमात्र-
क्लेशसमुदाचारत्वाद् यथाक्रममेषामेव क्लेशविशेषाद् विशेषः । अधिमात्रमध्य-
मृद्विन्द्रियत्वाच्च । यथाक्रममेषामेवेन्द्रियविशेषाद्विशेष इति ।
तेषामपि प्रत्येकमत एव यथायोगं विशेष इति । तेषामपि प्रत्येकं भिन्नानां
नवानामित्यर्थः । अत एव कर्मादिविशेषात् यथायोगं न यथाक्रमम्, विशेषोऽ-
वगन्तव्यः । कथमित्याह — प्रथमयोस्त्रिकयोरिति विस्तरः । यच्चान्तरापरिनिर्वा-
यिणां त्रिकम्, यच्चोपपद्यपरिनिर्वायिणाम् , तयोस्त्रिकयोः क्लेशेन्द्रियविशेषात् ,
मृदुमध्याधिमात्रक्लेशसमुदाचारत्वात् , अधिमात्रमध्यमृद्विन्द्रियत्वाच्च यथा-
क्रमं विशेषः; न तु कर्मविशेषात् । यस्मात् प्रथमस्य त्रिकस्याभिनिर्वृत्तिवेदनीयं
कर्म तुल्यम् , द्वितीयस्य चोपपद्यवेदनीयं कर्म तुल्यमिति । पश्चिमस्य त्रिकस्या-
परपर्यायवेदनीयकर्मविशेषाच्च विशेषः। प्लुतादीनां ह्यपरपर्यायवेदनीयं कर्म
भिन्नमित्यतोऽपरपर्यायवेदनीयकर्मविशेषात् , क्लेशेन्द्रियविशेषाच्च । चका-
रानुकृष्टत्वात् विशेषो मृदुमध्याधिमात्रक्लेशसमुदाचारत्वात्, अधिमात्रमध्य-
मृद्विन्द्रियत्वाच्च । यथाक्रममित्यर्थः । त एते नवप्रकारक्लेशेन्द्रियत्वादिति । त
१. तेषामपि नवानां—का० ।

६५६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिताः ?
ऊर्ध्वस्रोतुरभेदेन सप्त सद्गतयो मताः ।
ऊर्ध्वं स्रवणधर्मा ऊर्ध्वस्रोताः । तस्याभेदनिर्देशात् सप्त सत्पुरुषगतयः
सूत्रेऽभिहिताः ।
एते नवानागामिनो नवप्रकारकलेशत्वात्, नवप्रकारेन्द्रियत्वाच्च नवानागामिनो
भवन्ति । कर्मणोऽग्रहणमव्यापित्वात् । न हि प्रथमयोस्त्रिकयोः कर्मविशेषाद्
विशेषोऽस्तीति कथं पुनरेते नवप्रकारकलेशा भवन्ति ? इह क्लेशस्त्रिप्रकारः-
मृदुमध्याधिमात्र इति । मृदुरन्तरापरिनिर्वायिणाम् , मध्य उपपद्यपरिनिर्वा-
यिणाम्, अधिमात्र ऊर्ध्वस्रोतसाम् । तत्र प्रथमोऽन्तरापरिनिर्वायी
मृदुमृदुक्लेशः, द्वितीयो मृदुमध्यक्लेशः, तृतीयो मृद्वधिमात्रक्लेशः ।
उपपद्यपरिनिर्वायिणां प्रथम उपपद्यपरिनिर्वायी मध्यमृदुक्लेशः,
द्वितीयः साभिसंस्कारपरिनिर्वायी मध्यममध्यक्लेशः, तृतीयोऽनभिसंस्कारपरि-
निर्वायी मध्याधिमात्रक्लेशः । ऊर्ध्वस्रोतसामपि प्लुतोऽधिमात्रमृदुक्लेशः,
अर्धप्लुतोऽधिमात्रमध्यक्लेशः, सर्वस्थानच्युतोऽधिमात्राधिमात्रक्लेश इति । कथं
नवप्रकारेन्द्रिया भवन्ति ? तथैवेन्द्रियमपि त्रिप्रकारम् - अधिमात्रं मध्यं मृदु
चेति । अधिमात्रमन्तरापरिनिर्वायिणाम्, मध्यमुपपद्यपरिनिर्वायिणाम्, मृदूर्ध्व-
स्रोतसाम् । तत्र प्रथमोऽन्तरापरिनिर्वायी अधिमात्राधिमात्रेन्द्रियः, द्वितीयोऽ-
धिमात्रमध्येन्द्रियः, तृतीयोऽधिमात्रमृद्विन्द्रियः । उपपद्यपरिनिर्वायिणां
प्रथममुपपद्यपरिनिर्वायी मध्याधिमात्रेन्द्रियः, साभिसंस्कारपरिनिर्वायी
मध्यमध्येन्द्रियः, अनभिसंस्कारपरिनिर्वायी मध्यमृद्विन्द्रियः । ऊर्ध्वस्रोतसामपि
प्लुतो मृद्वधिमात्रेन्द्रियः, अर्धप्लुतो मृदुमध्येन्द्रियः, सर्वस्थानच्युतो
मृदुमृद्विन्द्रिय इति ॥ ३६ ॥
कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिता इति । 'सप्त वोऽहं भिक्षवः
सत्पुरुषगतीर्देशयिष्यामि । अनुपादाय च परिनिर्वाणम्' - इत्येतत् सर्वं सूत्रं
“गतिसूत्रतः१” इत्यत्र प्रदेशे लिखितमिति न पुनर्लिख्यते । अत्र च सूत्रे सप्त
सत्पुरुषगतयो देशिताः- त्रयोऽन्तरापरिनिर्वायिणः, त्रय उपपद्यपरिनिर्वायिण
इति षट् गतयः, ऊर्ध्वस्रोतोगतिश्च सप्तमी इति ।
ऊर्ध्वं स्रवणधर्मेति । कृदन्तमेतच्छब्दरूपमिति । विधार्थमेतच्छब्दरूपमिति
दर्शयति । ऊर्ध्वमिति च क्रियाविशेषणमिति । तस्याभेदनिर्देशादिति ।
तस्योर्ध्वस्रोतसः प्लुतादिभेदानिर्देशादित्यर्थः । विनेयाशयापेक्षो हि सूत्रनिर्देशः ।
१. द्र०-पृ० ४११-४१३.

