अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 974, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] षष्ठं कोशस्थानम् ६५१
५. ऊर्ध्वस्रोता यस्योर्ध्वं गतिर्न तत्रैव परिनिर्वाणं यत्रोपपन्नः । स्रोतो
गतिरित्येकोऽर्थः ।
सध्याने व्यवकीर्णेऽकनिष्ठगः ॥ ३७ ॥
ऊर्ध्वस्रोता द्विविधः—हेतुतः, फलतश्च । हेतुतो व्यवकीर्णान्यवकीर्णध्यान-
त्वात् । फलतोऽकनिष्ठभवाग्रपरमत्वात् । तत्र येन ध्यानं व्यवकीर्णं सोऽकनिष्ठान्
गत्वा परिनिर्वाति ॥ ३७ ॥
स प्लुतोऽर्धप्लुतः सर्वच्युतश्च,
स पुनरेषोऽकनिष्ठपरम ऊर्ध्वस्रोतास्त्रिविधः, प्लुतादिभेदात् ।
१. तत्र प्लुतो नाम य इह ध्यानानि व्यवकीर्य ध्यानत्रयात्¹ परिहीणः
प्रथमं ध्यानमास्वाद्य ब्रह्मकायिकेषूपपन्नः पूर्वाभ्यासवशाच्चतुर्थं ध्यानं व्यवकीर्य
तस्मात् प्रच्युतोऽकनिष्ठेषूपपद्यते । एष हि मध्यानिमज्जनात् प्लुतः ।
वाहितरो जिततरः । नानभिसंस्कारपरिनिर्वाणिनः । एवमधिमात्रतरो
हेतूपचयतः । मृदुतराश्चानुशयाः मार्गाधिमात्रतरत्वेन क्षपितत्वात् ।
ऊर्ध्वस्रोता इति । ऊर्ध्वस्रोतो गतिरस्येति ऊर्ध्वस्रोताः । यत्र ऊर्ध्वमिति
पठ्यते—"ऊर्ध्वं दमाच्च देहाच्च" इति, ऊर्ध्वदमिकः ऊर्ध्वदेहिक इति ।
तत्प्रत्ययसन्नियोगेनोर्ध्वशब्दस्य मान्तोऽपि निपात्यत इति वेदितव्यम् । यथा
चिरशब्दस्य चिरन्तनमित्यूर्ध्वमिति निपातोऽस्तीत्यपरे । अकारान्तोऽपि
तूर्ध्वशब्दोऽस्त्येवेति न वार्यते ।
व्यवकीर्णान्यवकीर्णध्यानत्वादिति । मिश्रितामिश्रितध्यानत्वादित्यर्थः ।
अनास्रवेण सास्रवस्य ध्यानस्य मिश्रितत्वात् ॥ ३७ ॥
इह ध्यानानि व्यवकीर्य ध्यानत्रयात् परिहीयत इति । ध्यानव्यवकीर्णं
चतुर्थध्यानव्यवकिरणपूर्वकम् । "आकीर्यते चतुर्थं प्राग्" (अभि० को० ६.४२)
इति वचनात् । चतुर्थमेव हि ध्यानमादितो व्यवकिरणे समर्थम्, नान्यत् ।
चतुर्थाच्च ध्यानादपरिहीणस्य प्रथमादिषु ध्यानेषूपपत्तिर्नास्तीत्यत उच्यते—
ध्यानत्रयात् परिहीण इति । कथं च परिहीणः ? इत्याह—प्रथमं ध्यान-
मास्वाद्येति । मध्यानिमज्जनात् । मध्येऽनिमज्जनात् ।
१. ध्यानचयात्—का० ।