अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 979, कुल 1258 में से
संदर्भ में पढ़ें६५६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिताः ?
ऊर्ध्वस्रोतुरभेदेन सप्त सद्गतयो मताः ।
ऊर्ध्वं स्रवणधर्मा ऊर्ध्वस्रोताः । तस्याभेदनिर्देशात् सप्त सत्पुरुषगतयः
सूत्रेऽभिहिताः ।
एते नवानागामिनो नवप्रकारकलेशत्वात्, नवप्रकारेन्द्रियत्वाच्च नवानागामिनो
भवन्ति । कर्मणोऽग्रहणमव्यापित्वात् । न हि प्रथमयोस्त्रिकयोः कर्मविशेषाद्
विशेषोऽस्तीति कथं पुनरेते नवप्रकारकलेशा भवन्ति ? इह क्लेशस्त्रिप्रकारः-
मृदुमध्याधिमात्र इति । मृदुरन्तरापरिनिर्वायिणाम् , मध्य उपपद्यपरिनिर्वा-
यिणाम्, अधिमात्र ऊर्ध्वस्रोतसाम् । तत्र प्रथमोऽन्तरापरिनिर्वायी
मृदुमृदुक्लेशः, द्वितीयो मृदुमध्यक्लेशः, तृतीयो मृद्वधिमात्रक्लेशः ।
उपपद्यपरिनिर्वायिणां प्रथम उपपद्यपरिनिर्वायी मध्यमृदुक्लेशः,
द्वितीयः साभिसंस्कारपरिनिर्वायी मध्यममध्यक्लेशः, तृतीयोऽनभिसंस्कारपरि-
निर्वायी मध्याधिमात्रक्लेशः । ऊर्ध्वस्रोतसामपि प्लुतोऽधिमात्रमृदुक्लेशः,
अर्धप्लुतोऽधिमात्रमध्यक्लेशः, सर्वस्थानच्युतोऽधिमात्राधिमात्रक्लेश इति । कथं
नवप्रकारेन्द्रिया भवन्ति ? तथैवेन्द्रियमपि त्रिप्रकारम् - अधिमात्रं मध्यं मृदु
चेति । अधिमात्रमन्तरापरिनिर्वायिणाम्, मध्यमुपपद्यपरिनिर्वायिणाम्, मृदूर्ध्व-
स्रोतसाम् । तत्र प्रथमोऽन्तरापरिनिर्वायी अधिमात्राधिमात्रेन्द्रियः, द्वितीयोऽ-
धिमात्रमध्येन्द्रियः, तृतीयोऽधिमात्रमृद्विन्द्रियः । उपपद्यपरिनिर्वायिणां
प्रथममुपपद्यपरिनिर्वायी मध्याधिमात्रेन्द्रियः, साभिसंस्कारपरिनिर्वायी
मध्यमध्येन्द्रियः, अनभिसंस्कारपरिनिर्वायी मध्यमृद्विन्द्रियः । ऊर्ध्वस्रोतसामपि
प्लुतो मृद्वधिमात्रेन्द्रियः, अर्धप्लुतो मृदुमध्येन्द्रियः, सर्वस्थानच्युतो
मृदुमृद्विन्द्रिय इति ॥ ३६ ॥
कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिता इति । 'सप्त वोऽहं भिक्षवः
सत्पुरुषगतीर्देशयिष्यामि । अनुपादाय च परिनिर्वाणम्' - इत्येतत् सर्वं सूत्रं
“गतिसूत्रतः१” इत्यत्र प्रदेशे लिखितमिति न पुनर्लिख्यते । अत्र च सूत्रे सप्त
सत्पुरुषगतयो देशिताः- त्रयोऽन्तरापरिनिर्वायिणः, त्रय उपपद्यपरिनिर्वायिण
इति षट् गतयः, ऊर्ध्वस्रोतोगतिश्च सप्तमी इति ।
ऊर्ध्वं स्रवणधर्मेति । कृदन्तमेतच्छब्दरूपमिति । विधार्थमेतच्छब्दरूपमिति
दर्शयति । ऊर्ध्वमिति च क्रियाविशेषणमिति । तस्याभेदनिर्देशादिति ।
तस्योर्ध्वस्रोतसः प्लुतादिभेदानिर्देशादित्यर्थः । विनेयाशयापेक्षो हि सूत्रनिर्देशः ।
१. द्र०-पृ० ४११-४१३.