अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
७८८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
सत्कायान्तग्राहदृष्टी विसभा गधात्वालम्बने न भवतः ? आत्मात्मीयत्वेनाग्रहणात् ।
अन्तग्राहदृष्टिश्च ? तत्समुत्थितत्वात् ।
का तर्हीयं दृष्टिः ? नेयं दृष्टिः, मिथ्याज्ञानं पुनरेतदित्याभिधार्मिकाः ।
कुतो नु खल्वेतदन्या तदालम्बना दृष्टिः ! एषा न दृष्टिरिति सिद्धान्तस्तु
प्रमाणयितव्यः ।
किं खल्वनुशयाः एव सर्वत्रगाः ? नेत्याह ।
प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्तेऽपि सर्वगाः ॥ १३ ॥
सर्वत्रगैरनुशयैः सहभुवो येऽप्यन्ये धर्मास्तेऽपि सर्वत्रगाः । प्राप्तयस्तु
नैवम्; अनेकफलत्वात् ।
अत एव 'स्युः सर्वत्रगानुशया न हेतुः' इति चतुष्कोटिकं क्रियते । प्रथमा
कोटिः—अनागताः सर्वत्रगा अनुशयाः। द्वितीया — अतीतप्रत्युत्पन्नास्तत्सहभुवः ।
तृतीयचतुर्थ्यो¹ योज्ये ॥ १३ ॥
धातून् इति नोक्तमेतत् । कामधातुस्यास्तु कदाचिद् विसभा गमेकरूपधातु-
मारूप्यधातुं चालम्बन्ते, कदाचिद् रूपारूप्यौ द्वाविति ।
आत्मात्मीयत्वेनाग्रहणादिति । यस्माच्च ब्रह्माणमात्मत्वेन आत्मीयत्वेन न
गृह्णाति, अथ सत्कायदृष्टिर्न भवति ब्रह्मणि सत्त्वदृष्टिः । यस्माच्चा-
न्तग्राहदृष्टिः सत्कायदृष्टिसमुत्थिता, अतो नित्यदृष्टिरपि ब्रह्मणि नान्तग्राह-
दृष्टिरिति । का तर्हीयं दृष्टिरिति । येयं ब्रह्मणि सत्त्वदृष्टिः, नित्यदृष्टिश्च, नेयं
दृष्टिः, मिथ्याज्ञानं पुनरेतदिति । विपरीतालम्बनत्वात् मिथ्याज्ञानमेतत् । नहि
सर्वा विपरीतालम्बना प्रज्ञा दृष्टिरिष्यते, अनात्मन्येवात्मनि विपरीता प्रज्ञा
सत्कायदृष्टिरिष्यते । तत्समुत्थापिता च नित्यदृष्टिरन्तग्राहदृष्टिः, नान्या । यैव
ह्यहङ्कारस्य संनिश्रयीभवति, सैव सत्कायदृष्टिः । महाब्रह्मणि च सत्त्वदृष्टिरह-
मित्यहङ्कारस्य न संनिश्रयीभवति । तेनोक्तम्—आत्मात्मीयत्वेनाग्रहणादिति ।
“प्राप्तिवर्ज्याः सहभुवः” इति । वेदनादयः । प्राप्तयस्तु नैवम्, अनेक-
फलत्वादिति । अनेकफलविपाकनिष्यन्दा हि प्राप्तयः प्राप्तिमतेत्युक्तम् । अतो
न सर्वत्रगधर्मप्राप्तयः सर्वत्रगाः व्यवस्थाप्यन्ते । अत एवेति । यस्मात् सहभुवो-
ऽपि सर्वत्रगा व्यवस्थाप्यन्ते, तस्माच्चतुष्कोटिकं क्रियते। प्रथमा कोटिरनागताः
सर्वत्रगा अनुशया इति । एते सर्वत्रगस्य स्वामान्यात् । न सर्वत्रगहेतुरनागता-
१. तृतीया०-का०; तृतीयचतुर्थ्यो-जा० ।
निर्देशः ] पञ्चमं कोशस्थानम् ७८६
एषामष्टानवतेरनुशयानां कति सास्रवालम्बनाः ? कत्यनास्रवालम्बनाः ?
मिथ्यादृग्बिमती ताभ्यां युक्ताऽविद्याऽथ केवला ।
निरोधमार्गदृग्घेयाः षडनास्रवगोचराः ॥ १४ ॥
निरोधदर्शनप्रहातव्यास्त्रयोऽनुशया मिथ्यादृष्टिविचिकित्साऽविद्या च, ताभ्यां
सम्प्रयुक्ताऽऽवेणिकी च । मार्गदर्शनप्रहातव्या अप्येत एव त्रयः ।
इत्येते षडनास्रवालम्बनाः, शेषाः सास्रवालम्बना इति सिद्धम् ॥ १४ ॥
तत्र पुनः—
स्वभूम्युपरमो मार्गः षड्भूमिनवभूमिकः ।
वस्थायां सर्वत्रगहेतोरनवस्थापनात् । द्वितीया अतीतप्रत्युत्पन्नाः तत्सहभुवः ।
सर्वत्रगसहभुवोऽतीतप्रत्युत्पन्नत्वात् सर्वत्रगहेतुर्भवन्ति । न सर्वत्रगा अनुशयाः,
अननुशयस्वभावत्वात् । तृतीयचतुर्थ्यो १ योज्ये । तृतीया—अतीतप्रत्युत्पन्नाः
सर्वत्रगा अनुशयाः । चतुर्थी—तानाकारान् स्थापयित्वा । तद्यथा—अनागतास्त-
त्सहभुवः, प्राप्त्यादयश्च ॥ १३ ॥
"षडनास्रवगोचराः” इति । षडेवेत्यवधारणम् । तस्मान्न रागादयोऽनास्रवा-
लम्बना युज्यन्ते । 'न रागस्तस्य वर्ज्यत्वान्न द्वेषोऽनपकारतः' (अभि० को० ५.१६)
इत्यादिवचनात् । अविद्या च ताभ्यामिति । मिथ्यादृष्टिविचिकित्साभ्यां या
सम्प्रयुक्ता । या चावेणिकी अविद्या । स एकोऽविद्यानुशय इति । त्रयो निरोध-
दर्शनप्रहातव्या अनास्रवालम्बनाः । एवं मार्गदर्शनप्रहातव्या अप्येत एव त्रय
इति । षड् भूमौ भूमौ भवन्ति ॥ १४ ॥
“तद्गोचराणां विषयः” इति । तौ निरोधमार्गौ गोचर एषामिति
तद्गोचराः, तेषां यथाक्रमं त्रयाणाम् ।
“स्वभूम्युपरमः” । स्वभूमिनिरोधः । गोचरः आलम्बनम् । मार्गस्तु धर्मज्ञान-
पक्ष्यः षड्भूमिकोऽन्वयज्ञानपक्ष्यो नवभूमिको मार्गगोचराणामपरेषां त्रयाणा-
मनुशयानामालम्बनम् । कथं कृत्वा ? निरोधालम्बना एते त्रयोऽनुशया २ नवभूमिका
भवन्ति कामावचरा यावद् भवाग्रिकाः । तेषां कामावचराणां कामावचरधर्म-
निरोध एवालम्बनम् । प्रथमध्यानभूमिकानां प्रथमध्यानभूमिकधर्मनिरोध
एवालम्बनम् । तेषां यावद् भवाग्रभूमिकानां भवाग्रभूमिकधर्मनिरोध एवा-
लम्बनम् । मार्गस्तु धर्मज्ञानपक्ष्यः षड्भूमिकः । अनागम्यध्यानान्तरभूमिकः,
१. ०चतुष्टयो—जा० । २. त्रयानुशगा—जा० ।
अभि० को० ३:३
Here is the line-by-line transcription of the Sanskrit text from the provided image:
७९० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
तद्गोचराणां विषयो मार्गो ह्यन्योऽन्यहेतुकः ॥ १५ ॥
निरोधालम्बनानां मिथ्यादृष्ट्यादीनां स्वभूमिनिरोध एवालम्बनं कामावचराणां