निर्देशः ] षष्ठं कोशस्थानम् ६५७
कस्मात् पुनरेता एव सत्पुरुषगतयः, नान्याः शैक्षगतयः ? एता हि गतयो
येषाम्, तेषां सति¹ च² कर्मणि वृत्तिः कुशले, असत्यवृत्तिरकुशले । एताश्च
गतीर्गतानां न पुनः प्रत्यागतिरस्ति । न त्वेतद्यथोक्तमन्यत्रास्ति । अतः—
सदसद्वृत्त्यवृत्तिम्यां गताप्रत्यागतेश्च ताः ॥ ४० ॥
सप्त सत्पुरुषगतयो नान्या इति । यत्तर्हि सूत्र एवोक्तम्—"स कतमः ?
शैक्ष्यः सम्यग्दृष्ट्या समन्वागतः" इति विस्तरः ।
अन्येषामप्यस्ति पार्यायिकं सत्पुरुषत्वम् । पञ्चविधस्य पापस्यात्यन्तमकरण-
संवरप्रतिलम्भात्, प्रायेणाकुशलप्रहाणाच्च । येषां तु निष्पर्यायेण तेषामि-
हाधिकारः ॥ ४० ॥
नान्याः शैक्षा गतय इति । न स्रोतआपन्नसकृदागामिगतय इत्यर्थः । गतिः,
उपपत्तिः, संप्ररायः—इत्येते सूत्रे पर्याया उच्यन्ते । तेषामित्यनागामिनाम् ।
सति च कर्मणि वृत्तिः । प्राणातिपाताद्यकरणात् । असति चावृत्तिः । अब्रह्मचर्याद्य-
करणात् । अकुशलेन हि चित्तेनाब्रह्मचर्यादिकरणमिति । तेषां तु वीतरागाणां
सत्येव कर्मणि वृत्तिः, नासति; प्रहीणाकुशलत्वात् । न पुनः प्रत्यागतिरिति ।
यासु गतिषूपपन्नाः, तत्रतत्र चैषामत्यन्तमनागमनमित्यर्थः । न त्वेतद्यथोक्तम-
न्यत्रास्तीति । यदेतत् सत्येव वृत्तिरसति चावृत्तिरेवापुनःप्रत्यागमनं च, तदेतत्
स्रोतआपन्ने सकृदागामिनि च नास्तीति ।
अन्येषामपीति । स्रोतआपन्नसकृदागामिनामपीत्यर्थः । पार्यायिकमिति ।
पर्याये भवं पार्यायिकम् । केनचित् प्रकारेण भवतीत्यर्थः । कथम् ? इत्याह—
पञ्चविधस्य पापस्यात्यन्तमकरणसंवरप्रतिलम्भादिति । पञ्चविधस्य पापस्य प्राणाति-
पातादत्तादानकाममिथ्याचारमृषावादमद्यपानलक्षणस्याकरणेनाक्रियया संवरः
संवरणम्; तस्य प्रतिलम्भात् । न ह्यार्या जन्मान्तरेऽप्येतत् पञ्चविधं पापमध्या-
चरन्ति । अकरणसंवरवचनम् ; समादानसंवरस्यानावश्यकत्वात् । प्रायेणेति ।
दर्शनप्रहातव्यानामकुशलानां सर्वेषामत्यन्तप्रहाणात् । भावनाप्रहातव्यानां
च कामावचराणां केषांचित् सम्भवतः । येषामिति विस्तरः । येषां तु निःपर्यायेण
न प्रकारान्तरेण स्रोतआपन्नसकृदागामिवत् सत्पुरुषत्वम् । किं तर्हि ? सर्वस्य
पापस्यात्यन्तमकरणसंवरप्रतिलम्भात् । सर्वेषां चाकुशलानां दर्शनप्रहातव्यानां
क्लेशानां प्रहाणात् । भावनाप्रहातव्यानां च कामावचराणां सर्वेषां नवप्रकाराणा-
१-१. सत्येव---का० ।

६५८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
किं पुन परिवृत्तजन्मनोऽप्यनागामिन एष भेदोऽस्ति ? यस्मात्
न परावृत्तजन्मार्यः कामे धात्वन्तरोपगः ।
कामधातौ परावृत्तजन्मान्तर आर्यो न धात्वन्तरं गच्छति । अनागामिफलं
प्राप्य तत्रैव जन्मनि परिनिर्वाणात् । रूपधातौ तु परावृत्तजन्मा¹ कदाचिदारूप्यान्
प्रविशति । य ऊर्ध्वस्रोता भवाग्रपरमः ।
यत्तर्हि शक्रेणोक्तम्—"ये ते देवा अकनिष्ठा इति विश्रुताः, अन्ते मे
हीयमानस्य तत्रोपपत्तिर्भविष्यति" ? अभिधर्मलक्षणानभिज्ञत्वादिति² वैभा-
षिकाः । भगवतापि अनिवारणम् , संहर्षणीयत्वात् इति ।
मपि प्रहाणात् । तेषां सत्पुरुषाणामनागामिनामिह सूत्रेऽधिकारः । सप्त
सत्पुरुषगतय इत्यतोऽन्येषां पार्यायिकं सत्पुरुषत्वं न प्रतिषिध्यते ॥ ४० ॥
किं पुनः परिवृत्तजन्मनोऽप्यनागामिन एष भेदोऽस्ति । अन्तरापरिनिर्वायी-
त्येवमादिकः । परिवृत्तजन्मानागामीयः प्रथमे जन्मनि स्रोतआपत्तिफलं
सकृदागामिफलं वा प्राप्य द्वितीये जन्मन्यनागामी भवति । काम इति
