सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 825, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 825

८०६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
परिणमद् रसवीर्यविपाकान् परित्यजति, न वर्णम् । एवं धर्मोऽप्यनागतादध्वनः
प्रत्युत्पन्नमध्वानमागच्छन्ननागतभावं जहाति, न द्रव्यभावम् । एवं प्रत्युत्पन्नादतीत-
मध्वानं गच्छन् प्रत्युत्पन्नभावं जहाति, न द्रव्यभावमिति ।
लक्षणान्यथिको भदन्तघोषकः । स किलाह—धर्मोऽध्वसु प्रवर्त्तमानोऽ-
तीतोऽतीतलक्षणयुक्तः, अनागतप्रत्युत्पन्नाभ्यामवियुक्तः । एवं प्रत्युत्पन्नोऽप्यतीता-
नागताभ्यामवियुक्तः । तद्यथा--पुरुष एकस्यां स्त्रियां रक्तः, शेषास्वविरक्त इति ।
अवस्थाऽन्यथिको भदन्तवसुमित्रः । स किलाह—धर्मोऽध्वसु प्रवर्त्तमानोऽ-
वस्थामवस्थां प्राप्यान्योऽन्यो निर्दिश्यते अवस्थान्तरतः, न द्रव्यान्तरतः । यथैका
गुलिका१ एकाङ्के निक्षिप्ता एकमित्युच्यते, शताङ्के शतम्, सहस्राङ्के सहस्रमिति ।
अनागतो हि वर्त्तमानमध्वानं प्रतिपन्नोऽनागतभावं जहाति । वर्तमानभावं प्रति-
लभते । वर्तमानोऽप्यतीतम् । सुवर्णं क्षीरं चेति दृष्टान्तद्वयं यथाक्रममाकृति-
गुणान्यथात्वज्ञापनार्थम् ।
लक्षणान्यथिकस्य लक्षणवृत्तिलाभापेक्षो व्यवहारः । अत एव आह—
धर्मोऽध्वसु प्रवर्त्तमानोऽतीतलक्षणयुक्तः, अनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्त
इति विस्तरः । यद्यनागतम् अतीतप्रत्युत्पन्नाभ्यां वियुक्तं स्यात्, एवं सति नाना-
गतमेवोत्पन्नमतीतं वेति स्यात् । अथातीतम् अनागतप्रत्युत्पन्नाभ्यां वियुक्तं
स्यात्, नानागतं वर्तमानं चातीतं स्यात् । वर्तमानम् अतीतानागताभ्यां
वियुक्तं अनागतमेव वर्तमानम्, वर्तमानमेवातीतं स्यात् । लब्धवृत्तिना हि
लक्षणेन युक्तो व्यवस्थाप्यते, तदन्येनावियुक्तो न विरहित इत्यर्थः । अत एवोदा-
हरति—तद्यथा पुरुष एकस्यां स्त्रियां रक्तः, शेषास्वविरक्त इति । एकस्यां
स्त्रियामस्य रागाध्यवसानं वर्तते । शेषासु स्त्रीषु रागप्राप्तिरेवास्ति, न समुदाचार
इति ।
अवस्थान्यथिकस्यावस्थापेक्षो व्यवहारः, यस्यामवस्थायां यो धर्मः कारित्रं
न करोति तस्याम् 'अनागतः' उच्यते, यस्यां करोति तस्यां 'वर्तमानः', यस्यां
कृत्वा निरुद्धः तस्याम् 'अतीतः' इत्यवस्थामवस्थां प्राप्य अन्योऽन्यो निर्दिश्यते ।
अनागतावस्थां प्राप्यानागतो यावदतीतावस्थां प्राप्यातीत इति । अवस्थान्तरतो
न द्रव्यान्तरत इति । अभिन्नलक्षणोऽनागतावस्थाप्राप्तोऽनागतादिशब्दनिर्देशः
केवलं भवतीत्यर्थः । अत एवोदाहरति—यथैका गुलिकेति विस्तरः । यथैका
१ वर्तिका-का० ।