कामधातोरेव, यावद् भवाग्रभूमिकानां भवाग्रस्यैव । मार्गालम्बनानां कामावचराणां
षड्भूमिको धर्मज्ञानपक्षो मार्गः सर्व एवालम्बनम् । योऽपि रूपारूप्यप्रतिपक्षः
रूपारूप्यावचराणामप्यष्टभूमिकानां नवभूमिकः, स एवान्वयज्ञानपक्ष्यो मार्ग
आलम्बनम्; मार्गस्यान्योन्यहेतुकत्वात् ।
यद्यपि धर्मज्ञानान्वयज्ञाने अप्यन्योन्यहेतुके अन्वयज्ञानं$^१$ न$^१$ कामधातुप्रति-
पक्ष इति; न कामावचरा मार्गालम्बना अन्वयज्ञानपक्षानालम्बन्ते ।
धर्मज्ञानं तर्हि रूपारूप्यप्रतिपक्षत्वात् तद्भूमिकानां मार्गालम्बनामालम्बनं
चतुर्थध्यानभूमिकञ्च । स सर्व एव कामावचराणामेषां त्रयाणामनुशयानामा-
लम्बनम् । अन्वयज्ञानपक्ष्यः पुनर्नवभूमिकः । अनागम्यध्यानान्तरचतुर्थध्याना-
काशविज्ञानाकिञ्चन्यायतनभूमिकः । स सर्व एव प्रथमध्यानभूमिकानामेषां
त्रयाणामनुशयानामालम्बनम् । एवं यावद् भवाग्रभूमिकानामिति ।
कस्मात् पुनः स्वभूमिनिरोध एव तद्गोचरा लम्बनम्, मार्गस्तु षड्भूमिकोऽपि
वा नवभूमिकोऽपि वा तेषामालम्बनमिति ? अत्र हेतुं दर्शयति—"मार्गो ह्यन्योन्य-
हेतुकः" इति । कथमन्धोग्यहेतुकः ? षड्भूमिको धर्मज्ञानपक्ष्यो मार्गोऽधरभूमि-
कस्योर्ध्वभूमिकस्य वा, समस्य विशिष्टस्य वा धर्मज्ञानपक्ष्यान्तरस्यान्यवयज्ञान-
पक्ष्यस्यापि च मार्गस्य हेतुर्भवति । सोऽपि तस्यान्यवयज्ञानपक्ष्यो$^२$ नवभूमिको
योज्यः । विस्तरेणैतद् व्याख्यातम्—"अन्योन्यनवभूमिस्तु मार्गः समविशि-
ष्टयोः" (अभि० को० २. ५३) इत्यत्र ।
तदेवं कामावचराणां मार्गालम्बनानामनागम्यभूमिको धर्मज्ञानपक्ष्यो याव-
कचतुर्थध्यानभूमिक आलम्बनम् । अन्वयज्ञानपक्ष्योऽपि मार्गोऽनागम्यभूमिको
यावदाकिञ्चन्यायतनभूमिकः प्रथमध्यानभूमिकानामेषां मार्गालम्बनानामा-
लम्बनम् । एवं यावद् भवाग्रभूमिकानामिति ।
यदि कामावचरा मार्गालम्बना मिथ्यादृष्ट्यादयो रूपारूप्यप्रतिपक्षमपि
निरोधमार्गाख्यं धर्मज्ञानमालम्बन्ते, सकलोऽपि हि धर्मज्ञानपक्ष्योऽन्योन्यहेतुक
इति; कस्मात् त एव मिथ्यादृष्ट्यादयोऽन्वयज्ञानपक्ष्यमपि मार्गं नालम्बन्ते;
धर्मज्ञानान्वयज्ञानयोरन्योन्यहेतुत्त्वाद् ? इत्याह -- यद्यपि धर्मज्ञानान्वयज्ञान
१-१. नत्वन्वयज्ञान-का० । २. ०पक्षो-जा० ।
निर्देशः ] पञ्चमं कोशस्थानम् ७६१
भविष्यति । न तत् सकलं प्रतिपक्षः, दुःखसमुदयधर्मज्ञानयोरेतदप्रतिपक्षत्वात्¹ ।
नापि सकल्यो रूपारूप्ययोर्दर्शनप्रहातव्यानामप्रतिपक्षत्वादित्याद्याभावाच्च भवत्या-
लम्बनम् ॥ १५ ॥
अथ कस्माद्रागप्रतिघमाना दृष्टिशीलव्रतपरामर्शौ चानास्रवालम्बना नेष्यन्ते ?
न रागस्तस्य वर्ज्यत्वात्
वर्जनीयो हि रागः यदि चानास्रवालम्बनः स्यान्न वर्जनीयः स्यात् ;
कुशलधर्मच्छन्दवत् ।
इति । विस्तरः—अन्वयज्ञानं न कमधातुप्रतिपक्ष इति । न ते तदालम्बन्ते । धर्म-
ज्ञानं तर्हीति विस्तरः ।
“धर्मज्ञानं निरोधे यन्मार्गे वा भावनापथे ।
त्रिधातुप्रतिपक्षस्तद्” (अभि० को० ६.९) इति सिद्धान्ताद् धर्मज्ञानं
रूपारूप्यप्रतिपक्ष्यस्तदभावात् तद्भूमिकानं रूपारूप्यभूमिकानां मिथ्यादृष्ट्या-
दीनामालम्बनं भविष्यति । न तत्सकलमिति विस्तरः । न तद् धर्मज्ञानं सकलं
प्रतिपक्षो रूपारूप्यधात्वोः । किं तर्हि ? किं कारणम् । दुःखसमुदयधर्मज्ञानयो-
र्भावनामार्गसंगृहीतयोरेतदप्रतिपक्षत्वात् । रूपारूप्यधात्वोरप्रतिपक्षत्वादित्यर्थः ।
अतो न रूपारूप्यावचराणां मिथ्यादृष्ट्यादीनां तद्धर्मज्ञानमालम्बनम् । किञ्च
नापि सकलयोरिति विस्तरः । नापि सकलयो रूपारूप्यधात्वोस्तद्धर्मज्ञानं
प्रतिपक्षः । कि कारणम् ? दर्शनप्रहातव्यानामप्रतिपक्षत्वात् “धर्मज्ञानं निरोधे
यन्मार्गे वा भावनापथे” (अभि० को० ६ ६) इति वचनात् ।
अत्र निगमनं करोति—इत्याद्याभावाच्च भवत्यालम्बनमिति । दुःख-समुदय-
निरोधमार्गाणामद्यायोर्दुःखसमुदयधर्मज्ञानयोर्यथोक्तरूपारूप्यप्रतिपक्षत्वं प्रत्य-
भावात् । रूपारूप्यावचराणां दर्शनभावनाप्रहातव्यानां चाद्येषु दर्शनप्रहातव्येषु
प्रतिपक्षत्वं प्रति तस्य धर्मज्ञानस्याभावात् । न तद्भूमिकानां मिथ्यादृष्ट्यादीनां
मार्गालम्बनानां रूपारूप्यभूमिकानां धर्मज्ञानमालम्बनं भवति । तदेवं त्रैधातुका-
नष्टादशानास्रवालम्बनानपास्य शेषा अशीतिरनुशयाः सर्वालम्बनाः—इति
स्थापितम् ॥ १५ ॥
न वर्जनीयः स्यादिति । न प्राप्तिच्छेदेन प्रहेयः स्यादित्यर्थः । यथा कुशलो
धर्मच्छन्दोऽभिलाषरूपः सम्यग्दृष्टिरिति न प्राप्तिच्छेदेन प्रहेयः, तद्वदयं स्यात् ।
अतो नाऽनास्रवालम्बनः।
१. • र्तत्प्रतिपक्ष०—का० ।
७६२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
न द्वेषोऽनपकारतः ।
अपकारवस्तुनि हि प्रतिघ उत्पद्यते । न चैवं निरोधमार्गौ ।
न मानो न परामर्शौ शान्तशुद्धयग्रभावतः ॥ १६ ॥
निरोधमार्गयोः शान्तत्वान्न ताभ्यामुन्नतिर्भवितुमर्हति । भूतार्थशुद्धित्वाच्च तयोः
शुद्धिग्राहः शीलव्रतपरामर्शः । अग्रौ च तौ । हीने चाग्रग्राहो दृष्टिपरामर्शः ।
तस्माद्युक्तमेषामानास्रवालम्बनत्वम् ॥ १६ ॥
एषामष्टानवतेरनुशयानां कत्यालम्बनतोऽनुशेरते ? कति सम्प्रयोगत एव ?
