अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 812, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] पञ्चमं कोशस्थानम् ७६३
अनास्रवालम्बना अनुशाया नैवालम्बनतोऽनुशेरते । नाप्यूर्ध्वभूम्यालम्बनाः ।
किं कारणम् ? तदालम्बनस्य वस्तुनः
अस्वीकाराद्विपक्षतः ।
यदि वस्त्वात्मदृष्टितृष्णाभ्यां स्वीकृतं भवति तत्रान्येऽप्यनुशया अनुगमयितु-
मुत्सहन्ते । आर्द्र इव पटे रजांसि संस्थातुम् । न चैवमनास्रावाः, नाप्येवमूर्ध्वा
भूमिः । अतो न तदालम्बनास्तेष्वनुशेरते । यस्त्विहस्थस्तां भूमिं प्रार्थयते,
कुशलोऽसौ धर्मच्छन्दः विपक्षभूतौ च निर्वाणमार्गौ तदालम्बनानां क्लेशानामूर्ध्वा
च भूमिरधराणाम् । अतो न तेषु प्रतिष्ठां लभन्ते तप्त इवोपले तलानि
पादानाम् ।
आनुगुण्यार्थोऽत्रानुशयार्थः । न च ते तदनुगुणा इत्यपरे । वाति-
कस्य रूक्षाननुशयनवत् । अत उक्ता आलम्बनतोऽनुशेरते ।
येन यः सम्प्रयुक्तस्तु स तस्मिन् सम्प्रयोगतः ॥ १८ ॥
'अनुशेरते' इति वर्तते । योऽनुशयो येन धर्मेण संप्रयुक्तस्तस्मिन् संप्रयोगतो-
ऽनुशेते । यावदप्रहीण इति विशेषणार्थस्तुशब्दः । स्युरनुशया नानास्रवालम्बना
न विसभागतुसर्वत्रगाः । ते चानुशयाः सम्प्रयोगतोऽनुशयीरन्नालम्बनतः, न
स्युर्विसभागभूमिसर्वत्रगा अनुशायाः ॥ १८ ॥
एषामष्टानवतेरनुशयानां कत्यकुशलाः ? कत्यव्याकृताः ?
ऊर्ध्वमव्याकृताः सर्वे,
रूपारूप्यावचरास्तावत् सर्व एवाव्याकृताः । किं कारणम् ? क्लिष्टानां धर्माणां
दुःखविपाकः स्यात् । तच्च तयोर्नास्ति ; परव्याबाधहेत्वभावात् ।
आनुगुण्यार्थोऽत्रानुशयार्थः । न तद्भूमिकाः प्रत्ययास्तदुपपत्तये आनुगुण्येन
वर्तन्त इति । न च ते तदनुगुणा इति । न च ते निरोधादयः तेषां मिथ्या-
दृष्ट्यादीनामनुगुणाः, वातिकस्य रूक्षाननुशयनवत् । यथा 'वातिकस्य रूक्षं
नानुशेते' इत्युक्ते 'न कायस्यानुगुण्येन वर्तते' इति गम्यते । पूर्वस्मिंस्तु पक्षे
प्रतिष्ठालाभार्थः न तेषु प्रतिष्ठां लभत इति वचनात् ।
येन धर्मेणेति । वेदनादिना ॥ १८॥
तच्च तयोर्नास्तीति । तच्च दुःखं तयोः रूपारूप्यधात्वोर्नास्ति । कस्मात् ?
परव्याबाधाहेत्वभावात् । परव्याबाधस्य हेतुर्व्यापादादिः, तस्याभावात् ।