सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 973, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 973

६५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
संस्कृतासंस्कृतालम्बनमार्गनिर्वाणादित्यपरे। तन्न; अतिप्रसङ्गात्।
सूत्रे त्वनभिसंस्कारपरिनिर्वायी पूर्वं पठ्यते। तथैव¹ युज्यते; वाह्यवाहि-
मार्गयोरनभिसंस्काराभिसंस्कारसाध्यत्वादयत्नयत्नप्राप्तितः। उपपद्यपरिनिर्वायिणस्तु
वाहितरोऽधिमात्रतरश्च मार्गः, मृदुतराश्चानुशया इति।
चाभावादित्यर्थः। तदेवमभियोगादिनानात्वात् परिनिर्वाणविशेष उक्तो भवति।
उपपद्यपरिनिर्वायिणो ह्युभयमस्ति—अभियोगश्च, वाही च मार्ग इति।
साभिसंस्कारपरिनिर्वायिणोऽभियोगोऽस्ति, न त्वस्य वाही मार्गः। अनभि-
संस्कारपरिनिर्वायिणस्तूभयमपि नास्ति—नाभियोगः, न च वाही मार्ग इति।
संस्कृतासंस्कृतालम्बनमार्गपरिनिर्वाणादिति। संस्कृतं संस्कार इत्येकोऽर्थः।
एवमसंस्कृतम् असंस्कार इति। संस्कारालम्बनेन मार्गेण दुःखसमुदयमार्गा-
लम्बनेन मार्गेण यः क्लेशान् प्रजहाति, स साभिसंस्कारपरिनिर्वायी।
योऽसंस्कारालम्बनेन निरोधालम्बनेन, सोऽनभिसंस्कारपरिनिर्वायीति।
तन्न; अतिप्रसङ्गादिति। तन्नु नैवम्। कस्मात्? अतिप्रसङ्गात्।
अन्तरापपद्यपरिनिर्वायिनोरपि संस्कृतासंस्कृतालम्बनमार्गपरिनिर्वाणात् प्रत्येकं
साभिसंस्काराभिसंस्कारपरिनिर्वायित्वप्रसङ्गः। तत्रस्थौ द्वावेव पुद्गलौ स्याताम्,
न पञ्चेति।
अनभिसंस्कारपरिनिर्वायी पूर्वं पठ्यत इति। साभिसंस्कारपरिनिर्वायिणः
पूर्वमयं पठ्यते—अनभिसंस्कारपरिनिर्वायी, साभिसंस्कारपरिनिर्वायीति।
तथैव युज्यत इति विस्तरः। अनभिसंस्कार-साभिसंस्कारपरिनिर्वायिणोर्यथा-
क्रमम्। वाह्यवाहिमार्गयोः पुद्गलयोः परिनिर्वाणस्यानभिसंस्कारसाध्यत्वात्
पूर्वस्य, अभिसंस्कारसाध्यत्वाच्चेतरस्य। कथं तथा साध्यत्वम्? इत्याह—अयत्न-
यत्नप्राप्तितस्तत्परिनिर्वाणस्य यथाक्रममित्येव।
अथ वाह्यवाहिमार्गयोरिति मार्गयोरेव ग्रहणम्, न पुद्गलयोरभिसम्बन्धः?
वाहिनो मार्गस्यानभिसंस्कारसाध्यत्वादवाहिनश्चाभिसंस्कारसाध्यत्वात्, अयत्न-
यत्नप्राप्तितः, अयत्नसम्मुखीभावतः पूर्वमार्गस्य, यत्नप्राप्तित इतरस्येति
तदेवमनभिसंस्कारपरिनिर्वायी पूर्वं युज्यते। आह—यद्यनभिसंस्कारपरि-
निर्वाायिणो वाही मार्गः, अनभिसंस्कारसाध्यत्वादुपपद्यपरिनिर्वायिणोऽपि वाही
मार्ग इति कस्तयोर्विशेष इति? अत उच्यते—उपपद्यपरिनिर्वायिणस्तु मार्गो
१. तथैव च—का०।