सर्वत्रगा अनुशयाः सकलामनुशेरते ।
स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः ॥ १७ ॥
ये सर्वत्रगा अनुशयास्ते सकलां पञ्चप्रकारामपि स्वां भूमिमालम्बनतोऽनु-
शेरते । असर्वत्रगास्तु स्वस्यां भूमौ स्वमेव निकायमालम्बनतोऽनुशेरते, नान्यम् ।
तद्यथा—दुःखदर्शनप्रहातव्या दुःखदर्शनप्रहातव्यमेव निकायम्, एवं यावद्भावना-
प्रहातव्या भावनाप्रहातव्यमेव, नान्यम् ॥ १७ ॥
उत्सर्गं कृत्वाऽपवादं करोति—
नानास्रवोर्ध्वविषयाः,
“न द्वेषोऽनपकारतः” इति । नवाघातवस्तुलक्षणव्यतीतत्वान्निरोधमार्ग-
योर्नात्र द्वेषः; भूतार्थशुद्धित्वादिति । भूतार्थेन शुद्धिः = निरोधः । क्लेशमल-
प्रहीणत्वात् । मार्गोऽपि परमार्थशुद्धिः, परमार्थेन शुद्धयत्यनयेति कृत्वा ।
यस्तयोः शुद्धिरिति ग्राहो न शीलव्रतपरामर्श इति युज्यते व्यवस्थापयितुम् ।
अग्रौ च ताविति । भूतार्थशुद्धित्वात् तौ निरोधमार्गौ अग्रौ । अपि च—परामर्शौ
यद्यनास्रवालम्बनौ स्याताम्, सम्यग्दृष्टिलक्षणं भजेताम्; शुद्धत्वादग्रत्वाच्चाना-
स्रवाणाम् । अतश्च न दर्शनहेयौ स्यातामग्रौ । हीने च वस्तुन्यग्र इति ग्राहो दृष्टि-
परामर्शो युज्यते, न चैवं निरोधमार्गाविति । न तयोरग्रग्राहो दृष्टिपरामर्शो
भवति ॥ १६ ॥
कत्यालम्बनतोऽनुशेरते, कति सम्प्रयोगत एवेति । कत्यालम्बनत एवेति
नावधारणेन पृच्छति; यस्माद् य आलम्बनतोऽनुशेरते, तेऽवश्यं सम्प्रयोगतो-
ऽनुशेरत इति । ये तु सम्प्रयोगत एवानुशेरते, ते नालम्बनतोऽनास्रवविसभाग-
भूम्यालम्बना अनुशया इति ॥ १७ ॥
निर्देशः ] पञ्चमं कोशस्थानम् ७६३
अनास्रवालम्बना अनुशाया नैवालम्बनतोऽनुशेरते । नाप्यूर्ध्वभूम्यालम्बनाः ।
किं कारणम् ? तदालम्बनस्य वस्तुनः
अस्वीकाराद्विपक्षतः ।
यदि वस्त्वात्मदृष्टितृष्णाभ्यां स्वीकृतं भवति तत्रान्येऽप्यनुशया अनुगमयितु-
मुत्सहन्ते । आर्द्र इव पटे रजांसि संस्थातुम् । न चैवमनास्रावाः, नाप्येवमूर्ध्वा
भूमिः । अतो न तदालम्बनास्तेष्वनुशेरते । यस्त्विहस्थस्तां भूमिं प्रार्थयते,
कुशलोऽसौ धर्मच्छन्दः विपक्षभूतौ च निर्वाणमार्गौ तदालम्बनानां क्लेशानामूर्ध्वा
च भूमिरधराणाम् । अतो न तेषु प्रतिष्ठां लभन्ते तप्त इवोपले तलानि
पादानाम् ।
आनुगुण्यार्थोऽत्रानुशयार्थः । न च ते तदनुगुणा इत्यपरे । वाति-
कस्य रूक्षाननुशयनवत् । अत उक्ता आलम्बनतोऽनुशेरते ।
येन यः सम्प्रयुक्तस्तु स तस्मिन् सम्प्रयोगतः ॥ १८ ॥
'अनुशेरते' इति वर्तते । योऽनुशयो येन धर्मेण संप्रयुक्तस्तस्मिन् संप्रयोगतो-
ऽनुशेते । यावदप्रहीण इति विशेषणार्थस्तुशब्दः । स्युरनुशया नानास्रवालम्बना
न विसभागतुसर्वत्रगाः । ते चानुशयाः सम्प्रयोगतोऽनुशयीरन्नालम्बनतः, न
स्युर्विसभागभूमिसर्वत्रगा अनुशायाः ॥ १८ ॥
एषामष्टानवतेरनुशयानां कत्यकुशलाः ? कत्यव्याकृताः ?
ऊर्ध्वमव्याकृताः सर्वे,
रूपारूप्यावचरास्तावत् सर्व एवाव्याकृताः । किं कारणम् ? क्लिष्टानां धर्माणां
दुःखविपाकः स्यात् । तच्च तयोर्नास्ति ; परव्याबाधहेत्वभावात् ।
आनुगुण्यार्थोऽत्रानुशयार्थः । न तद्भूमिकाः प्रत्ययास्तदुपपत्तये आनुगुण्येन
वर्तन्त इति । न च ते तदनुगुणा इति । न च ते निरोधादयः तेषां मिथ्या-
दृष्ट्यादीनामनुगुणाः, वातिकस्य रूक्षाननुशयनवत् । यथा 'वातिकस्य रूक्षं
नानुशेते' इत्युक्ते 'न कायस्यानुगुण्येन वर्तते' इति गम्यते । पूर्वस्मिंस्तु पक्षे
प्रतिष्ठालाभार्थः न तेषु प्रतिष्ठां लभत इति वचनात् ।
येन धर्मेणेति । वेदनादिना ॥ १८॥
तच्च तयोर्नास्तीति । तच्च दुःखं तयोः रूपारूप्यधात्वोर्नास्ति । कस्मात् ?
परव्याबाधाहेत्वभावात् । परव्याबाधस्य हेतुर्व्यापादादिः, तस्याभावात् ।
७९४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
कामे सत्कायदर्शनम् ।
अन्तग्राहः सहाभ्यां च मोहः,
कामधातौ सत्कायान्तग्राहदृष्टी तत्सम्प्रयुक्ता चाविद्या अव्याकृताः । किं
कारणम् ? दानादिभिरविरुद्धत्वात् । 'अहं प्रेत्य सुखी भविष्यामि' इति दानं ददाति
शीलं रक्षति । उच्छेददृष्टिरपि मोक्षानुकूला ।
अतएवोक्तं भगवता—"एतदग्रं दृष्टिगतानां¹ यदुत नो च स्यां नो च
मे स्यान् न भविष्यामि न मे भविष्यति" ( ) इति ।
अपि चानयोर्दृष्ट्योः स्वद्रव्यसम्मूढत्वात्परपीडाप्रवृत्तत्वाच्च स्वर्गतृष्णा-
ऽस्मिमानयोरप्येष² प्रसङ्गः ।
सहजा सत्कायदृष्टिरव्याकृता । या मृगपक्षिणामपि वर्तते । विकल्पिता
त्वकुशलेति पूर्वाचार्याः ।
शेषास्त्वशुभाः ॥ १९ ॥
एतदग्रं दृष्टिगतानामिति । एतद् विशिष्टं दृष्टिप्रकारेभ्यः । नातिसावद्यमि-
त्यर्थः । मोक्षो मार्गोपनिषत्, उच्छेदस्तु निर्हेतुकोऽभिप्रेत इति, भ्रान्तेः
सावद्यमुच्छेददर्शनमिति विशेषः । स्वद्रव्यसम्मूढत्वादिति । स्वसन्ततिपतिताना-
मुपादानस्कन्धानामात्मात्मीयत्वेन ग्रहणात् स्वद्रव्यसम्मूढा सत्कायदृष्टिः ।
तेषामेव शाश्वतोच्छेदग्राहदृष्टिरपि तथैव । यथा च ते दृष्टी तथा तत्सम्प्र-
योगिमप्यविद्येति ।
अपरपीडाप्रवृत्तत्वाच्च । किम् ? अव्याकृते सत्कायान्तग्राहदृष्टी इति
प्रकृतम् । ते हि न काचिदपि परपीडां कुरुतः । स्वर्गतृष्णास्मिमानयोरप्येष
प्रसङ्ग इति । स्वर्गतृष्णाया अस्मिमानस्य च दानादिभिरविरोधात् स्वद्रव्य-
सम्मूढत्वाद्³ अपरपीडाप्रवृत्तत्वाच्चाव्याकृतत्वप्रसङ्गः । न चेष्यते ।
तस्मान्नैभिः कारणैरनयोऽव्याकृतत्वमित्येनाभिप्रायेण पूर्वाचार्यमतमुपस्था-
पयति—सहजा सत्कायदृष्टिरित्यादि । विकल्पिता त्वकुशलेति । या आत्मवा-
दिभिः कपिलोल्लूकादिभिर्विकल्पिता सा नाव्याकृता, कि तर्हि ? अकुशलेति ।
अन्तग्राहदृष्टिरपि । या तैर्विकल्पिता, साऽप्यकुशला । तत्पूर्वकत्वाच्च सा तुल्य-
वर्तेत्यनुक्तापि गम्यत एव ।
१. बाह्यकानां दृष्टि०-का० । २. ऽरप्येवं—का० ।
३. °सम्मूढत्वात्-जा० ।
निर्देशः ] पञ्चमं कोशस्थानम् ७९५
शेषास्त्वशुभा अनुशयाः कामधातावकुशलाः ॥ १९ ॥
कत्यकुशलमूलानि ? कति न ?
कामेऽकुशलमूलानि रागप्रतिघमूहयः ।
कामधातौ सर्वरागः सर्वप्रतिघः सर्वो मोहोऽन्यत्र सत्कायान्तग्राहदृष्टि-
सम्प्रयुक्ताद् यथाक्रमम् ।
त्रीण्यकुशलमूलानि,
लोभोऽकुशलमूलम्, द्वेषो मोहोऽकुशलमूलम् । यद्यकुशलं¹ चाकुशलस्यैव
मूलमिष्टम्¹, एत एवाकुशलमूलानि । शेषा अनुशया नाकुशलमूलानीति सिद्धम् ।
कत्यव्याकृतमूलानि ? कति न ? त्रीण्यव्याकृतमूलानि । कतमानि त्रीणि ?
तृष्णाविद्या मतिश्च सा ॥ २० ॥
'सा' इत्यव्याकृततां दर्शयति । या काचिदव्याकृता तृष्णा अविद्या प्रज्ञा
चान्ततो विपाकजा अपि सर्वाऽसावव्याकृतमूलमिति काश्मीराः ॥ २० ॥
“शेषास्त्विहाशुभाः” इति । इहेति कामावचरशेषाभिसङ्ग्रहार्थम् । काम-
धातौ सत्कायदृष्ट्यादिशेषाः क्लेशां अकुशला एवेत्यवधार्यते ॥ १९॥
कत्यकुशलमूलानि, कति नेति । एषामष्टानवतेरनुशयानामित्यनुवृत्तत्वेनैवं
विसर्जनं क्रियते ।
“कामेऽकुशलमूलानि रागप्रतिघमूहयः२” इति । कामधातौ ये राग-प्रतिघ-
मोहाः ते सर्व एव पञ्चप्रकाराः अप्यकुशलमूलानि; कुशलमूलविपक्षेण
व्यवस्थापनात् । नान्येऽनुशया इति । मूढिरिति मोहपर्यायः । सर्वो मोहः
अन्यत्र सत्कायान्तग्राहदृष्टिसम्प्रयुक्तान्मोहादिति । कथमिह न सूत्रितं लभ्यते ?