विशेषणम् । यस्माद् रूपधातौ परिवृत्तजन्मा कदाचिदारूप्यान् प्रविशतीति ।
तत्रैव जन्मनि परिनिर्वाणादिति । कामधातौ दुःखबहुत्वेनास्य तीव्रसंवे-
गत्वात् ।
यत्तर्हीति विस्तरः । शक्रेणोक्तम्—'इतश्च्युतोऽहं मनुष्येषूपपन्नो यद्यर्हत्त्वं
प्राप्य न परिनिर्वामि । ये ते देवा अकनिष्ठा इति विश्रुताः, अन्ते मे हीयमानस्य
तत्रोपपत्तिर्भविष्यति' इति । स हि देवेष्वेव स्रोतआपन्नो मनुष्याँश्चागत्य
परिनिर्वास्यामीति वचनात् परिवृत्तजन्मा भवेत् । अन्ते निकायसभागावसाने
मम हीयमानस्यार्हत्त्वानवाप्तिपरिहाण्या परिहीयमाणस्य, तत्राकनिष्ठेषूप-
पत्तिर्भविष्यतीति प्रार्थनाDefault/प्रार्थनावचनाद् धात्वन्तरगमनमस्तीति गम्यते, तत् कथं
कामधातौ परिवृत्तजन्मान्तर आर्यो धात्वन्तरं न गच्छतीत्युच्यत इति ? सूत्रार्थो
दृश्यते । ब्रूयास्तम् । धर्मलक्षणानभिज्ञत्वाच्छक्रेणैवमुक्तम् , तस्माद्दोष इति ।
भगवता तर्ह्येवं शृण्वता कस्मादसौ न निवारितः—मा त्वमेव वोच इति ?
अत उच्यते—भगवताप्यनिवारणम् , संहर्षणीयत्वादिति । कामदुःखपरित्यागा-
भिलाषेण संहर्षणीयमित्यभिप्रायः ।
च्युतिनिमित्तोपपत्तिदुःखोद्विग्नस्य संहर्षणीयत्वादित्याचार्यसङ्घभद्रः ।
१. परिवृत्त०—जा० । २. अभिधर्मानभि०—का० ।

निर्देशः ] षष्ठं कोशस्थानम् ६५६
स चोर्ध्वजश्च नैवाक्षसञ्चारपरिहाणिभाक् ॥ ४१ ॥
स च कामधातौ परिवृत्तजन्मा ऊर्ध्वधातूपपन्नश्चार्यो नैवेन्द्रियाणि सञ्चरति,
नापि कथञ्चित् परिहीयते ।
किं पुनः कारणं परिवृत्तजन्मान्तरस्यार्यस्य रूपारूप्यप्रवेशेनेन्द्रियसञ्चार-
परिहाण्यो नेष्यन्ते ? यस्मान्न सन्ति ।
कस्मान्न सन्ति ? जन्मान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वाद्, आश्रय-
विशेषालाभाच्च ।
अथ कस्मादवीतरागः शैक्षो नान्तराये परिनिर्वायी भवति ? मार्गस्याजित-
त्वादसम्मुखीभावतः, अनुशयानां च नातिमन्दत्वात् । दुःसमतिक्रमत्वात् कामधातोरिति
वैभाषिकाः । बहु ह्यनेन कर्तव्यं भवति—अकुशलाब्याकृतक्लेशप्रहाणम् ,
द्वित्रिश्रामण्यफलप्राप्तिः, त्रिधातुसमतिक्रमश्च । तच्चान्तराभवस्थो न शक्तः
कर्तुमिति ॥ ४१ ॥
इन्द्रियाणां परिपक्वतरत्वादिति । प्रज्ञादीनामिन्द्रियाणां निस्यन्दफलपुष्टि-
विशेषादित्यर्थः । आश्रयविशेषालाभाच्च । यस्माच्चाश्रयविशेषमनुपहतं
मार्गसम्मुखीभावाऽनुकूलं प्रतिलभते । दृश्यन्ते हि तीक्ष्णेन्द्रिया अपि सन्त
आश्रयवैगुण्याद् गुणेभ्यः परिहीयमाणा इत्यतो जन्मान्तरपरिवासेनेन्द्रियाणां
परिपक्वतरत्वादितीन्द्रियसञ्चारो नास्ति । आश्रयविशेषालाभाच्च परिहाणि-
र्नास्ति । अनेनैव जन्मान्तरपरिवासेन धात्वन्तरगमनं न भवतीति ।
मार्गस्याजितत्वादसम्मुखीभावत इति । यस्मान् मार्गस्याजितत्वादसम्मुखी-
भावः, तस्मात् कारणादवीतरागः शैक्षः स्रोतआपन्नः सकृदागामी च
नान्तरापरिनिर्वायी भवति । अनुशयानां च नातिमन्दत्वात् । यस्माच्चानुशया-
स्तस्य नातिमन्दाः, अतो नान्तरापरिनिर्वायी भवतीत्ययमाचार्यस्य परिहारः ।
वैभाषिकाणां कः परिहारः ? इत्याह—दुस्समतिक्रमत्वात् कामधातोरिति
वैभाषिका इति । कथम् ? इत्युच्यते—बहु ह्यनेन कर्तव्यं भवति अकुशलाऽव्याकृत-
क्लेशप्रहाणम् । अकुशलानां कामावचराणामव्याकृतानां च रूपारूप्यावचराणां
क्लेशानां प्रहाणमनेन कर्तव्यम् । वीतरागेण पुनः शैक्षेणाव्याकृतानामेव
प्रहाणमिति । द्वित्रिश्रामण्यफलप्राप्तिरिति । द्वे वा त्रीणि वा श्रामण्यानि

यदुक्तम्—"स ध्याने व्यवकीर्णेऽकनिष्ठगः" इति, अथ कतमद्ध्यानं
प्रथमतॊ व्यवकीर्यते ?
