सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 987, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 987

६६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अन्तरापरिनिर्वायिणस्त्रयो मृदुमध्याधिमात्रेन्द्रियभेदात् ।
भूमिभेदाच्चत्वारः ।
परिहाणधर्मादिगोत्रभेदात् षट् ।
स्थानान्तरभेदात् षोडश ।
भूमिवैराग्यभेदात् षट्त्रिंशत् । रूपधातौ सकलबन्धनो यावच्चतुर्थ-
ध्यानाष्टप्रकारवीतरागः ।
स्थानान्तरगोत्रवैराग्येन्द्रियभेदाद् द्वानवतीनि पञ्चविंशतिः शतानि । कथं
तद्भेदे हि गणिते यथान्तरापरिनिर्वायिण इन्द्रियादिभेदाद् भेदः, एवं यावदूर्ध्व-
स्रोतस इति सुखमतिदेशं करिष्यामीति ।
भूमिभेदाच्चत्वार इति । त एवान्तरापरिनिर्वायिणः । भूमयश्चत्वारि
ध्यानानि; रूपोपगानामनागामिनां विवक्षितत्वात् । तत्र प्रथमे ध्यानेऽन्तरा-
परिनिर्वायी यावच्चतुर्थ इति चत्वारः ।
परिहाणधर्मादिगोत्रभेदात् षडिति । त एव परिहाणधर्मा, चेतनाधर्मा,
अनुरक्षणाधर्मा, स्थिताकम्प्यः, प्रतिवेधनाभव्यः, अकोप्यधर्मा चेति ।
स्थानान्तरभेदात् षोडशेति । ब्रह्मकायिकादीन्यकनिष्ठान्तानि । महाब्रह्मणो
वैभाषिकनीत्याऽस्थानान्तरः । बहिर्देशकनयेनापि स्थानान्तरत्वे तत्रार्यो नोत्पद्यत
इत्यगणनम् । तदेवं स्थानान्तरभेदात् षोडशान्तरापरिनिर्वायिणः ।
भूमिवैराग्यभेदात् षट्त्रिंशदिति । भूमिभेदात् तद्वैराग्यभेदाच्च षट्त्रिंश-
दन्तरापरिनिर्वायिणः । कथम् ? इति प्रतिपादयति—रूपधातौ सकलबन्धन इति
विस्तरः । रूपधातौ प्रथमे ध्याने सकलबन्धन एकप्रकारवीतरागो यावदष्ट-
प्रकारवीतराग इति नव; द्वितीयोऽपि नव सकलबन्धनो यावदष्टप्रकारवीतराग
इति, तथा तृतीये नव, तथा चतुर्थे नवेति—चत्वारो नवकाः षट्त्रिंशद् भवन्ति ।
यावच्चतुर्थध्यानाष्टप्रकारवीतराग इति । यावच्छब्देनायमर्थविस्तरो लभ्यते ।
चतुर्थध्याननवमप्रकारवीतरागो नोच्यते । यस्मादसावारूप्ये सकलबन्धनो
भवति । न चेहारूप्यगोऽधिक्रियते; रूपोपगानामिह विवक्षितत्वात् । अन्तरा-
भवसम्बन्धादिति ।
तथा च सति स्थानान्तरगोत्रवैराग्येन्द्रियभेदादिति विस्तरः । स्थानान्तराणां
गोत्राणां वैराग्याणामिन्द्रियाणां च भेदात् द्वानवतीनि द्वानवत्यधिकानि