अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 824, कुल 1258 में से
संदर्भ में पढ़ेंसति विषये विज्ञानं प्रवर्त्तते, नासति । यदि चातीतानागतं न स्यादसदा-
लम्बनं विज्ञानं स्यात् । ततो विज्ञानमेव न स्याद्; आलम्बनाभावात् ।
फलात् ।
यदि चातीतं न स्यात् शुभाशुभस्य कर्मणः फलमायत्यां कथं स्यात् ! न
हि फलोत्पत्तिकोले वर्त्तमानो विपाकहेतुरस्तीति । तस्मादस्त्येवातीतानागतमिति
वैभाषिकाः ।
अवश्यं च किलैतत् सर्वास्तिवादेन सताऽभ्युपगन्तव्यम् । यस्मात्
तदस्तिवादात् सर्वास्तिवादा इष्टाः,
ये हि सर्वमस्तीति वदन्ति अतीतमनागतं प्रत्युत्पन्नं च, ते सर्वास्तिवादाः ।
ये तु केचिदस्ति यत् प्रत्युत्पन्नमदत्तफलं चातीतं कर्म, किञ्चिन्नास्ति यद्दत्तफल-
मतीतमनागतं चेति विभज्य वदन्ति, ते विभज्यवादिनः ।
कति चैते सर्वास्तिवादाः ? इत्याह—
चतुर्विधाः ॥ २५ ॥
ते भावलक्षणावस्थाऽन्यथाऽन्यथिकसंज्ञिताः ।
भावान्यथिको भदन्तधर्मत्रातः । स किलाह—धर्मस्याध्वसु प्रवर्त्तमानस्य
भावान्यथात्वं भवति, न द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वाऽन्यथा
क्रियमाणस्य संस्थानान्यथात्वं भवति, न वर्णान्यथात्वम् । यथा च क्षीरं दधित्वेन
द्वयादिति । पूर्वं कण्ठत उक्तमिति प्रदर्शितम् , इदानीमर्थतो न कण्ठत इति
विशेषः । न द्वयं प्रतीत्य मनोविज्ञानं स्यात् । यदतीतानागातालम्बनमिति
विशेषः ।
ततो विज्ञानमेव न स्यादालम्बनाभावादिति । विज्ञेये सति विज्ञानमिति
कृत्वा । साधनं चात्र—'सडालम्बनमेव मनोविज्ञानम्; उपलब्धिस्रभावत्वात् ,
चक्षुर्विज्ञानवत्' इति ।
फलादिति । विद्यमानस्वलक्षणं शुभाशुभमतीतं कर्म, विपाक्तिकाल उत्पद्यमान-
फलत्वात्, वर्तमानधर्मवदिति ॥ २५ ॥
भावान्यथात्वं भवतीति । अतीतानागतप्रत्युत्पन्नस्य भावस्यान्यथात्वं भवती-
त्यर्थः । न द्रव्यान्यथात्वम् । न रूपादिस्वलक्षणस्यान्यथात्वं भवतीत्यर्थः ।
अभि० को० ३ : ४