आकीर्यते चतुर्थं प्राक्,
स हि सर्वकर्मण्यः समाधिः ; सुखप्रतिपदामग्रत्वात्¹ । एवं च पुनः
व्यवकीर्यते—अर्हन्नागामी वा प्रवाहयुक्तमनास्रवं चतुर्थं ध्यानं समापद्यते ।
तस्माद्व्युत्थाय प्रवाहयुक्तं तदेव सास्रवं समापद्यते, पुनश्चानास्रवम् ।
एवं प्रवाहाप्रहाणेन² यदा किल द्वौ क्षणावनास्रवौ समापद्यते, द्वौ सास्रवौ,
पुनश्चानास्रवौ—अयं व्यवकिरणस्य प्रयोगः ।
निष्पत्तिक्षणमिश्रणात् ।
यदा त्वनास्रवस्य क्षणस्यानन्तरं सास्रवं सम्मुखीकरोति सास्रवस्यानास्रवम् ।
एवं सास्रवस्य क्षणस्यानास्रवाभ्यां मिश्रणात् व्यवकिरणं निष्पन्नं भवतीति
वैभाषिकाः ।
द्वौ हि क्षणावानन्तर्यमार्गसदृशौ, तृतीयो विमुक्तिमार्गसदृश इति एवं
फलानि प्राप्तव्यानि । सकृदागामिना द्वे श्रामण्यफले प्राप्तव्ये—अनागामिफलम्,
अर्हत्त्वफलं च । स्रोतआपन्ने त्रीणि—सकृदागामिफलम्, अनागामिफलम्,
अर्हत्त्वफलं च । वीतरागेण पुनरेकमेवार्हत्त्वफलं प्राप्तव्यमिति । त्रिधातुसमति-
क्रमश्चावीतरागेण कर्तव्यः । वीतरागेण तु रूपावीतरागेणान्तरापरिनिर्वायिणा
भवता द्विधातुसमतिक्रमः कर्तव्य इति ॥ ४१ ॥
“आकीर्यते” इति । व्यवकीर्यते व्यतिभिद्यते । अनास्रवाभ्यां
सास्रवं चतुर्थं ध्यानं मिश्रीक्रियत इत्यर्थः । सुखप्रतिपदामग्रत्वादिति । सुखा
प्रतिपदश्चत्वारि मौलानि ध्यानानि, “ध्यानेषु मार्गः प्रतिपत् सुखा”
(अभि० को० ६.६६) इति वचनात् । तासां चतुर्थं ध्यानमग्रम्, अष्टापक्षाल-
मुक्तत्वात् ।
यदा किलेति । किलशब्दो वैभाषिकमतद्योतकः । स्वमतं तु पश्चाद्
दर्शयिष्यति—अशक्यं तु क्षणव्यवकिरणमिति विस्तरेण ।
द्वौ हि क्षणावानन्तर्यमार्गसदृशाविति । अनास्रवसास्रवौ । तृतीयो
विमुक्तिमार्गसदृश इत्यनास्रवः ।
१. ०मग्रद्यत्वात्—का० । २. ०प्रहासेन—का० ।

निर्देशः ] षष्ठं कोशस्थानम् ६६१
चतुर्थं ध्यानं व्यवकीर्य तन्मूलेनान्यान्यपि व्यवकीर्यन्ते । कामधातौ त्रिषु द्वीपेषु
प्रथमं व्यवकीर्यते । पश्चात् परिहीणेन रूपधातौ ।
अशक्यं तु क्षणव्यवकिरणमन्यत्र बुद्धात् । अत इच्छात्तः प्रवाहत्रयसमाप-
चित्तो निष्पन्नं भवतीति पश्यामः ।
किमर्थं पुनर्ध्यानं व्यवकीर्यते ?
