सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 823, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 823

सर्वकालास्तिता,
किं कारणम् ?
उक्तत्वात्,
उक्तं हि भगवता—"अतीतं चेद् भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्य-
श्रावकोऽतीते रूपेऽनपेक्षोऽभविष्यत् । यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवाना-
र्यश्रावकोऽतीते रूपेऽनपेक्षो भवति । अनागतं चेद्रूपं नाभविष्यत् न श्रुतवानार्य-
श्रावकोऽनागतं रूपं नाभ्यनन्दिष्यत् । यस्मात्तर्ह्यस्त्यनागतं रूपम्" इति विस्तरः ।
द्वयात्,
"द्वयं प्रतीत्य विज्ञानस्योत्पादः" इत्युक्तम् । द्वयं कतमत् ? चक्षू रूपाणि
यावन् मनो धर्मा इति । असति वाऽतीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य
न स्यात् । एवं तावदागमतोऽस्त्यतीतानागतम् । युक्तितोऽपि—
सद्विषयात्,
व्यवस्थाप्यन्ते ? संस्कृतलक्षणयोगादिति । यस्मात् संस्कृतलक्षणानि जात्यादीनि
संस्कृतानामर्थसञ्चाराय प्रवर्तन्ते, अतस्तेषामशाश्वतत्वं प्रतिज्ञायते । रूपं चेद्
भिक्षव इत्यस्य सूत्रस्यायमादितः पाठः—"रूपमनित्यमनागतम् । कः पुनर्वादः
प्रत्युत्पन्नस्य ! एवंदर्शी श्रुतवान् आर्यश्रावकोऽतीते रूपेऽनपेक्षो भवति, अनागतं
रूपं नाभिनन्दति, प्रत्युत्पन्नस्य रूपस्य निर्विदे विरागाय निरोधाय प्रतिपन्नो
भवति । अतीतं चेद् भिक्षवो रूपं नाभविष्यत्, न श्रुतवानार्यश्रावकोऽतीते
रूपेऽनपेक्षोऽभविष्यत् । यस्मात् तर्ह्यस्त्यतीतं रूपम्, तस्माच्छ्रूतवानार्यश्रावको-
ऽतीते रूपेऽनपेक्षो भवति । अनागतं चेद्रूपं नाभविष्यत्, न श्रुतवानार्यश्रावको-
ऽनागतं रूपं नाभ्यनन्दिष्यत् । यस्मात् तर्हि अस्त्यनागतं रूपम्, तस्मात्
श्रुतवानार्यश्रावकोऽनागतं रूपं नाभिनन्दिष्यति । प्रत्युत्पन्नं चेद् भिक्षवो रूपं
नाभविष्यदिति विस्तरः, न श्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षोऽभविष्यद्" इति ।
निर्विषयत्वाद् वैराग्यकालेऽतीतविषयापेक्षार्यश्रावकस्यानपेक्षा मतिर्नस्यादित्यर्थः ।
यदातीतं रूपमपेक्ष्यते तदा तत्रासक्तिरिति । अभ्यनन्दिष्यदिति अभ्यलषिष्यत् ।
प्रत्युत्पन्नं चेद् भिक्षवो रूपं नाभविष्यत्, न श्रुतवानार्यश्रावकैः प्रत्युत्पन्नस्य
रूपस्य निर्विदे वैराग्याय निरोधाय प्रतिपन्नोऽभविष्यदित्येतन्नोक्तम्; उभय-
पक्षप्रसिद्धत्वात् ।