अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 991, कुल 1258 में से
संदर्भ में पढ़ेंआकाशविज्ञानानन्याकिञ्चन्यायतनसंगृहीता यथासंख्यमष्टाविंशतिश्चतुर्विंश-
तिर्विंशतिश्च² भवन्ति; तेषु धर्मज्ञानस्याधोभूमिनिरोधालम्बनस्य चान्वयज्ञानस्या-
भावात् । अधोभूमिप्रतिपक्षालम्बनं तु भवति, तस्यान्योन्यहेतुत्वादिति ।
येषां तु मार्गान्वयज्ञानमप्येकैकमूमिप्रतिपक्षालम्बनमिष्टम्, तेषामष्टाविंशति-
संगृहीता एवं प्रथमध्यानसंगृहीता द्वापञ्चाशत् । यावच्चतुर्थध्यानसंगृहीता
द्वापञ्चाशादिति । यथासंख्यमिति विस्तरः ।
आकाशानन्त्यायतनसंगृहीता अष्टाविंशतिः । विज्ञानानन्त्यायतनसंगृहीता-
श्चतुर्विंशतिः । आकिञ्चन्यायतनसंगृहीता विंशतिः । भवाग्र आर्यमार्गो
नास्तीति तत्संगृहीता न सन्तीति न चिन्त्यन्ते । तेषु धर्मज्ञानस्याभावादिति ।
तेष्वाकाशानन्त्यायतनादिषु धर्मज्ञानस्याभावात् । धर्मज्ञानस्य