अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 988, कुल 1258 में से
संदर्भ में पढ़ेंकृत्वा ? एकस्मिन् स्थाने षट् गोत्राणि, गोत्रे गोत्रे नव पुद्गलाः, सकलबन्धनो
यावदष्टप्रकारवीतरागः स्वस्मात् स्थानात् षण्णवकानि चतुष्पञ्चाशत् षोडश
चतुष्पञ्चाशत्कानि चतुःषष्ट्यन्यष्टौ शतानि । इन्द्रियभेदात् पुनस्त्रिगुणा इत्येवं
कृत्वा यो ह्यधरे¹ ध्याने¹ नवप्रकारवीतरागः स उत्तरे सकलबन्धन उक्तः, समगण-
नार्थम् ।
यथान्तरापरिनिर्वायिण एवं यावदूर्ध्वस्रोतस इत्यभिसमस्य सर्वे चत्वारिं-
शदूनानि त्रयोदशसहस्राण्यनागामिनां भवन्ति ॥ ४३ ॥
पञ्चविंशतिशतानि भवन्ति; तेषामन्तरापरिनिर्वायिणाम् । कथं कृत्वा तथा
भवन्ति ? इत्याह—एकस्मि स्थाने । तद्यथा—ब्रह्मपुरोहिते षड्गोत्राणि परिहाण-
धर्मादिभेदात् । गोत्रेगोत्रे इति वीप्सा । नव पुद्गलाः । सकलबन्धनो यावदष्ट-
प्रकारवीतरागः । स्वस्मात् स्थानात् । तद्यथा ब्रह्मपुरोहितात् । षण्णवकानि
गोत्रषट् पुद्गलनवकग्रहणाच्चतुःपञ्चाशत । षोडश चतुःपञ्चाशत्कानि ।
षोडशस्थाना