सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 810, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 810

निर्देशः ] पञ्चमं कोशस्थानम् ७६१
भविष्यति । न तत् सकलं प्रतिपक्षः, दुःखसमुदयधर्मज्ञानयोरेतदप्रतिपक्षत्वात्¹ ।
नापि सकल्यो रूपारूप्ययोर्दर्शनप्रहातव्यानामप्रतिपक्षत्वादित्याद्याभावाच्च भवत्या-
लम्बनम् ॥ १५ ॥
अथ कस्माद्रागप्रतिघमाना दृष्टिशीलव्रतपरामर्शौ चानास्रवालम्बना नेष्यन्ते ?
न रागस्तस्य वर्ज्यत्वात्
वर्जनीयो हि रागः यदि चानास्रवालम्बनः स्यान्न वर्जनीयः स्यात् ;
कुशलधर्मच्छन्दवत् ।
इति । विस्तरः—अन्वयज्ञानं न कमधातुप्रतिपक्ष इति । न ते तदालम्बन्ते । धर्म-
ज्ञानं तर्हीति विस्तरः ।
“धर्मज्ञानं निरोधे यन्मार्गे वा भावनापथे ।
त्रिधातुप्रतिपक्षस्तद्” (अभि० को० ६.९) इति सिद्धान्ताद् धर्मज्ञानं
रूपारूप्यप्रतिपक्ष्यस्तदभावात् तद्भूमिकानं रूपारूप्यभूमिकानां मिथ्यादृष्ट्या-
दीनामालम्बनं भविष्यति । न तत्सकलमिति विस्तरः । न तद् धर्मज्ञानं सकलं
प्रतिपक्षो रूपारूप्यधात्वोः । किं तर्हि ? किं कारणम् । दुःखसमुदयधर्मज्ञानयो-
र्भावनामार्गसंगृहीतयोरेतदप्रतिपक्षत्वात् । रूपारूप्यधात्वोरप्रतिपक्षत्वादित्यर्थः ।
अतो न रूपारूप्यावचराणां मिथ्यादृष्ट्यादीनां तद्धर्मज्ञानमालम्बनम् । किञ्च
नापि सकलयोरिति विस्तरः । नापि सकलयो रूपारूप्यधात्वोस्तद्धर्मज्ञानं
प्रतिपक्षः । कि कारणम् ? दर्शनप्रहातव्यानामप्रतिपक्षत्वात् “धर्मज्ञानं निरोधे
यन्मार्गे वा भावनापथे” (अभि० को० ६ ६) इति वचनात् ।
अत्र निगमनं करोति—इत्याद्याभावाच्च भवत्यालम्बनमिति । दुःख-समुदय-
निरोधमार्गाणामद्यायोर्दुःखसमुदयधर्मज्ञानयोर्यथोक्तरूपारूप्यप्रतिपक्षत्वं प्रत्य-
भावात् । रूपारूप्यावचराणां दर्शनभावनाप्रहातव्यानां चाद्येषु दर्शनप्रहातव्येषु
प्रतिपक्षत्वं प्रति तस्य धर्मज्ञानस्याभावात् । न तद्भूमिकानां मिथ्यादृष्ट्यादीनां
मार्गालम्बनानां रूपारूप्यभूमिकानां धर्मज्ञानमालम्बनं भवति । तदेवं त्रैधातुका-
नष्टादशानास्रवालम्बनानपास्य शेषा अशीतिरनुशयाः सर्वालम्बनाः—इति
स्थापितम् ॥ १५ ॥
न वर्जनीयः स्यादिति । न प्राप्तिच्छेदेन प्रहेयः स्यादित्यर्थः । यथा कुशलो
धर्मच्छन्दोऽभिलाषरूपः सम्यग्दृष्टिरिति न प्राप्तिच्छेदेन प्रहेयः, तद्वदयं स्यात् ।
अतो नाऽनास्रवालम्बनः।
१. • र्तत्प्रतिपक्ष०—का० ।