सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 820, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 820

निर्देशः ] पञ्चमं कोशस्थानम् ८०१
व्याकरणीयः प्रश्नः । कतमश्च भिक्षवो विभज्यव्याकरणीयः प्रश्नः ? 'सञ्चेतनीयं
कर्म कृत्वा किं प्रतिवेदयते' इत्ययं विभज्यव्याकरणीयः प्रश्नः । कतमश्च भिक्षवः
परिपृच्छ्यव्याकरणीयः प्रश्नः ? संज्ञासु पुरुषस्यात्मा, उताहोऽन्या संज्ञा अन्य
आत्मेति पृष्टेन सता परिप्रष्टव्यः—कतमं पुनरायुष्मानात्मानं प्रत्येति ? स चेदेवं
वदेद्—औदारिकं खल्वहमायुष्मन्नात्मानं प्रत्येमि । एवं सत्यन्या संज्ञा अन्य
आत्मेत्येवं वचनीयः । अयं हि परिपृच्छ्य व्याकरणीयः प्रश्नः । कतमश्च भिक्षवः
स्थापनीयः प्रश्नः ? तद्यथा—शाश्वतो लोकोऽशाश्वतः, शाश्वतश्चाशाश्वतश्च,
नैव शाश्वतो नाशाश्वतः ; अन्तवानन्तश्च नैवान्तवान्नानन्तवान् । भवति तथागतः
परं मरणान्न भवति तथागतः परं मरणात्, यावदन्यो जीवोऽन्यच्छरीरमित्ययं
भिक्षवः स्थापनीयः प्रश्नः” इति ॥ २२ ॥
यस्य पुद्गलस्य योऽनुशयो यस्मिन्नालम्बनेऽनुशेते स तेन तस्मिन्
सम्प्रयुक्तः । इदं तु वक्तव्यम्—अतीते न कस्मिन् यावत् प्रत्युत्पन्ने न कस्मिन्निति ?
समासतः इमे द्विविधाः क्लेशाः—स्वलक्षणक्लेशाश्च, रागप्रतिघमानाः ।
सामान्यक्लेशाश्च दृष्टिविचिकित्साऽविद्याः¹ । तत्र तावत्
सुखं दुःखम् अदुःखसुखम्' इत्येवं पृष्टेन विभज्य व्याकरणीयः प्रश्नः ।
सञ्चेतनीयस्य कुशलादिभेदात् । कुशलसास्रवं सञ्चेतनीयं कर्म कृत्वा
सुखमदुःखसुखं वा प्रतिसंवेदयते । अकुशलसञ्चेतनीयं कर्म कृत्वा दुःखं
प्रतिसंवेदयते इति । स चेदेवं वदेत्-औदारिकमिति रूपि । विस्तरः प्रभेदः । न भवति
यावदन्यो जीव इति । यावच्छब्देन सर्वं वक्तव्यम्—“न भवति तथागतः परं
मरणात्, भवति च न भवति तथागतः परं मरणात् । स जीवस्तच्छरीरम्,
अन्यो जीवः, अन्यच्छरीरम्” इति ॥ २२ ॥
स तेन तस्मिं संयुक्त इति । स पुद्गलस्तेनानुशयेन बद्ध इति
ज्ञायत एवेत्यर्थः । स्वलक्षणक्लेशाश्चेति । स्वलक्षणम्—सुखवेदनीयादि वस्तु,
तत्र रागः सुखवेदनीय एव वस्त्वावलम्ब्योत्पद्यत इति स्वलक्षणक्लेश इत्युच्यते ।
तेन सुखवेदनीयेनालम्ब्यमानेनोन्नतिर्भवतीति मानोऽपि स्वलक्षणक्लेशः । तथा
दुःखवेदनीयं वस्त्वावलम्ब्य प्रतिघ उत्पद्यते इति प्रतिघोऽपि स्वलक्षणक्लेश
इत्युच्यते । सामान्यक्लेशाश्च । दृष्टिविचिकित्सादयः । सामान्याः सामान्येन वा
१. ०कित्साऽविद्याः—का० ।