“अशुभाः” (अभिः ५.१९) इत्यधिकाराद्, एकदेशनिर्देशात् । अत एवोच्यते-
यद्यकुशलं चाकुशलस्यैव च मूलम्, इष्टमिति । एतदेवेत्यवधारणाच्छेषा अनुशया
मिथ्यादृष्ट्यादयो नाकुशलमूलानीति सिद्धम् ॥
"त्रीण्यव्याकृतमूलानि" इति । एषामेवाष्टानवतेरनुशयानां त्रीणि अव्या-
कृतमूलानीति । त्रिग्रहणं बहिर्देशकमताद् विशेषणार्थः । त्रीण्येव, न चत्वारीति ।
कतमानि त्रीणि ? इत्याह-- "तृष्णाऽविद्या मतिश्च सा । सेति अव्याकृततां
दर्शयति । अव्याकृतमूलानीति । अनेनाव्याकृतशब्देन केवलेन तृष्णाविद्या-
१-१. यद्धद्यकुशलं चाकुशलस्य च मूलं तदेवाकुशलमूलमिष्टम्-का० ।
२. ºमूढया-जा० ।
७६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
द्वैधोर्ध्ववृत्तेर्मातोऽन्यौ,
विचिकित्सा किल द्वैधवृत्तेर्न मूलं भवितुमर्हति; चलत्वात् । उन्नत्तिलक्षणेनोर्ध्व-
वृत्तेर्न मानो मूलम् । विविधस्मृतिमूलानि हि स्थिराण्यधोवृत्तीनि च लोके
दृष्टानीति ।
चत्वार्येवेति बाह्यकाः ।
बाह्यकाश्चत्वार्यव्याकृतमूलानीच्छन्ति ।
तृष्णादृङ्मानमोहास्ते,
त इत्यव्याकृता इति दर्शयति । अव्याकृता तृष्णा दृष्टिर्मानोऽविद्या च ।
किं कारणमेतान्यव्याकृतमूलानीच्छन्ति ?
ध्यायित्रित्वादविद्यया ॥ २१ ॥
यस्मत् त्रयो ध्यायिनः । तृष्णादृष्टिमानोत्तरध्यायिनः । ते चाविद्यावशाद्
भवन्तीति ॥ २१ ॥
मतयो विशेषिता इति दर्शयति । अत्र च मतिरक्लेशस्वभावाप्यव्याकृतमूल-
मितीष्यते वैभाषिकैः । या काचिदव्याकृता तृष्णेति । आस्वादनासम्प्रयुक्तेषु
ध्याना रूप्येषूपपत्तिकाले वा विमानादिषु सम्भवतः । या काचिदविद्या रूपा-
रूप्यधात्वोः कामधातौ च सत्कायान्तग्राहदृष्टिसम्प्रयोगिनीति । एवं प्रज्ञा च
या काचिदव्याकृता । अन्ततो विपाकजापि । कामधातौ विपाकजैर्यापथिक-
शैल्पस्थानिक-निर्माणचित्तसम्प्रयुक्ता सत्कायान्तग्राहदृष्टिसम्प्रयुक्ता च रूपा-
रूप्यधात्वोः सर्वक्लेशसम्प्रयुक्ता प्रज्ञा । विपाकजादिसम्प्रयुक्ता च यथासम्भ-
वमव्याकृता प्रज्ञा । द्वैधवृत्तेरिति । द्विधाभावो द्वैधम्, द्वैधे वृत्तिः तस्याः ॥२०॥
न विचिकित्सा मूलं भवितुमर्हति; द्विधावृत्तित्त्वञ्चलत्वात् । उन्नत्तिलक्षणेनेति ।
उन्नतेर्लक्षणम्, तेन ऊर्ध्ववृत्तिर्भवति । तस्मान्न मानो मूलं भवितुमर्हति ।
मूलानि स्थिराण्यधोवृत्तीनि चेति । मूलवैधर्म्यान्न विचिकित्सा मूलम्; अस्थिर-
त्वात् । न मानः; अनधोवृत्तित्वादिति वक्तव्यम् ।
ते इत्यव्याकृताः । अव्याकृता तृष्णेति । रूपारूप्यधात्वोः । दृष्टिरपि
तयोश्च कामधातौ च सत्कायान्तग्राहदृष्टिस्वभावा । अविद्यापि कामधातौ तत्स-
म्प्रयोगिन्येव । रूपारूप्यधात्वोश्च सर्वा । तृष्णादृष्टिमानोत्तरध्यायिन इति ।
य आस्वादनासम्प्रयुक्तध्यानध्यायी, स तृष्णोत्तरध्यायी । यो ध्याननिश्चयेण
शाश्वतादिदृष्टिमुत्पादयति, स दृष्ट्युत्तरध्यायी, मानोत्तध्यायी च । यश्च मन्यते-
निर्देशः ] पञ्चमं कोशस्थानम् ७५७
यानि सूत्रे चतुर्दशाव्याकृतवस्तूनि, किं तानि अव्याकृतत्वात् ? नेत्याह ।
किं तर्हि ? स्थापनीयः प्रश्नोऽव्याकृत इत्युक्तम् । चतुर्विधो हि प्रश्नः—
एकांशव्याकरणीयः, विभज्यव्याकरणीयः, परिपृच्छय व्याकरणीयः, स्थापनीयश्च ।
तत्र यथाक्रमं वेदितव्यम्—
एकांशतो व्याकरणं विभज्य परिपृच्छय च ।
स्थाप्यं च मरणोत्पत्तिविशिष्टात्माऽन्यतादिवत् ॥ २२ ॥
‘किं सर्वसत्त्वा मरिष्यन्ति’ इत्येकांशेन व्याकर्त्तव्यम्—मरिष्यन्तीति ।
‘किं सर्वे जनिष्यन्ते’ इति विभज्य व्याकर्त्तव्यम्—सक्लेशा¹ जनिष्यन्ते,
न निःक्लेशा इति ।
‘किं मनुष्यो विशिष्टो हीनः’ इति परिपृच्छय व्याकर्त्तव्यम्—कानधिकृत्य
प्रश्नयसीति । यदि ब्रूयाद्—देवानिति । हीन इति व्याकर्त्तव्यम् । अथ ब्रूयाद्—
अपाय़ानिति । विशिष्ट इति व्याकर्त्तव्यम् ।
‘लाभी अहमस्य ध्यानस्य, नान्ये तथा’ इति, स मानोत्तरध्यायी । तत्र तृष्णोत्तरम्
तृष्णोपरिकम्, ध्यातुं शीलमस्येति तृष्णोत्तरध्यायी । अथ वा—तृष्णोत्तरश्च
तृष्णाधिक इत्यर्थः, ध्यायी च तृष्णोत्तरध्यायी । एवं दृष्ट्युत्तरध्यायी च,
मानोत्तरध्यायी च । ते चाविद्यावशाद् भवन्तीति । ते च त्रयो ध्यायिनोऽविद्या-
वशाद् अविद्यायोगात् तथा भवन्ति । अतोऽविद्याप्यव्याकृतमूलमिति । समा-
पत्तिसमापन्नानां च एताः क्लेशसमुदाचारावस्थाः अव्याकृतानां धर्माणां मूलं
कारणमिति ॥ २१ ॥
अव्याकृतसम्बन्धेन पर्यनुयुङ्क्ते—यानि सूत्रे चतुर्दशाव्याकृतवस्तूनीति ।
विस्तरः—शाश्वतो लोकः, अशाश्वतो लोकः—इत्येवमादि । किं तान्यव्याकृतत्वा-
दिति । किं तानि नैव कुशलानि, नाकुशलानीत्यव्याकृतत्वात् । नाव्याकृतवस्तु-
न्यपदिश्यन्ते । स्थापनीयः प्रश्नोऽव्याकृत इति । यः स्थापनीयत्वेन न व्याकृतो
न कथितः, सोऽव्याकृतः प्रश्नः, तस्य वस्त्वधिष्ठानमित्यव्याकृतवस्तु ।
तत्प्रसङ्गेनेदमुपन्यस्यते—चतुर्विधो हि प्रश्नः इति विस्तरः ।
मरणोत्पत्तिविशिष्टात्माऽन्यतादिवदिति । मरणवत्, उत्पत्तिवत्, विशिष्टवत्,
आत्माऽन्यतादिवदिति । यथासङ्ख्यमेकांशव्याकरणादिषूदाहरणानि । मरि-
१ संक्लेशाः—का० ।
७६८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
'किमन्यः स्कन्धेभ्यः सत्त्वोऽनन्यः' इति स्थापनीयः, सत्त्वद्रव्यस्याभावात्,
बन्ध्यापुत्रश्यामगौरत्वादिवत् ।
कथमेतद् व्याकरणं भवति—अव्याकृतमेतदिति ? एवं व्याकरणात् ।
अपर आह—इदमप्येकांशेन² व्याकरणं² यन्न सर्वे जनिष्यन्त इति । यस्तु पृच्छेद्