उपपत्तिविहारार्थं क्लेशभीरुतयापि च ॥ ४२ ॥
त्रिभिः कारणैर्ध्यानं व्यवकिरन्ति—तीक्ष्णेन्द्रिया अनागामिनः शुद्धावासो-
पपत्त्यर्थं दृष्टधर्मसुखविहारार्थं च, मृद्विन्द्रियाः क्लेशभीरुतया चास्वादनासम्प्रयुक्त-
समाधिदूरीकरणादपरिहाण्यथंम्¹, अर्हन्तस्तु तीक्ष्णेन्द्रिया दृष्टधर्मसुखविहारार्थम्,
मृद्विन्द्रियाः क्लेशभीरुत्वाच्चापरिहाण्यथंम् ॥ ४२ ॥
अथ कस्मात् पञ्चैव शुद्धावासोपपत्तयः ? यदेतद् व्यवकीर्णभावितं चतुर्थं
ध्यानमुक्तम्,
तत्पञ्चविध्यात् पञ्चेव शुद्धावासोपपत्तयः ।
सा हि व्यवकीर्णभावना पञ्चप्रकारा; मृदुमध्याधिमात्रतरतमभेदात् । प्रथ-
मायां त्रीणि चित्तानि सम्मुखीक्रियन्ते—अनास्रवम्, सास्रवम्, अनास्रवं च ।
द्वितीयायां षट् । तृतीयायां नव । चतुर्थ्यां द्वादश । पञ्चम्यां पञ्चदश ।
मृद्विन्द्रियाः क्लेशभीरुतया च व्यवकिरन्ति । चशब्दाच्छुद्धावासोपपत्त्यर्थं
दृष्टधर्मसुखविहारार्थं च व्यवकिरन्ति । तीक्ष्णेन्द्रियास्तु शुद्धावासोपपत्त्यर्थं
दृष्टधर्मसुखविहारार्थं च व्यवकिरन्ति, न क्लेशभीरुतया; तेषां परिहाण्यसम्भ-
वात् । कथं पुनः क्लेशभीरुतया अपरिहाण्यथं व्यवकिरन्ति ? इत्याह—
आस्वादनासम्प्रयुक्तसमाधिदूरीकरणात् । अपरिहाण्यर्थमिति । फलान्न
परिहीयेमिति ॥ ४२ ॥
पञ्चप्रकारेति विस्तरः । मृद्वी मध्या अधिमात्रा अधिमात्रतरा अधिमात्रत-
मेति । प्रथमायां त्रीणि चित्तानीति । तस्य पुद्गलस्य तावती शक्तिरित्येवमुपरिष्टा-
दपि वक्तव्यम् । द्वितीयायां षडिति । अनास्रवं सास्रवमनास्रवमिति त्रीणि,
१. ०परिहीणार्थम्—का० ।

६६२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
तासां यथासंख्यं पञ्च शुद्धावासाः फलम् । यत्तत्र सास्रवं तद्वशात्
तेषूपपत्तिः ।
श्रद्धादीन्द्रियाधिक्यात् पञ्चेत्यपरे ।
निरोधलाभ्यनागामी कायसाक्षी पुनर्मतः ॥ ४३ ॥
निरोधलाभोऽस्यास्तीति निरोधलाभी । यो हि कश्चिदनागामी निरोध-
समापत्तिलाभी स कायसाक्षीत्युच्यते; निर्वाणसदृशस्य धर्मस्य कायेन साक्षात्
करणात् ।
कथं पुनः कायेन साक्षात्करोति ? चित्ताभावात् कायाश्रयोत्पत्तेः ।
एवं तु भवितव्यम्—स हि तस्माद् व्युत्थायाप्रतिलब्धपूर्वां सविज्ञानकां
कायशान्ति प्रतिलभते । यतोऽस्यैवं भवति—शान्ता बत निरोधसमापत्तिः, निर्वाण-
सदृशी बत निरोधसमापत्तिरिति । एवमनेन तस्याः शान्तत्वं कायेन साक्षात्कृतं
भवति । प्राप्तिज्ञानसाक्षात्क्रियाभ्यां प्रत्यक्षीकारो हि साक्षात्क्रिया ।
पुनरनास्रवं सास्रवमनास्रवमित्यपराणि त्रीणीति षड् भवन्ति । एवमेव च
तृतीयायां नव, चतुर्थ्यां द्वादश, पञ्चम्यां पञ्चदशेति योज्यम् ।
तासां यथासंख्यमिति । तासां व्यवकीर्णभावनानां यथाक्रमं पञ्च शुद्धावासाः
फलम् । मृद्व्या भावनाया अवृहाः फलम्, एवं यावदधिमात्रतमाया भावनाया
अकनिष्ठाः फलमिति ।
श्रद्धादीन्द्रियाधिक्यादिति । भदन्तश्रीलातमतम् । श्रद्धाधिकाया भावनाया
अवृहाः फलम्, एवं यावत् प्रज्ञाधिकाया भावनाया अकनिष्ठाः फलमिति ।
