अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 990, कुल 1258 में से
संदर्भ में पढ़ेंज्ञानाकारैः सम्प्रयुक्ता अष्टौ । निरोधान्वयज्ञानाकारैः सम्प्रयुक्ताः प्रथमध्याननिरोधा-
लम्बनाश्चत्वारः । एवं यावद् भवाग्रनिरोधालम्बनाश्चत्वारः । मार्गान्वयज्ञानाकारैः
सम्प्रयुक्ताश्चत्वारः, कृत्स्नस्यान्वयज्ञानपक्षस्यालम्बनात् । त इमे ज्ञानाकारालम्बन-
भेदभिन्ना द्वापञ्चाशद् वज्रोपमा भवन्ति ।
यथाऽनागम्यसंगृहीताः१, एवं यावच्चतुर्थध्यानसंगृहीताः ।
“धर्मज्ञानं निरोधे यन्मार्गे वा भावनापथे ।
त्रिधातुप्रतिपक्षस्तद्” (अभि० को० ७. ९)
इति सिद्धान्तात् तयोरेवेहोपन्यासः, न दुःखसमुदयधर्मज्ञानयोर्ग्रहणम् ।
एवं यावदिति । यावच्छब्देन यथा प्रथमध्याननिरोधालम्बनाकारैः सम्प्रयुक्ता-
श्चत्वारः । एवं द्वितीयतृतीयचतुर्थध्यानाकाशविज्ञानाकिञ्चन्यायतनभवाप्र-
निरोधालम्बनाः प्रत्येक