सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 814, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 814

निर्देशः ] पञ्चमं कोशस्थानम् ७९५
शेषास्त्वशुभा अनुशयाः कामधातावकुशलाः ॥ १९ ॥
कत्यकुशलमूलानि ? कति न ?
कामेऽकुशलमूलानि रागप्रतिघमूहयः ।
कामधातौ सर्वरागः सर्वप्रतिघः सर्वो मोहोऽन्यत्र सत्कायान्तग्राहदृष्टि-
सम्प्रयुक्ताद् यथाक्रमम् ।
त्रीण्यकुशलमूलानि,
लोभोऽकुशलमूलम्, द्वेषो मोहोऽकुशलमूलम् । यद्यकुशलं¹ चाकुशलस्यैव
मूलमिष्टम्¹, एत एवाकुशलमूलानि । शेषा अनुशया नाकुशलमूलानीति सिद्धम् ।
कत्यव्याकृतमूलानि ? कति न ? त्रीण्यव्याकृतमूलानि । कतमानि त्रीणि ?
तृष्णाविद्या मतिश्च सा ॥ २० ॥
'सा' इत्यव्याकृततां दर्शयति । या काचिदव्याकृता तृष्णा अविद्या प्रज्ञा
चान्ततो विपाकजा अपि सर्वाऽसावव्याकृतमूलमिति काश्मीराः ॥ २० ॥
“शेषास्त्विहाशुभाः” इति । इहेति कामावचरशेषाभिसङ्ग्रहार्थम् । काम-
धातौ सत्कायदृष्ट्यादिशेषाः क्लेशां अकुशला एवेत्यवधार्यते ॥ १९॥
कत्यकुशलमूलानि, कति नेति । एषामष्टानवतेरनुशयानामित्यनुवृत्तत्वेनैवं
विसर्जनं क्रियते ।
“कामेऽकुशलमूलानि रागप्रतिघमूहयः२” इति । कामधातौ ये राग-प्रतिघ-
मोहाः ते सर्व एव पञ्चप्रकाराः अप्यकुशलमूलानि; कुशलमूलविपक्षेण
व्यवस्थापनात् । नान्येऽनुशया इति । मूढिरिति मोहपर्यायः । सर्वो मोहः
अन्यत्र सत्कायान्तग्राहदृष्टिसम्प्रयुक्तान्मोहादिति । कथमिह न सूत्रितं लभ्यते ?
“अशुभाः” (अभिः ५.१९) इत्यधिकाराद्, एकदेशनिर्देशात् । अत एवोच्यते-
यद्यकुशलं चाकुशलस्यैव च मूलम्, इष्टमिति । एतदेवेत्यवधारणाच्छेषा अनुशया
मिथ्यादृष्ट्यादयो नाकुशलमूलानीति सिद्धम् ॥
"त्रीण्यव्याकृतमूलानि" इति । एषामेवाष्टानवतेरनुशयानां त्रीणि अव्या-
कृतमूलानीति । त्रिग्रहणं बहिर्देशकमताद् विशेषणार्थः । त्रीण्येव, न चत्वारीति ।
कतमानि त्रीणि ? इत्याह-- "तृष्णाऽविद्या मतिश्च सा । सेति अव्याकृततां
दर्शयति । अव्याकृतमूलानीति । अनेनाव्याकृतशब्देन केवलेन तृष्णाविद्या-
१-१. यद्धद्यकुशलं चाकुशलस्य च मूलं तदेवाकुशलमूलमिष्टम्-का० ।
२. ºमूढया-जा० ।