यो हि कश्चिदनागामीति । श्रद्धाधिमुक्तो वा, दृष्टिप्राप्तो वा । कायेन
साक्षात्करणमिति । चित्ताभावात् कायेनैव साक्षात्करोति ।
कथं कायेनैव ? इत्याह—कायाश्रयोत्पत्तेः ।
एवं तु भवितव्यमिति । स्वमतमाचार्यस्य । प्राप्तिज्ञानसाक्षात्क्रियाभ्यामिति ।
समाधिकाले तदनुकूलाश्नयप्राप्तिसाक्षात्करणात् । व्युत्थानकाले च तत्प्रति-
संवेदनाज्ञानसाक्षात्करणात् । प्रत्यक्षीकारो हि साक्षात्क्रियेति । सविज्ञानकाय-
शान्तिप्रतिलम्भावस्थायां साक्षात्क्रिया युज्यत इत्यभिप्रायः । सविज्ञानककाय-
शान्तिप्रतिलम्भेन वा अविज्ञानककायशान्त्यवस्थायां तत्प्राप्तिर्गम्यत इति ।

निर्देशः ] षष्ठं कोशस्थानम् ६६३
“अष्टादश शैक्षाः” इत्यत्र सूत्रे किं कारणं कायसाक्षी नोक्तः ? कारणा-
भावात् । किं पुनः कारणम् ? अनास्रवास्तिस्रः शिक्षाः१, तत्फलं च । तद्वि-
शेषेण हि शैक्षाणां व्यवस्थानम् । निरोधसमापत्तिश्च नैवशक्षानशिक्षा२ फलम् ।
अतो न तद्योगाच्छैक्षविशेष उक्तः । एष तावदनागामिनां यथास्थूलं भेदः ।
सूक्ष्मं तु भिद्यमानाः सहस्रशो भिद्यन्ते ।
अष्टादश शैक्षा इत्यत्र सूत्र इति । “अनाथपिण्डदो गृहपतिर्भगवन्तम-
पृच्छत्—‘कति भदन्त दक्षिणीयाः’ इति ? भगवानाह—‘अष्टादश गृहपते शैक्षा
नैवाशैक्षा दक्षिणीया इति । अष्टादश शैक्षाः कतमे ? स्रोतआपत्तिफलसाक्षा-
त्क्रियायै प्रतिपन्नकः, स्रोतआपन्नः, सकृदागामिफलसाक्षात्क्रियायै प्रतिपन्नकः,
सकृदागामी, अनागामिफलसाक्षात्क्रियायै प्रतिपन्नकः, अनागामी, अर्हत्त्वफल-
साक्षात्क्रियायै प्रतिपन्नकः, श्रद्धानुसारी, श्रद्धाधिमुक्तः, दृष्टिप्राप्तः,
कुलंकुलः, एकवीचिकः, अन्तरापरिनिर्वायी, उपपद्यपरिनिर्वायी, साभिसंस्कार-
परिनिर्वायी, अनभिसंकारपरिनिर्वायी, ऊर्ध्वस्रोताः—इतीमे गृहपतेऽष्टादश
शैक्षाः । नवाशैक्षाः कतमे ? परिहाणधर्मा, चेतनाधर्मा, अनुरक्षणाधर्मा,
स्थिताकम्प्यः, प्रतिवेधनाभव्यः, अकोप्यधर्मा, चेतोविमुक्तः, प्रज्ञाविमुक्तः,
उभयतोभागविमुक्तः—इतीमे गृहपते नवाशैक्षाः” इति । तिस्रः शिक्षाः, तत्फलं
चेति । अधिशीलमधिचित्तमधिप्रज्ञमिति तिस्रः शिक्षा आर्यमार्गलक्षणाः । तेषां
फलं विसंयोगः । तद्विशेषेण हि शैक्षाणां व्यवस्थानमिति । शिक्षाविशेषेण,
तत्फलविशेषेण चेत्यर्थः । कथं पुनस्तद्विशेषः ? अन्यादृश्योऽष्टादशानां शिक्षाः,
विसंयोगफलं चेति । निरोधसमापत्तिश्च न शैक्षा । अप्रहाणमार्गस्वभाव्यात् ।
न शिक्षा फलमविसंयोगफलस्वभाव्यात् । अतो न तद्योगात् निरोधसमापत्ति-
योगात् शैक्षविशेष उक्तः । यथैतेऽष्टादश शैक्षाः, न पुनरसौ न शैक्षः । तत्र
यदिदमुच्यते—अष्टादश शैक्षा इत्यत्र सूत्रे किं कारणं कायसाक्षी नोक्तः, शैक्ष
इत्येवं नोक्तः ।
· यथास्थूलं भेद इति । “रूपोपगा पञ्च, आरूप्यगश्चतुर्धान्यः इह निर्वायको-
ऽपरः” (अभि० को० ६.३८) इत्येवमादि ।
सूक्ष्मं तु भिद्यमाना इति विस्तरः । अत्राचार्यो गणनोपायप्रदर्शनार्थं
प्रथममन्तरापरिनिर्वायिण इन्द्रियभूमिगोत्रादिभेदं व्युत्पादयति । किं कारणम् ?