ये मरिष्यन्ति किं ते जनिष्यन्त इति³, तस्य विभज्यव्याकरणीयं³ स्यात् । मनुष्येषु
चोभयमस्ति—हीनत्वं विशिष्टत्वं चापेक्षिकमित्युभयमेकांशेन व्याकर्तव्यम् । तद्यथा
ष्यन्तीति मरणोदाहरणमेकांशव्याकरणे । 'सक्लेशा जनिष्यन्ते न निःक्लेशाः'
इत्युत्पत्त्युदाहरणं परिपृच्छाव्याकरणे । 'किमन्यः स्कन्धेभ्यः सत्त्वः' इति
आत्माभ्यतोदाहरणं स्थापनीयव्याकरणे इति । 'किं सर्वसत्त्वाः मरिष्यन्ति'
इत्येकांशेन व्याकर्तव्यमिति । यथोक्तं भगवता—“अल्पकं भिक्षवे मनुष्याणां
जीवितम्, गमनीयः सम्परायः, चरितव्यं कुशलम्, नास्ति जातस्यामरणम्”
इति । 'किमन्यः स्कन्धेभ्यः सत्त्वोऽनन्यः' इति स्थापनीय इति । यथोक्तं
भगवता—“किन्नु भो गौतम, स करोति, स प्रतिसंवेदयते ? अव्याकृतमेतद्
ब्राह्मण । अन्यः करोति, अन्यः प्रतिसंवेदयते ? अव्याकृतमेतद् ब्राह्मण । 'सः
करोति, स प्रतिसंवेदयते' इति पृष्टः 'अव्याकृतमेतद्' इति वदसि, 'अन्यः
करोति, अन्यः प्रतिसंवेदयते' इति पृष्टः 'अव्याकृतमेतद्' इति वदसि; तत्
कोऽत्र खल्वस्य भवतो गौतमस्य भाषितस्यार्थः ? 'स करोति, स प्रतिसंवेदयते'
इति ब्राह्मण ! शाश्वताय परैति, 'अन्यः करोति, अन्यः प्रतिसंवेदयते' इति
उच्छेदाय परैति; एतावन्तावनुगम्य तथागतो मध्यमया प्रतिपदा धर्मं देशयति”
( ) इति ।
अपर आहेति । भदन्तररामः । इदमप्येकांशेन व्याकर्तव्यम्--न सर्वे जनि-
ष्यन्त इति । न केवलमिदमेकांशेन व्याकर्तव्यम्--सर्वे सत्त्वा मरिष्यन्तीति ।
यस्तु पृच्छेदिति विस्तरेणाचार्यः । यस्तु पृच्छेद्—अनेन प्रकारेण ये मरिष्यन्ति
किं ते जनिष्यन्त इति । तस्य विभज्यव्याकरणं स्यात्—न सर्वे जनिष्यन्ते, किं
तर्हि ? सक्लेशा जनिष्यन्ते, न निःक्लेशा इति । तस्माद्यदुक्तम्—इदमेकांशेन
व्याकर्तव्यम् 'न सर्वे जनिष्यन्ते' इति, तन्नोपपद्यते । तेन युज्यत एव वैभाषि-
कोदाहरणमित्यभिप्रायः ।
स एव भदन्तराम आह—“मनुष्येषु चोभयमस्ति—हीनत्वं विशिष्टत्वं च ।
एतदुभयमापेक्षिकमस्तीत्युभयं व्याकर्तव्यम् । तद्यथा—किं विज्ञानं कार्यं
२-२. ०प्येकांशव्याकरणम्-का० । ३-३. इत्येतद्विभज्य०-का० ।
निर्देश: ] पञ्चमं कोशस्थानम् ७६६
'किं¹ विज्ञानं कार्यं कारणं च' इति एकान्तेन तु पृच्छतो नैकान्तव्याकरणाद् विभज्य-
व्याकरणं युज्यते । स्कन्धेभ्योऽन्यः सत्त्व इत्येतदव्याकृतमेव । न चाव्याकरणमेव
व्याकरणं युज्यत इति ।
यस्तु स्थापनीयः प्रश्नः स्थापनीयत्वेन व्याक्रियते, कथं न व्याकृतो
भवति ?
आभिधर्मिका आहुः—तथागतो भगवानर्हन् , सम्यक् स्वाख्यातोऽस्य
धर्मः, सुप्रतिपन्नः श्रावकसंघः रूपमनित्यं यावद्विज्ञानं दुखप्रज्ञप्तिर्यावन्मार्गप्रज्ञप्ति-
रेकांशेन व्याकर्तव्यमर्थोपसंहितत्वात् । विभज्यव्याकरणं नाम यदि कश्चिद् ब्रूयाद्—
धर्मन् वदेति, स वक्तव्यः-बहवो धर्मा अतीता अनागताः प्रत्युत्पन्नाः कतमान्
वदामीति । यदि ब्रूयादतीतानिति, स वक्तव्यः—अतीता अपि बहवो रूपं यावद्विज्ञान-
मिति । अथ ब्रूयाद् रूपमिति, स वक्तव्यः —रूपमपि त्रिविधं कुशलमकुशलमव्याकृतं
च । यद्याह—कुशलमिति, तदपि सप्तप्रकारं प्राणातिपाताद्विरतिर्यावत्संभिन्नप्रलापा-
दिति। यद्याह-प्राणातिपाताद्विरतिमिति, साऽपि त्रिप्रकारा- अलोभजा, अद्वेषजा,
अमोहजा । यद्याह-अलोभनामिति, अलोभजापि द्विविधा - विज्ञप्त्यविज्ञप्तिभेदा-
दित्येवं विभज्य वक्तव्यमिति : एतदेव² शठस्य परिपृच्छाद्य व्याकरणम् । तस्य
कारणम् — इति प्रश्न एकांशेन व्याक्रियते—हेतुफलापेक्षया कारणं कार्यं चेति ।
तत्र यदुक्तम् —'कि मनुष्यो हीनो विशिष्टः' इति परिपृच्छ्या व्याकर्तव्यम्—
'कानधिकृत्य प्रश्नयसि' इति, तदयुक्तम् ; यस्मादयमेकांशेन व्याकरणीयः
प्रश्न इति । 'एकान्तेन तु पृच्छतः' इत्याचार्यो वैभाषिकपक्षं समर्थयति ।
'एकान्तेन तु पृच्छतः कि मनुष्यो हीन एवविशिष्ट एवेति नैकान्तव्याकरणाद्
हीन इति वा, विशिष्ट इति वा विभज्यव्याकरणं युज्यते— कानधिकृत्य प्रश्न-
यसीति । तत्र यदुक्तम्—मनुष्येष्वेवोभयमस्तीति विस्तरेण; तदयुक्तम् । स
एवाह—स्कन्धेभ्योऽन्यः सत्त्वः इति सर्वम् ।
यस्तु स्थापनीय इत्याचार्यः । वैभाषिकनयेनोक्तमेतच्चतुर्विधस्योदाहरणम् ।
आभिधर्मिका आहुरिति । षट्पादाभिधर्ममात्रपाठीनाः । दुःखप्रज्ञप्तिर्यावन्मा-
र्गप्रज्ञप्तिरिति । चतुर्णामार्यसत्यानां प्रज्ञप्तिः यथासूत्रम् । अर्थोपसंहितत्वादिति ।
अर्थप्रतिसंयुक्तत्वादित्यर्थः । एतदेव शठस्येति । एतदेव विभज्यव्याकरणीय-
प्रश्नवचनम् । शठस्य विहेठनाभिप्रायस्य प्रष्टुः परिपृच्छाव्याकरणं वेदित-
१. का० पुस्तके नास्ति । २. एतदेव च—का० ।
८०० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
वक्तव्यम्—धर्मा बहव इति । न तु विभक्तव्या यावत्तूष्णीं वा तिष्ठति स्वयं वा
व्याकरोतीति ।
यदा तौ न किञ्चित् पृच्छतः केवलमध्येषयतः, तयोश्च न किंचित्
व्याक्रियते केवलं परिपृच्छयते¹, तत् कथमनयोः प्रश्नो भवति कथं वा
व्याकरणम् ? यो हि पन्थानं ब्रूहीत्याह, किं तेन पन्था न पृष्टो भवति ! परि-
पृच्छयैव च² व्याकरणात् कथं न परिपृच्छाव्याकरणं भवति । स्थापनीयस्तु
यथा—अन्तवान् लोकोऽनन्तवानित्येवमादि ।
सूत्रान्तादेव तु प्रश्नव्याकरणानां लक्षणं द्रष्टव्यम् । भदन्तमहासाङ्घिका
सूत्रं पठन्ति—"चत्वारीमानि भिक्षवः प्रश्नव्याकरणानीति । कतमानि चत्वारि ?
