अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 984, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] षष्ठं कोशस्थानम् ६६१
चतुर्थं ध्यानं व्यवकीर्य तन्मूलेनान्यान्यपि व्यवकीर्यन्ते । कामधातौ त्रिषु द्वीपेषु
प्रथमं व्यवकीर्यते । पश्चात् परिहीणेन रूपधातौ ।
अशक्यं तु क्षणव्यवकिरणमन्यत्र बुद्धात् । अत इच्छात्तः प्रवाहत्रयसमाप-
चित्तो निष्पन्नं भवतीति पश्यामः ।
किमर्थं पुनर्ध्यानं व्यवकीर्यते ?
उपपत्तिविहारार्थं क्लेशभीरुतयापि च ॥ ४२ ॥
त्रिभिः कारणैर्ध्यानं व्यवकिरन्ति—तीक्ष्णेन्द्रिया अनागामिनः शुद्धावासो-
पपत्त्यर्थं दृष्टधर्मसुखविहारार्थं च, मृद्विन्द्रियाः क्लेशभीरुतया चास्वादनासम्प्रयुक्त-
समाधिदूरीकरणादपरिहाण्यथंम्¹, अर्हन्तस्तु तीक्ष्णेन्द्रिया दृष्टधर्मसुखविहारार्थम्,
मृद्विन्द्रियाः क्लेशभीरुत्वाच्चापरिहाण्यथंम् ॥ ४२ ॥
अथ कस्मात् पञ्चैव शुद्धावासोपपत्तयः ? यदेतद् व्यवकीर्णभावितं चतुर्थं
ध्यानमुक्तम्,
तत्पञ्चविध्यात् पञ्चेव शुद्धावासोपपत्तयः ।
सा हि व्यवकीर्णभावना पञ्चप्रकारा; मृदुमध्याधिमात्रतरतमभेदात् । प्रथ-
मायां त्रीणि चित्तानि सम्मुखीक्रियन्ते—अनास्रवम्, सास्रवम्, अनास्रवं च ।
द्वितीयायां षट् । तृतीयायां नव । चतुर्थ्यां द्वादश । पञ्चम्यां पञ्चदश ।
मृद्विन्द्रियाः क्लेशभीरुतया च व्यवकिरन्ति । चशब्दाच्छुद्धावासोपपत्त्यर्थं
दृष्टधर्मसुखविहारार्थं च व्यवकिरन्ति । तीक्ष्णेन्द्रियास्तु शुद्धावासोपपत्त्यर्थं
दृष्टधर्मसुखविहारार्थं च व्यवकिरन्ति, न क्लेशभीरुतया; तेषां परिहाण्यसम्भ-
वात् । कथं पुनः क्लेशभीरुतया अपरिहाण्यथं व्यवकिरन्ति ? इत्याह—
आस्वादनासम्प्रयुक्तसमाधिदूरीकरणात् । अपरिहाण्यर्थमिति । फलान्न
परिहीयेमिति ॥ ४२ ॥
पञ्चप्रकारेति विस्तरः । मृद्वी मध्या अधिमात्रा अधिमात्रतरा अधिमात्रत-
मेति । प्रथमायां त्रीणि चित्तानीति । तस्य पुद्गलस्य तावती शक्तिरित्येवमुपरिष्टा-
दपि वक्तव्यम् । द्वितीयायां षडिति । अनास्रवं सास्रवमनास्रवमिति त्रीणि,
१. ०परिहीणार्थम्—का० ।