१. शंक्षाः—का० । २. ०नाशिक्षा—का० ।

६६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अन्तरापरिनिर्वायिणस्त्रयो मृदुमध्याधिमात्रेन्द्रियभेदात् ।
भूमिभेदाच्चत्वारः ।
परिहाणधर्मादिगोत्रभेदात् षट् ।
स्थानान्तरभेदात् षोडश ।
भूमिवैराग्यभेदात् षट्त्रिंशत् । रूपधातौ सकलबन्धनो यावच्चतुर्थ-
ध्यानाष्टप्रकारवीतरागः ।
स्थानान्तरगोत्रवैराग्येन्द्रियभेदाद् द्वानवतीनि पञ्चविंशतिः शतानि । कथं
तद्भेदे हि गणिते यथान्तरापरिनिर्वायिण इन्द्रियादिभेदाद् भेदः, एवं यावदूर्ध्व-
स्रोतस इति सुखमतिदेशं करिष्यामीति ।
भूमिभेदाच्चत्वार इति । त एवान्तरापरिनिर्वायिणः । भूमयश्चत्वारि
ध्यानानि; रूपोपगानामनागामिनां विवक्षितत्वात् । तत्र प्रथमे ध्यानेऽन्तरा-
परिनिर्वायी यावच्चतुर्थ इति चत्वारः ।
परिहाणधर्मादिगोत्रभेदात् षडिति । त एव परिहाणधर्मा, चेतनाधर्मा,
अनुरक्षणाधर्मा, स्थिताकम्प्यः, प्रतिवेधनाभव्यः, अकोप्यधर्मा चेति ।
स्थानान्तरभेदात् षोडशेति । ब्रह्मकायिकादीन्यकनिष्ठान्तानि । महाब्रह्मणो
वैभाषिकनीत्याऽस्थानान्तरः । बहिर्देशकनयेनापि स्थानान्तरत्वे तत्रार्यो नोत्पद्यत
इत्यगणनम् । तदेवं स्थानान्तरभेदात् षोडशान्तरापरिनिर्वायिणः ।
भूमिवैराग्यभेदात् षट्त्रिंशदिति । भूमिभेदात् तद्वैराग्यभेदाच्च षट्त्रिंश-
दन्तरापरिनिर्वायिणः । कथम् ? इति प्रतिपादयति—रूपधातौ सकलबन्धन इति
विस्तरः । रूपधातौ प्रथमे ध्याने सकलबन्धन एकप्रकारवीतरागो यावदष्ट-
प्रकारवीतराग इति नव; द्वितीयोऽपि नव सकलबन्धनो यावदष्टप्रकारवीतराग
इति, तथा तृतीये नव, तथा चतुर्थे नवेति—चत्वारो नवकाः षट्त्रिंशद् भवन्ति ।
यावच्चतुर्थध्यानाष्टप्रकारवीतराग इति । यावच्छब्देनायमर्थविस्तरो लभ्यते ।
चतुर्थध्याननवमप्रकारवीतरागो नोच्यते । यस्मादसावारूप्ये सकलबन्धनो
भवति । न चेहारूप्यगोऽधिक्रियते; रूपोपगानामिह विवक्षितत्वात् । अन्तरा-
भवसम्बन्धादिति ।
तथा च सति स्थानान्तरगोत्रवैराग्येन्द्रियभेदादिति विस्तरः । स्थानान्तराणां
गोत्राणां वैराग्याणामिन्द्रियाणां च भेदात् द्वानवतीनि द्वानवत्यधिकानि

कृत्वा ? एकस्मिन् स्थाने षट् गोत्राणि, गोत्रे गोत्रे नव पुद्गलाः, सकलबन्धनो
यावदष्टप्रकारवीतरागः स्वस्मात् स्थानात् षण्णवकानि चतुष्पञ्चाशत् षोडश
चतुष्पञ्चाशत्कानि चतुःषष्ट्यन्यष्टौ शतानि । इन्द्रियभेदात् पुनस्त्रिगुणा इत्येवं
कृत्वा यो ह्यधरे¹ ध्याने¹ नवप्रकारवीतरागः स उत्तरे सकलबन्धन उक्तः, समगण-
नार्थम् ।
यथान्तरापरिनिर्वायिण एवं यावदूर्ध्वस्रोतस इत्यभिसमस्य सर्वे चत्वारिं-
शदूनानि त्रयोदशसहस्राण्यनागामिनां भवन्ति ॥ ४३ ॥
पञ्चविंशतिशतानि भवन्ति; तेषामन्तरापरिनिर्वायिणाम् । कथं कृत्वा तथा
भवन्ति ? इत्याह—एकस्मि स्थाने । तद्यथा—ब्रह्मपुरोहिते षड्गोत्राणि परिहाण-
धर्मादिभेदात् । गोत्रेगोत्रे इति वीप्सा । नव पुद्गलाः । सकलबन्धनो यावदष्ट-
प्रकारवीतरागः । स्वस्मात् स्थानात् । तद्यथा ब्रह्मपुरोहितात् । षण्णवकानि
गोत्रषट् पुद्गलनवकग्रहणाच्चतुःपञ्चाशत । षोडश चतुःपञ्चाशत्कानि ।
षोडशस्थाना

Here is the line-by-line transcription of the Sanskrit text from the image:

५६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
आभवाग्राष्टभागक्षिदर्हत्त्वे प्रतिपन्नकः ।
'अनागामी' इत्यधिकृतम् । स खल्वयमनागामी प्रथमध्यानेकप्रकारवैराग्यात्
प्रभृति यावद् भवाग्राष्टप्रकारप्रहाणादर्हत्त्वप्रतिपन्नको भवति¹ ।
नवमस्याप्यानन्तर्यपथे,
नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गे सोऽर्हत्त्वप्रति-
पन्नक एव ।
वज्रोपमश्च सः ॥ ४४ ॥
स चानन्तर्यमार्गः 'वज्रोपमः समाधिः' इत्युच्येत; सर्वानुशयभेदित्वात् ।
भिन्नत्वादसौ न² सर्वान् भिनत्ति । सर्वांस्तु भेत्तुं समर्थः; सर्वानन्तर्यमार्गाणा-
मधिमात्रतमत्वात् ।
वज्रोपमानां तु बहुमेदं वर्णयन्ति—अनागम्यसंगृहीता भावाग्रिकदुःख-
समुदयालम्बनैर्दुःखसमुदयान्वयज्ञानाकारैः सम्प्रयुक्ता अष्टौ । निरोधमार्गधर्म-
"आभवाग्राष्टभागक्षित्" इति । आभवाग्रादष्टौ प्रकारान् क्षिणोतीत्या-
भवाग्राष्टभागक्षित् । आभवाग्राष्टप्रकारक्षयकृदित्यर्थः ।
अयमनागामी प्रथमध्यानेकप्रकारवैराग्यात् प्रभृतीति । यस्मात् कामवैराग्या-
दनागामी व्यवस्थाप्यते, तस्मात्ततः परेणार्हत्त्वफलप्रतिपन्नको भवति ।
यथा वज्रः सर्वं भिनत्ति, एवमयं समाधिः सर्वमनुशयं भिनत्तीति सामर्थ्यात्
वज्र उपमा अस्येति वज्रोपमः । भिन्नत्वादसौ न सर्वान् भिनत्तीति । त्रैधातुकान्
दर्शनप्रहातव्यान् भावनाप्रहातव्यांश्च कामावचरान् यावत् भावाग्रिकानष्टौ
प्रकारान् । यदि सर्वान् भिनत्ति, कस्मात् सर्वानुशयभेदीत्युच्यते ? इत्याह—
सर्वांस्तु भेत्तुं समर्थ इति । सम्भवमधिकृत्योक्तमित्यभिप्रायः ।
अनागम्यसंगृहीता इति विस्तरः । नव भूमीः अनागम्यं ध्यानान्तरं
चत्वारि ध्यानानि त्रींश्चारूप्यान् भवाग्रवर्ज्यान्निश्रित्यार्हत्त्वप्राप्तिरित्थत एवं
प्रतन्यते । दुःखसमुदयानन्वयज्ञानाकारैः सम्प्रयुक्ता अष्टाविति । भावाग्रिक-
दुःखा लम्बनन्वयज्ञानाकारैश्चतुर्भिः सम्प्रयुक्ताश्चत्वारो भावाग्रिकसमुदयालम्ब-
नान्वयज्ञानाकारैः चतुर्भिरपरैः सम्प्रयुक्ताश्चत्वार इत्यष्टौ । एवमेव
निरोधमार्गधर्मज्ञानाकारैः सम्प्रयुक्ता अष्टाविति वक्तव्यम् ।
१. भवन्ति-का० । २. न पुनः—का० ।

ज्ञानाकारैः सम्प्रयुक्ता अष्टौ । निरोधान्वयज्ञानाकारैः सम्प्रयुक्ताः प्रथमध्याननिरोधा-
लम्बनाश्चत्वारः । एवं यावद् भवाग्रनिरोधालम्बनाश्चत्वारः । मार्गान्वयज्ञानाकारैः
सम्प्रयुक्ताश्चत्वारः, कृत्स्नस्यान्वयज्ञानपक्षस्यालम्बनात् । त इमे ज्ञानाकारालम्बन-
भेदभिन्ना द्वापञ्चाशद् वज्रोपमा भवन्ति ।
यथाऽनागम्यसंगृहीताः१, एवं यावच्चतुर्थध्यानसंगृहीताः ।
“धर्मज्ञानं निरोधे यन्मार्गे वा भावनापथे ।
त्रिधातुप्रतिपक्षस्तद्” (अभि० को० ७. ९)
इति सिद्धान्तात् तयोरेवेहोपन्यासः, न दुःखसमुदयधर्मज्ञानयोर्ग्रहणम् ।
एवं यावदिति । यावच्छब्देन यथा प्रथमध्याननिरोधालम्बनाकारैः सम्प्रयुक्ता-
श्चत्वारः । एवं द्वितीयतृतीयचतुर्थध्यानाकाशविज्ञानाकिञ्चन्यायतनभवाप्र-
निरोधालम्बनाः प्रत्येक

आकाशविज्ञानानन्याकिञ्चन्यायतनसंगृहीता यथासंख्यमष्टाविंशतिश्चतुर्विंश-
तिर्विंशतिश्च² भवन्ति; तेषु धर्मज्ञानस्याधोभूमिनिरोधालम्बनस्य चान्वयज्ञानस्या-
भावात् । अधोभूमिप्रतिपक्षालम्बनं तु भवति, तस्यान्योन्यहेतुत्वादिति ।
येषां तु मार्गान्वयज्ञानमप्येकैकमूमिप्रतिपक्षालम्बनमिष्टम्, तेषामष्टाविंशति-
संगृहीता एवं प्रथमध्यानसंगृहीता द्वापञ्चाशत् । यावच्चतुर्थध्यानसंगृहीता
द्वापञ्चाशादिति । यथासंख्यमिति विस्तरः ।
आकाशानन्त्यायतनसंगृहीता अष्टाविंशतिः । विज्ञानानन्त्यायतनसंगृहीता-
श्चतुर्विंशतिः । आकिञ्चन्यायतनसंगृहीता विंशतिः । भवाग्र आर्यमार्गो
नास्तीति तत्संगृहीता न सन्तीति न चिन्त्यन्ते । तेषु धर्मज्ञानस्याभावादिति ।
तेष्वाकाशानन्त्यायतनादिषु धर्मज्ञानस्याभावात् । धर्मज्ञानस्य