अस्ति भिक्षव एकांशव्याकरणीयः प्रश्नः, अस्ति यावत् स्थापनीयः । कतमश्च
भिक्षवः एकांशव्याकरणीयः प्रश्नः ? 'सर्वे संस्कारा अनित्याः' इत्ययं भिक्षव एकांश-
न्यम् । भदन्तराम आह--यदा ताविति विस्तरः । यदा तौ शठाशठौ न
किञ्चित् पृच्छतः, केवलमध्येषयतः—'धर्मान् वद' इति । तयोश्च शठाशठयोर्न
किञ्चत् व्याक्रियते—इमे धर्माः रूपादयः सविस्तरप्रभेदा इति, केवलं परि-
पृच्छ्यते—कतमान् वदामीति । तत्कथमनयोः शठाशठयोः प्रश्नो भवति, कथं
च व्याकरणमाभिधर्मिकस्य ? यो हीति विस्तरेण आचार्यः । यो हि पन्थानं
ब्रूहीति, तदनभिज्ञ आह । किं तेन पन्था न पृष्टो भवति । अध्येषणामुखेने-
वास्य इत्यभिप्रायः । यथा 'पन्थानं ब्रूहि' इति ब्रुवतोक्तं भवति - 'कतमः पन्थाः'
इति; एवं 'धर्मान् वद' इति ब्रुवतोक्तं भवति—'कतमे धर्माः' इति ।
परिपृच्छ्यैव च व्याकरणात् । बहवो धर्माः, कतमान् वदामीति परिपृच्छ्यैव
तस्य प्रश्नस्य तेषां वा धर्माणां व्याकरणात्, धर्मबहुत्वं व्याकृतमिति कृत्वा ।
कथं न परिपृच्छाव्याकरणमिति । परिपृच्छ्य व्याकारणमित्यर्थः । तत्र यदुक्तम् --
'तयोश्च न किञ्चिद् व्याक्रियते, केवलं परिपृच्छ्येत यावत् कथं च व्याकरणम्'
इति, तद्युक्तम् ।
आचाय आह—सूत्रान्तादेवैति । एवं तु सूत्रे व्याकृतम् । संस्कृतेन
व्यवस्थाप्य पठ्यते । सञ्चेतनीयं कर्म कृत्वा किं प्रतिसंवेदयते—'किं
१. परिप्रश्न्येते-का० ।
२. का० पुस्तके नास्ति ।
निर्देशः ] पञ्चमं कोशस्थानम् ८०१
व्याकरणीयः प्रश्नः । कतमश्च भिक्षवो विभज्यव्याकरणीयः प्रश्नः ? 'सञ्चेतनीयं
कर्म कृत्वा किं प्रतिवेदयते' इत्ययं विभज्यव्याकरणीयः प्रश्नः । कतमश्च भिक्षवः
परिपृच्छ्यव्याकरणीयः प्रश्नः ? संज्ञासु पुरुषस्यात्मा, उताहोऽन्या संज्ञा अन्य
आत्मेति पृष्टेन सता परिप्रष्टव्यः—कतमं पुनरायुष्मानात्मानं प्रत्येति ? स चेदेवं
वदेद्—औदारिकं खल्वहमायुष्मन्नात्मानं प्रत्येमि । एवं सत्यन्या संज्ञा अन्य
आत्मेत्येवं वचनीयः । अयं हि परिपृच्छ्य व्याकरणीयः प्रश्नः । कतमश्च भिक्षवः
स्थापनीयः प्रश्नः ? तद्यथा—शाश्वतो लोकोऽशाश्वतः, शाश्वतश्चाशाश्वतश्च,
नैव शाश्वतो नाशाश्वतः ; अन्तवानन्तश्च नैवान्तवान्नानन्तवान् । भवति तथागतः
परं मरणान्न भवति तथागतः परं मरणात्, यावदन्यो जीवोऽन्यच्छरीरमित्ययं
भिक्षवः स्थापनीयः प्रश्नः” इति ॥ २२ ॥
यस्य पुद्गलस्य योऽनुशयो यस्मिन्नालम्बनेऽनुशेते स तेन तस्मिन्
सम्प्रयुक्तः । इदं तु वक्तव्यम्—अतीते न कस्मिन् यावत् प्रत्युत्पन्ने न कस्मिन्निति ?
समासतः इमे द्विविधाः क्लेशाः—स्वलक्षणक्लेशाश्च, रागप्रतिघमानाः ।
सामान्यक्लेशाश्च दृष्टिविचिकित्साऽविद्याः¹ । तत्र तावत्
सुखं दुःखम् अदुःखसुखम्' इत्येवं पृष्टेन विभज्य व्याकरणीयः प्रश्नः ।
सञ्चेतनीयस्य कुशलादिभेदात् । कुशलसास्रवं सञ्चेतनीयं कर्म कृत्वा
सुखमदुःखसुखं वा प्रतिसंवेदयते । अकुशलसञ्चेतनीयं कर्म कृत्वा दुःखं
प्रतिसंवेदयते इति । स चेदेवं वदेत्-औदारिकमिति रूपि । विस्तरः प्रभेदः । न भवति
यावदन्यो जीव इति । यावच्छब्देन सर्वं वक्तव्यम्—“न भवति तथागतः परं
मरणात्, भवति च न भवति तथागतः परं मरणात् । स जीवस्तच्छरीरम्,
अन्यो जीवः, अन्यच्छरीरम्” इति ॥ २२ ॥
स तेन तस्मिं संयुक्त इति । स पुद्गलस्तेनानुशयेन बद्ध इति
ज्ञायत एवेत्यर्थः । स्वलक्षणक्लेशाश्चेति । स्वलक्षणम्—सुखवेदनीयादि वस्तु,
तत्र रागः सुखवेदनीय एव वस्त्वावलम्ब्योत्पद्यत इति स्वलक्षणक्लेश इत्युच्यते ।
तेन सुखवेदनीयेनालम्ब्यमानेनोन्नतिर्भवतीति मानोऽपि स्वलक्षणक्लेशः । तथा
दुःखवेदनीयं वस्त्वावलम्ब्य प्रतिघ उत्पद्यते इति प्रतिघोऽपि स्वलक्षणक्लेश
इत्युच्यते । सामान्यक्लेशाश्च । दृष्टिविचिकित्सादयः । सामान्याः सामान्येन वा
१. ०कित्साऽविद्याः—का० ।
८०२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
रागप्रतिघमानैः स्यादातीतप्रत्युपस्थितैः ।
यत्रोत्पन्नाऽप्रहीणास्ते तस्मिन् वस्तुनि संयुतः ॥ २३ ॥
अतीता प्रत्युत्पन्नाश्च रागप्रतिघमाना यस्मिन् वस्तुन्युत्पन्ना न च
प्रहीणास्तस्मिन् वस्तुनि तैः संयुक्तः । एते हि स्वलक्षणक्लेशत्वान्न सर्वस्यावश्यं
सर्वत्रोत्पद्यन्ते ॥ २३ ॥
सर्वत्रानागतैरेभिर्मानसैः,
'यत्राप्रहीणास्ते' इति वर्तते । अनागतैरेभिरेव रागप्रतिघमानैर्मनोभूमिकैः
सर्वत्र वस्तुनि संयुक्तस्त्रैयध्विके ; मानसानां त्र्यध्वविषयत्वात् ।
स्वाधिकै परैः ।
अन्यै रागप्रतिघैरनागतैरनागत एव वस्तुनि संयुक्तः । के पुनरन्ये ? ये पञ्च
विज्ञानकायिका रागाश्च प्रतिघाश्च । उत्पत्तिधर्मभिरेव । तैरेव तु
अजैः सर्वत्र,
अनुत्पत्तिधर्मभिः पञ्चविज्ञानकायिकैरपि सर्वत्र वस्तुनि संयुक्तः । त्रैयध्विकेऽपि
क्लेशाः सामान्यक्लेशाः । एते ह्यविशेषेण सुखवेदनीयादिके वस्तुन्युत्पद्यते
इति, अतस्तदालम्ब्य उत्पन्नाः क्लेशाः 'सामान्यक्लेशाः' इत्युच्यन्ते ।
अतीतप्रत्युपस्थितैरिति । अतीतवर्तमानैः । रागप्रतिघमाना यस्मिन् वस्तु-
न्युत्पन्ना इति विस्तरः । एते रागादयः षड्विज्ञानकायिका अप्यविशेषाभिधानाद्
यथायोगं यस्मिन् वस्तुन्युत्पन्नाः त्रैयध्विके दुःखदर्शनप्रहातव्ये यावद् भावना-
प्रहातव्ये । न च प्रहीणाः, तस्मिन् वस्तुनि तैः रागादिभिः संयुक्ताः, दाम्नेव
बलीवर्दाः कीलके। एते हि स्वलक्षणक्लेशत्वान्न सर्वस्य पुद्गलस्यावश्यं
सर्वत्रोत्पद्यन्ते इति । कस्यचित् कस्मिंश्चिदुत्पद्यन्त इत्यर्थः । अतो यत्रोत्पन्ना-
प्रहीणास्ते इति । तद्विशेषणम् । अप्रहीणा इति विशेषणम् । यस्माद् यै रागा-
दिभिर्यस्मिन् वस्तुनि संयुक्त आसीत्, यदि ते प्रहीणा भवेयुः न तैः सर्वत्र
प्रहीणेन निरनुशयविषयत्वात् ॥ २३ ॥
‘सर्वत्रानागतैरेभिर्मानसैः” इति । मानसग्रहणम् ।
स्वाधिकैः परैरिति । पञ्चविज्ञानकायिकानामन्यथा व्यवस्थाप्यमानत्वात् ।
