सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 818, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 818

निर्देश: ] पञ्चमं कोशस्थानम् ७६६
'किं¹ विज्ञानं कार्यं कारणं च' इति एकान्तेन तु पृच्छतो नैकान्तव्याकरणाद् विभज्य-
व्याकरणं युज्यते । स्कन्धेभ्योऽन्यः सत्त्व इत्येतदव्याकृतमेव । न चाव्याकरणमेव
व्याकरणं युज्यत इति ।
यस्तु स्थापनीयः प्रश्नः स्थापनीयत्वेन व्याक्रियते, कथं न व्याकृतो
भवति ?
आभिधर्मिका आहुः—तथागतो भगवानर्हन् , सम्यक् स्वाख्यातोऽस्य
धर्मः, सुप्रतिपन्नः श्रावकसंघः रूपमनित्यं यावद्विज्ञानं दुखप्रज्ञप्तिर्यावन्मार्गप्रज्ञप्ति-
रेकांशेन व्याकर्तव्यमर्थोपसंहितत्वात् । विभज्यव्याकरणं नाम यदि कश्चिद् ब्रूयाद्—
धर्मन् वदेति, स वक्तव्यः-बहवो धर्मा अतीता अनागताः प्रत्युत्पन्नाः कतमान्
वदामीति । यदि ब्रूयादतीतानिति, स वक्तव्यः—अतीता अपि बहवो रूपं यावद्विज्ञान-
मिति । अथ ब्रूयाद् रूपमिति, स वक्तव्यः —रूपमपि त्रिविधं कुशलमकुशलमव्याकृतं
च । यद्याह—कुशलमिति, तदपि सप्तप्रकारं प्राणातिपाताद्विरतिर्यावत्संभिन्नप्रलापा-
दिति। यद्याह-प्राणातिपाताद्विरतिमिति, साऽपि त्रिप्रकारा- अलोभजा, अद्वेषजा,
अमोहजा । यद्याह-अलोभनामिति, अलोभजापि द्विविधा - विज्ञप्त्यविज्ञप्तिभेदा-
दित्येवं विभज्य वक्तव्यमिति : एतदेव² शठस्य परिपृच्छाद्य व्याकरणम् । तस्य
कारणम् — इति प्रश्न एकांशेन व्याक्रियते—हेतुफलापेक्षया कारणं कार्यं चेति ।
तत्र यदुक्तम् —'कि मनुष्यो हीनो विशिष्टः' इति परिपृच्छ्या व्याकर्तव्यम्—
'कानधिकृत्य प्रश्नयसि' इति, तदयुक्तम् ; यस्मादयमेकांशेन व्याकरणीयः
प्रश्न इति । 'एकान्तेन तु पृच्छतः' इत्याचार्यो वैभाषिकपक्षं समर्थयति ।
'एकान्तेन तु पृच्छतः कि मनुष्यो हीन एवविशिष्ट एवेति नैकान्तव्याकरणाद्
हीन इति वा, विशिष्ट इति वा विभज्यव्याकरणं युज्यते— कानधिकृत्य प्रश्न-
यसीति । तत्र यदुक्तम्—मनुष्येष्वेवोभयमस्तीति विस्तरेण; तदयुक्तम् । स
एवाह—स्कन्धेभ्योऽन्यः सत्त्वः इति सर्वम् ।
यस्तु स्थापनीय इत्याचार्यः । वैभाषिकनयेनोक्तमेतच्चतुर्विधस्योदाहरणम् ।
आभिधर्मिका आहुरिति । षट्पादाभिधर्ममात्रपाठीनाः । दुःखप्रज्ञप्तिर्यावन्मा-
र्गप्रज्ञप्तिरिति । चतुर्णामार्यसत्यानां प्रज्ञप्तिः यथासूत्रम् । अर्थोपसंहितत्वादिति ।
अर्थप्रतिसंयुक्तत्वादित्यर्थः । एतदेव शठस्येति । एतदेव विभज्यव्याकरणीय-
प्रश्नवचनम् । शठस्य विहेठनाभिप्रायस्य प्रष्टुः परिपृच्छाव्याकरणं वेदित-
१. का० पुस्तके नास्ति । २. एतदेव च—का० ।