सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 816, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 816

निर्देशः ] पञ्चमं कोशस्थानम् ७५७
यानि सूत्रे चतुर्दशाव्याकृतवस्तूनि, किं तानि अव्याकृतत्वात् ? नेत्याह ।
किं तर्हि ? स्थापनीयः प्रश्नोऽव्याकृत इत्युक्तम् । चतुर्विधो हि प्रश्नः—
एकांशव्याकरणीयः, विभज्यव्याकरणीयः, परिपृच्छय व्याकरणीयः, स्थापनीयश्च ।
तत्र यथाक्रमं वेदितव्यम्—
एकांशतो व्याकरणं विभज्य परिपृच्छय च ।
स्थाप्यं च मरणोत्पत्तिविशिष्टात्माऽन्यतादिवत् ॥ २२ ॥
‘किं सर्वसत्त्वा मरिष्यन्ति’ इत्येकांशेन व्याकर्त्तव्यम्—मरिष्यन्तीति ।
‘किं सर्वे जनिष्यन्ते’ इति विभज्य व्याकर्त्तव्यम्—सक्लेशा¹ जनिष्यन्ते,
न निःक्लेशा इति ।
‘किं मनुष्यो विशिष्टो हीनः’ इति परिपृच्छय व्याकर्त्तव्यम्—कानधिकृत्य
प्रश्नयसीति । यदि ब्रूयाद्—देवानिति । हीन इति व्याकर्त्तव्यम् । अथ ब्रूयाद्—
अपाय़ानिति । विशिष्ट इति व्याकर्त्तव्यम् ।
‘लाभी अहमस्य ध्यानस्य, नान्ये तथा’ इति, स मानोत्तरध्यायी । तत्र तृष्णोत्तरम्
तृष्णोपरिकम्, ध्यातुं शीलमस्येति तृष्णोत्तरध्यायी । अथ वा—तृष्णोत्तरश्च
तृष्णाधिक इत्यर्थः, ध्यायी च तृष्णोत्तरध्यायी । एवं दृष्ट्युत्तरध्यायी च,
मानोत्तरध्यायी च । ते चाविद्यावशाद् भवन्तीति । ते च त्रयो ध्यायिनोऽविद्या-
वशाद् अविद्यायोगात् तथा भवन्ति । अतोऽविद्याप्यव्याकृतमूलमिति । समा-
पत्तिसमापन्नानां च एताः क्लेशसमुदाचारावस्थाः अव्याकृतानां धर्माणां मूलं
कारणमिति ॥ २१ ॥
अव्याकृतसम्बन्धेन पर्यनुयुङ्क्ते—यानि सूत्रे चतुर्दशाव्याकृतवस्तूनीति ।
विस्तरः—शाश्वतो लोकः, अशाश्वतो लोकः—इत्येवमादि । किं तान्यव्याकृतत्वा-
दिति । किं तानि नैव कुशलानि, नाकुशलानीत्यव्याकृतत्वात् । नाव्याकृतवस्तु-
न्यपदिश्यन्ते । स्थापनीयः प्रश्नोऽव्याकृत इति । यः स्थापनीयत्वेन न व्याकृतो
न कथितः, सोऽव्याकृतः प्रश्नः, तस्य वस्त्वधिष्ठानमित्यव्याकृतवस्तु ।
तत्प्रसङ्गेनेदमुपन्यस्यते—चतुर्विधो हि प्रश्नः इति विस्तरः ।
मरणोत्पत्तिविशिष्टात्माऽन्यतादिवदिति । मरणवत्, उत्पत्तिवत्, विशिष्टवत्,
आत्माऽन्यतादिवदिति । यथासङ्ख्यमेकांशव्याकरणादिषूदाहरणानि । मरि-
१ संक्लेशाः—का० ।