राग-प्रतिघ-विशेषणं चैतत् । मानसस्यावश्यं मानसत्वात् । एभिरनागतैः सर्वत्र
त्रैयध्विके पञ्चनैकायिकेऽपि यथास्वं संयुक्तः । नहि तत् सास्रवं वस्तु, यत्
निर्देशः ] पञ्चमं कोशस्थानम् ८०३
शेषैस्तु सर्वैः सर्वत्र संयुतः ॥ २४ ॥
के पुनः शेषाः ? दृष्टिविचिकित्साऽविद्यास्त्रैयध्विकाः । तैः सर्वैरपि सर्व-
स्मिन् वस्तुनि संयुक्तः, सामान्यक्लेशत्वात् । 'यावदप्रहीणा.' इत्यधिकारोऽनुवर्त्तत
एव ॥ २४ ॥
किं पुनरिदमतीतानागतमुच्यतेऽस्ति, अथ न ? यद्यस्ति सर्वकालास्तित्वात्,
संस्काराणां शाश्वतत्वं प्राप्नोति; अथ नास्ति, कथं तत्र तेन च¹ संयुक्तो
भवति विसंयुक्तो वा ? न संस्काराणां शाश्वतत्वं प्रतिज्ञायते वैभाषिकैः संस्कृत-
लक्षणयोगात् । प्रतिज्ञायते तु विशदम्—
स्वलक्षणक्लेशोनापि रागेण न सरागम्, द्वेषेण च न सद्वेषम् । मानेन च न
समानम् । सर्वसास्रववस्त्वालम्बना हि यथास्वमपरिमता अनागता रागादयो
भवन्ति । अन्यै रागप्रतिघैरनागतैरनागत एव वस्तुनि संयुक्त इति । सर्वे चित्तचैत्ता
आलम्बने नियता इति तैरनुत्पत्तिधर्मिभिरनागत एव वस्तुनि संयुक्तः ;
वर्तमानविषयत्वात् पञ्चानां विज्ञानकायानाम् । रागप्रतिघैरिति । मानावचनं
म नसत्वात् । “समानमिद्धा दृग्घेया मनोविज्ञानभूमिकाः” (अभि० ५.५३)
इति वचनात् । पञ्चविज्ञानकायिकैरपि न केवलं मानसैरित्यपिशब्दो द्योतयति ।
तैरनुत्पत्तिधर्मिभिः सर्वत्र वस्तुनि त्रैयध्विके संयुक्तः । एते ह्यनुत्पत्तिधर्मिणोऽनागता
एवाध्वनि व्यवस्थाप्यन्ते । एषां चालम्बनानि सञ्चरन्ति । ससम्प्रयोगा हि
क्लेशा सुवर्चलावदनुत्पत्तिधर्मिणो विषयाभिमुखा एवावतिष्ठन्ते । तथा
ह्यनुत्पत्तिधर्मिणो नैवालम्बनमालम्ब्योत्पद्यन्त इति । अथ केषाञ्चिदालम्बन-
मतीतम्, केषाञ्चिद् वर्तमानम्, केषाञ्चिदनागतं भवति; न ह्यालम्बनानुत्पत्तिः ?
न ह्यालम्बनानुत्पत्तित एव तेषामनुत्पत्तिः, किं तर्हि ? प्रत्ययवैकल्यात् ।
अवस्थाफलं हि सामग्र्यां न द्रव्यफलम्—इति सिद्धान्तः ।
'शेषैस्तु सर्वैः सर्वत्र संयुतः' इति । त्रैयध्विकैरपि दृष्ट्यादिभिरनेकनैकायि-
कैरपि त्रैयध्विके पञ्चप्रकारेऽपि वस्तुनि संयुतः संयुक्त इत्यर्थः । किं कारणम् ?
इत्याह—सामान्यक्लेशत्वादिति । एते हि सर्वस्य सर्वस्मिन् संभवन्ति; पञ्चो-
पादानस्कन्द्धालम्बनत्वात् ॥ २४ ॥
कथं तत्र तेन च संयुक्त इति । कथमतीतानागते वस्तुनि । तेन चातीतानागते-
नानुशयेन संयुक्त इति । विसंयुक्तो वा । कथं वा अप्रहीण-प्रहीणावस्थायां
१. वा-का० ।
सर्वकालास्तिता,
किं कारणम् ?
उक्तत्वात्,
उक्तं हि भगवता—"अतीतं चेद् भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्य-
श्रावकोऽतीते रूपेऽनपेक्षोऽभविष्यत् । यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवाना-
र्यश्रावकोऽतीते रूपेऽनपेक्षो भवति । अनागतं चेद्रूपं नाभविष्यत् न श्रुतवानार्य-
श्रावकोऽनागतं रूपं नाभ्यनन्दिष्यत् । यस्मात्तर्ह्यस्त्यनागतं रूपम्" इति विस्तरः ।
द्वयात्,
"द्वयं प्रतीत्य विज्ञानस्योत्पादः" इत्युक्तम् । द्वयं कतमत् ? चक्षू रूपाणि
यावन् मनो धर्मा इति । असति वाऽतीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य
न स्यात् । एवं तावदागमतोऽस्त्यतीतानागतम् । युक्तितोऽपि—
सद्विषयात्,
व्यवस्थाप्यन्ते ? संस्कृतलक्षणयोगादिति । यस्मात् संस्कृतलक्षणानि जात्यादीनि
संस्कृतानामर्थसञ्चाराय प्रवर्तन्ते, अतस्तेषामशाश्वतत्वं प्रतिज्ञायते । रूपं चेद्
भिक्षव इत्यस्य सूत्रस्यायमादितः पाठः—"रूपमनित्यमनागतम् । कः पुनर्वादः
प्रत्युत्पन्नस्य ! एवंदर्शी श्रुतवान् आर्यश्रावकोऽतीते रूपेऽनपेक्षो भवति, अनागतं
रूपं नाभिनन्दति, प्रत्युत्पन्नस्य रूपस्य निर्विदे विरागाय निरोधाय प्रतिपन्नो
भवति । अतीतं चेद् भिक्षवो रूपं नाभविष्यत्, न श्रुतवानार्यश्रावकोऽतीते
रूपेऽनपेक्षोऽभविष्यत् । यस्मात् तर्ह्यस्त्यतीतं रूपम्, तस्माच्छ्रूतवानार्यश्रावको-
ऽतीते रूपेऽनपेक्षो भवति । अनागतं चेद्रूपं नाभविष्यत्, न श्रुतवानार्यश्रावको-
ऽनागतं रूपं नाभ्यनन्दिष्यत् । यस्मात् तर्हि अस्त्यनागतं रूपम्, तस्मात्
श्रुतवानार्यश्रावकोऽनागतं रूपं नाभिनन्दिष्यति । प्रत्युत्पन्नं चेद् भिक्षवो रूपं
नाभविष्यदिति विस्तरः, न श्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षोऽभविष्यद्" इति ।
निर्विषयत्वाद् वैराग्यकालेऽतीतविषयापेक्षार्यश्रावकस्यानपेक्षा मतिर्नस्यादित्यर्थः ।
यदातीतं रूपमपेक्ष्यते तदा तत्रासक्तिरिति । अभ्यनन्दिष्यदिति अभ्यलषिष्यत् ।
प्रत्युत्पन्नं चेद् भिक्षवो रूपं नाभविष्यत्, न श्रुतवानार्यश्रावकैः प्रत्युत्पन्नस्य
रूपस्य निर्विदे वैराग्याय निरोधाय प्रतिपन्नोऽभविष्यदित्येतन्नोक्तम्; उभय-
पक्षप्रसिद्धत्वात् ।
सति विषये विज्ञानं प्रवर्त्तते, नासति । यदि चातीतानागतं न स्यादसदा-
लम्बनं विज्ञानं स्यात् । ततो विज्ञानमेव न स्याद्; आलम्बनाभावात् ।
फलात् ।
यदि चातीतं न स्यात् शुभाशुभस्य कर्मणः फलमायत्यां कथं स्यात् ! न
हि फलोत्पत्तिकोले वर्त्तमानो विपाकहेतुरस्तीति । तस्मादस्त्येवातीतानागतमिति
वैभाषिकाः ।
अवश्यं च किलैतत् सर्वास्तिवादेन सताऽभ्युपगन्तव्यम् । यस्मात्
तदस्तिवादात् सर्वास्तिवादा इष्टाः,
ये हि सर्वमस्तीति वदन्ति अतीतमनागतं प्रत्युत्पन्नं च, ते सर्वास्तिवादाः ।
ये तु केचिदस्ति यत् प्रत्युत्पन्नमदत्तफलं चातीतं कर्म, किञ्चिन्नास्ति यद्दत्तफल-
मतीतमनागतं चेति विभज्य वदन्ति, ते विभज्यवादिनः ।
कति चैते सर्वास्तिवादाः ? इत्याह—
चतुर्विधाः ॥ २५ ॥
ते भावलक्षणावस्थाऽन्यथाऽन्यथिकसंज्ञिताः ।
भावान्यथिको भदन्तधर्मत्रातः । स किलाह—धर्मस्याध्वसु प्रवर्त्तमानस्य
भावान्यथात्वं भवति, न द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वाऽन्यथा
