अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 826, कुल 1258 में से
संदर्भ में पढ़ें'निर्देशः ] पञ्चमं कोशस्थानम् ८०७
अन्यथान्याथिको भदन्तबुद्धदेवः । स किलाह--धर्मोऽध्वसु प्रवर्तमानः
पूर्वापरमपेक्ष्यान्योऽन्य उच्यते अवस्थान्तरतः, न द्रव्यान्तरतः । यथैका स्त्री माता
०च्यते दुहिता चेति१ ।
इत्येते चत्वारः सर्वास्तिवादाः ।
एषां तु प्रथमः परिणामवादित्वात् सांख्यपक्षे निक्षेप्तव्यः । द्वितीयस्या-
ध्वसङ्करः प्राप्नोति, सर्वस्य सर्वलक्षणयोगात् । पुरुषस्य तु कस्याञ्चित् स्त्रियां रागः
समुदाचरति कस्याञ्चित् केवलं समन्वागम इति किमत्र साम्यम् ! चतुर्थस्याप्येक-
स्मिन्नेवाध्वनि त्रयोऽध्वानः प्राप्नुवन्ति । अतीतेऽध्वनि पूर्वपश्चिमौ क्षणावतीता-
नागतौ, मध्यमः क्षणः प्रत्युत्पन्न इति । एवमनागतेऽपि ।
गुलिका एकाङ्के निक्षिप्ता एकस्थाने स्थापिता एकमित्युच्यते, एवं शताङ्के शतम्,
सहस्राङ्के सहस्रम् इत्युच्यते, अवस्थान्तरापेक्षया । न पुनस्तस्याः स्वभावान्यथा-
त्वम्, किं तर्हि ? स्थानान्तरविशेषात् संख्याभियोतकं संज्ञामात्रमुत्पद्यत इति ।
पूर्वापरमपेक्ष्या अन्योन्य उच्यते इति । पूर्वम् अपरम् चापेक्ष्या अतीताना-
गतवर्तमाना उच्यन्त इत्यर्थः । पूर्वमेवातीतं वर्तमानं वापेक्ष्याऽनागत इति,
पूर्वं वाऽतीतम्, अपरं वाऽनागतम् अपेक्ष्य वर्तमान इति, अपरमेव वर्तमान-
मनागतं वा अपेक्ष्याऽतीत इति पूर्वापरापेक्षोऽन्याथिकस्य व्यवहारः । अत
एवोदाहरति-यथैका स्त्री माता वोच्यते दुहिता चेति । यथैका स्त्री दुहितरम-
पेक्ष्या मातेत्युच्यते, मातरमपेक्ष्या दुहिता चेति । पूर्वापरापेक्षया, न
द्रव्यान्तरतः ।
साङ्ख्यपक्षे निक्षेप्तव्य इति । यः साङ्ख्यपक्षे प्रतिषेधः, स एव तत्पक्षस्य
प्रतिषेधः । साङ्ख्यपक्षः पूर्वं प्रतिषिद्ध इत्याभिप्रायः२ ।
द्वितीयस्यापि भदन्तघोषकस्यापि अध्वसङ्करः प्राप्नोति । योऽतीताध्वा-
भिप्रेतः, स वर्तमान. अनागतोऽपि प्राप्नोति । कथं कृत्वा ? अतीतेऽतीतलक्षण-
युक्तो भवन्ननागतवर्तमानलक्षणाभ्यामवियुक्तः । युक्त एवेत्यर्थः । अनागतो-
ऽप्यनागतलक्षणयुक्तोऽतीतवर्तमानलक्षणाभ्यामवियुक्त इति कृत्वा । एकैकस्य
त्रिलक्षणयोगात् अतीतोऽनागतो वर्तमानश्च प्राप्नोति । इत्येवमनागतवर्तमानावपि
योज्यौ । किमत्र साम्यमिति । पुरुषस्य कस्याञ्चिन् केवलं समन्वागमः । किमेवं
धर्मस्यैकं लक्षणं विद्यते ? इत एव लक्षणे न विद्यते, यत एवमुदाह्रियते
त्यत्सामान्यम् ।
१. वो०-का० । २. द्र०-अभि० को० २. ३६; ३.२७ का० ।