सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 815, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 815

७६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
द्वैधोर्ध्ववृत्तेर्मातोऽन्यौ,
विचिकित्सा किल द्वैधवृत्तेर्न मूलं भवितुमर्हति; चलत्वात् । उन्नत्तिलक्षणेनोर्ध्व-
वृत्तेर्न मानो मूलम् । विविधस्मृतिमूलानि हि स्थिराण्यधोवृत्तीनि च लोके
दृष्टानीति ।
चत्वार्येवेति बाह्यकाः ।
बाह्यकाश्चत्वार्यव्याकृतमूलानीच्छन्ति ।
तृष्णादृङ्मानमोहास्ते,
त इत्यव्याकृता इति दर्शयति । अव्याकृता तृष्णा दृष्टिर्मानोऽविद्या च ।
किं कारणमेतान्यव्याकृतमूलानीच्छन्ति ?
ध्यायित्रित्वादविद्यया ॥ २१ ॥
यस्मत् त्रयो ध्यायिनः । तृष्णादृष्टिमानोत्तरध्यायिनः । ते चाविद्यावशाद्
भवन्तीति ॥ २१ ॥
मतयो विशेषिता इति दर्शयति । अत्र च मतिरक्लेशस्वभावाप्यव्याकृतमूल-
मितीष्यते वैभाषिकैः । या काचिदव्याकृता तृष्णेति । आस्वादनासम्प्रयुक्तेषु
ध्याना रूप्येषूपपत्तिकाले वा विमानादिषु सम्भवतः । या काचिदविद्या रूपा-
रूप्यधात्वोः कामधातौ च सत्कायान्तग्राहदृष्टिसम्प्रयोगिनीति । एवं प्रज्ञा च
या काचिदव्याकृता । अन्ततो विपाकजापि । कामधातौ विपाकजैर्यापथिक-
शैल्पस्थानिक-निर्माणचित्तसम्प्रयुक्ता सत्कायान्तग्राहदृष्टिसम्प्रयुक्ता च रूपा-
रूप्यधात्वोः सर्वक्लेशसम्प्रयुक्ता प्रज्ञा । विपाकजादिसम्प्रयुक्ता च यथासम्भ-
वमव्याकृता प्रज्ञा । द्वैधवृत्तेरिति । द्विधाभावो द्वैधम्, द्वैधे वृत्तिः तस्याः ॥२०॥
न विचिकित्सा मूलं भवितुमर्हति; द्विधावृत्तित्त्वञ्चलत्वात् । उन्नत्तिलक्षणेनेति ।
उन्नतेर्लक्षणम्, तेन ऊर्ध्ववृत्तिर्भवति । तस्मान्न मानो मूलं भवितुमर्हति ।
मूलानि स्थिराण्यधोवृत्तीनि चेति । मूलवैधर्म्यान्न विचिकित्सा मूलम्; अस्थिर-
त्वात् । न मानः; अनधोवृत्तित्वादिति वक्तव्यम् ।
ते इत्यव्याकृताः । अव्याकृता तृष्णेति । रूपारूप्यधात्वोः । दृष्टिरपि
तयोश्च कामधातौ च सत्कायान्तग्राहदृष्टिस्वभावा । अविद्यापि कामधातौ तत्स-
म्प्रयोगिन्येव । रूपारूप्यधात्वोश्च सर्वा । तृष्णादृष्टिमानोत्तरध्यायिन इति ।
य आस्वादनासम्प्रयुक्तध्यानध्यायी, स तृष्णोत्तरध्यायी । यो ध्याननिश्चयेण
शाश्वतादिदृष्टिमुत्पादयति, स दृष्ट्युत्तरध्यायी, मानोत्तध्यायी च । यश्च मन्यते-