क्रियमाणस्य संस्थानान्यथात्वं भवति, न वर्णान्यथात्वम् । यथा च क्षीरं दधित्वेन
द्वयादिति । पूर्वं कण्ठत उक्तमिति प्रदर्शितम् , इदानीमर्थतो न कण्ठत इति
विशेषः । न द्वयं प्रतीत्य मनोविज्ञानं स्यात् । यदतीतानागातालम्बनमिति
विशेषः ।
ततो विज्ञानमेव न स्यादालम्बनाभावादिति । विज्ञेये सति विज्ञानमिति
कृत्वा । साधनं चात्र—'सडालम्बनमेव मनोविज्ञानम्; उपलब्धिस्रभावत्वात् ,
चक्षुर्विज्ञानवत्' इति ।
फलादिति । विद्यमानस्वलक्षणं शुभाशुभमतीतं कर्म, विपाक्तिकाल उत्पद्यमान-
फलत्वात्, वर्तमानधर्मवदिति ॥ २५ ॥
भावान्यथात्वं भवतीति । अतीतानागतप्रत्युत्पन्नस्य भावस्यान्यथात्वं भवती-
त्यर्थः । न द्रव्यान्यथात्वम् । न रूपादिस्वलक्षणस्यान्यथात्वं भवतीत्यर्थः ।
अभि० को० ३ : ४
८०६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
परिणमद् रसवीर्यविपाकान् परित्यजति, न वर्णम् । एवं धर्मोऽप्यनागतादध्वनः
प्रत्युत्पन्नमध्वानमागच्छन्ननागतभावं जहाति, न द्रव्यभावम् । एवं प्रत्युत्पन्नादतीत-
मध्वानं गच्छन् प्रत्युत्पन्नभावं जहाति, न द्रव्यभावमिति ।
लक्षणान्यथिको भदन्तघोषकः । स किलाह—धर्मोऽध्वसु प्रवर्त्तमानोऽ-
तीतोऽतीतलक्षणयुक्तः, अनागतप्रत्युत्पन्नाभ्यामवियुक्तः । एवं प्रत्युत्पन्नोऽप्यतीता-
नागताभ्यामवियुक्तः । तद्यथा--पुरुष एकस्यां स्त्रियां रक्तः, शेषास्वविरक्त इति ।
अवस्थाऽन्यथिको भदन्तवसुमित्रः । स किलाह—धर्मोऽध्वसु प्रवर्त्तमानोऽ-
वस्थामवस्थां प्राप्यान्योऽन्यो निर्दिश्यते अवस्थान्तरतः, न द्रव्यान्तरतः । यथैका
गुलिका१ एकाङ्के निक्षिप्ता एकमित्युच्यते, शताङ्के शतम्, सहस्राङ्के सहस्रमिति ।
अनागतो हि वर्त्तमानमध्वानं प्रतिपन्नोऽनागतभावं जहाति । वर्तमानभावं प्रति-
लभते । वर्तमानोऽप्यतीतम् । सुवर्णं क्षीरं चेति दृष्टान्तद्वयं यथाक्रममाकृति-
गुणान्यथात्वज्ञापनार्थम् ।
लक्षणान्यथिकस्य लक्षणवृत्तिलाभापेक्षो व्यवहारः । अत एव आह—
धर्मोऽध्वसु प्रवर्त्तमानोऽतीतलक्षणयुक्तः, अनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्त
इति विस्तरः । यद्यनागतम् अतीतप्रत्युत्पन्नाभ्यां वियुक्तं स्यात्, एवं सति नाना-
गतमेवोत्पन्नमतीतं वेति स्यात् । अथातीतम् अनागतप्रत्युत्पन्नाभ्यां वियुक्तं
स्यात्, नानागतं वर्तमानं चातीतं स्यात् । वर्तमानम् अतीतानागताभ्यां
वियुक्तं अनागतमेव वर्तमानम्, वर्तमानमेवातीतं स्यात् । लब्धवृत्तिना हि
लक्षणेन युक्तो व्यवस्थाप्यते, तदन्येनावियुक्तो न विरहित इत्यर्थः । अत एवोदा-
हरति—तद्यथा पुरुष एकस्यां स्त्रियां रक्तः, शेषास्वविरक्त इति । एकस्यां
स्त्रियामस्य रागाध्यवसानं वर्तते । शेषासु स्त्रीषु रागप्राप्तिरेवास्ति, न समुदाचार
इति ।
अवस्थान्यथिकस्यावस्थापेक्षो व्यवहारः, यस्यामवस्थायां यो धर्मः कारित्रं
न करोति तस्याम् 'अनागतः' उच्यते, यस्यां करोति तस्यां 'वर्तमानः', यस्यां
कृत्वा निरुद्धः तस्याम् 'अतीतः' इत्यवस्थामवस्थां प्राप्य अन्योऽन्यो निर्दिश्यते ।
अनागतावस्थां प्राप्यानागतो यावदतीतावस्थां प्राप्यातीत इति । अवस्थान्तरतो
न द्रव्यान्तरत इति । अभिन्नलक्षणोऽनागतावस्थाप्राप्तोऽनागतादिशब्दनिर्देशः
केवलं भवतीत्यर्थः । अत एवोदाहरति—यथैका गुलिकेति विस्तरः । यथैका
१ वर्तिका-का० ।
'निर्देशः ] पञ्चमं कोशस्थानम् ८०७
अन्यथान्याथिको भदन्तबुद्धदेवः । स किलाह--धर्मोऽध्वसु प्रवर्तमानः
पूर्वापरमपेक्ष्यान्योऽन्य उच्यते अवस्थान्तरतः, न द्रव्यान्तरतः । यथैका स्त्री माता
०च्यते दुहिता चेति१ ।
इत्येते चत्वारः सर्वास्तिवादाः ।
एषां तु प्रथमः परिणामवादित्वात् सांख्यपक्षे निक्षेप्तव्यः । द्वितीयस्या-
ध्वसङ्करः प्राप्नोति, सर्वस्य सर्वलक्षणयोगात् । पुरुषस्य तु कस्याञ्चित् स्त्रियां रागः
समुदाचरति कस्याञ्चित् केवलं समन्वागम इति किमत्र साम्यम् ! चतुर्थस्याप्येक-
स्मिन्नेवाध्वनि त्रयोऽध्वानः प्राप्नुवन्ति । अतीतेऽध्वनि पूर्वपश्चिमौ क्षणावतीता-
नागतौ, मध्यमः क्षणः प्रत्युत्पन्न इति । एवमनागतेऽपि ।
गुलिका एकाङ्के निक्षिप्ता एकस्थाने स्थापिता एकमित्युच्यते, एवं शताङ्के शतम्,
सहस्राङ्के सहस्रम् इत्युच्यते, अवस्थान्तरापेक्षया । न पुनस्तस्याः स्वभावान्यथा-
त्वम्, किं तर्हि ? स्थानान्तरविशेषात् संख्याभियोतकं संज्ञामात्रमुत्पद्यत इति ।
पूर्वापरमपेक्ष्या अन्योन्य उच्यते इति । पूर्वम् अपरम् चापेक्ष्या अतीताना-
गतवर्तमाना उच्यन्त इत्यर्थः । पूर्वमेवातीतं वर्तमानं वापेक्ष्याऽनागत इति,
पूर्वं वाऽतीतम्, अपरं वाऽनागतम् अपेक्ष्य वर्तमान इति, अपरमेव वर्तमान-
मनागतं वा अपेक्ष्याऽतीत इति पूर्वापरापेक्षोऽन्याथिकस्य व्यवहारः । अत
एवोदाहरति-यथैका स्त्री माता वोच्यते दुहिता चेति । यथैका स्त्री दुहितरम-
पेक्ष्या मातेत्युच्यते, मातरमपेक्ष्या दुहिता चेति । पूर्वापरापेक्षया, न
द्रव्यान्तरतः ।
साङ्ख्यपक्षे निक्षेप्तव्य इति । यः साङ्ख्यपक्षे प्रतिषेधः, स एव तत्पक्षस्य
प्रतिषेधः । साङ्ख्यपक्षः पूर्वं प्रतिषिद्ध इत्याभिप्रायः२ ।
द्वितीयस्यापि भदन्तघोषकस्यापि अध्वसङ्करः प्राप्नोति । योऽतीताध्वा-
भिप्रेतः, स वर्तमान. अनागतोऽपि प्राप्नोति । कथं कृत्वा ? अतीतेऽतीतलक्षण-
युक्तो भवन्ननागतवर्तमानलक्षणाभ्यामवियुक्तः । युक्त एवेत्यर्थः । अनागतो-
ऽप्यनागतलक्षणयुक्तोऽतीतवर्तमानलक्षणाभ्यामवियुक्त इति कृत्वा । एकैकस्य
त्रिलक्षणयोगात् अतीतोऽनागतो वर्तमानश्च प्राप्नोति । इत्येवमनागतवर्तमानावपि
योज्यौ । किमत्र साम्यमिति । पुरुषस्य कस्याञ्चिन् केवलं समन्वागमः । किमेवं
धर्मस्यैकं लक्षणं विद्यते ? इत एव लक्षणे न विद्यते, यत एवमुदाह्रियते
त्यत्सामान्यम् ।
१. वो०-का० । २. द्र०-अभि० को० २. ३६; ३.२७ का० ।