सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] तृतीयं कोशस्थानम् ४६७
यत एषा नान्यः क्लेशः शक्यते वक्तुम् ।
ननु चान्यो मान एव स्यात् । अत्र तु¹ पुनर्विचार्यमाणे बहु वक्तव्यं
जायते । तस्मात् तिष्ठत्वेतत् ॥ २९ ॥
अथ नामरूपमिति कोऽर्थः ? रूपं विस्तरेणोक्तम्² ।
नाम त्वरूपिणः स्कन्धाः,
किं कारणम् ? नामेन्द्रियार्थवशेनार्थेषु नमतीति नाम ।
कतमस्य नाम्नो वशेन ? यदिदं लोके प्रतीतं तेषां तेषामर्थानां प्रत्याय-
कम्—गौः, अश्वः, रूपम्, रस इत्येवमादि ।
स्वाभिप्रायं विवृणोति—यत एषा नान्यः क्लेशः शक्यते वक्तुमिति । कस्मान्न
शक्यते ? तृष्णादृष्टास्मिमानानां पृथगुक्तेः ।
आचार्य आह—ननु चान्यो मान एव स्यादिति । अस्मिमानादन्यः षण्ण-
मन्यतमः । स च मयता, नाविद्येत्यभिप्रायः । अत्र तु पुनर्विचार्यमाणे बहु वक्तव्यं
जायत इति । अत्र पुनर्विचार्यमाणेऽविद्याङ्गे बहुरयं ग्रन्थो जायते, यथोक्तमिति ।
तस्मात्तिष्ठत्वेतत् । एतावदेवास्त्विति । अथवा—अन्यो मान एव स्यात्, न
पुनर्विद्येति, कुत एतदित्येवमादिके पुनर्विचारे क्रियमाणे उत्तरप्रत्युत्तरवचनेन
बहु वक्तव्यं जायते । तस्मात्तिष्ठत्वेतदलं विचारान्तरेणेत्यर्थः ॥ २९ ॥
अथ नामरूपमिति । अविद्याङ्गनिर्देशानन्तरं संस्काराङ्गं निर्देश्यम् । तदनु-
विज्ञानाङ्गम्, किमित्येतदतिक्रम्योपन्यस्यते ? एतदर्थमत्र वक्ष्यत्याचार्यः—"उक्तं
च वक्ष्यते चान्यत्" ( अभि० ३.३६ ) इति ।
रूपं विस्तरेणोक्तमिति । "रूपं पञ्चेन्द्रियाण्यर्याः पञ्चाविज्ञप्तिरेव च"
( अभि० को० १.९ ) इत्यत्र । नामेन्द्रियार्थवशेनेति विस्तरः । नामवशेन
इन्द्रियवशेन अर्थवशेन चार्थेषु रूपादिषु नमतीति नाम । कतमस्य नाम्नो वशे-
नेति । नामद्वैविध्यात् पृच्छति । आचार्यस्तदाचष्टे—यदिदं लोके प्रतीतमिति
विस्तरः । गौरश्व इति, समुदायप्रत्यायकम् । रूपं रस इति, एकार्थप्रत्यायकम् ।
तदेतद् वेदनादिस्कन्धचतुष्कं नामशब्देनोच्यते । यस्मात्तन्नामवशेन संज्ञाकरण-
वशेनार्थेष्वप्रत्यक्षेषु प्रत्यक्षेष्वपि वा नमति प्रवर्त्तते—अस्य नाम्नोऽयमर्थ इति ।
इन्द्रियार्थवशेन तु प्रत्यक्षेषु रूपादिषु नमति, उत्पद्यत इत्यर्थः । नाम्नि चाप्यर्थ-
१. का० पुस्तके नास्ति ।
२. विस्तरेण यथोक्तम्—का० ।

४६८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ श्लोक-
एतस्य पुनः केन नामत्वम् ? तेषु तेष्वर्थेषु तस्य नाम्नो नमनात् ।
इह निक्षिप्ते काय उपपत्त्यन्तरे नमनान्नामारूपिणः स्कन्धा इत्यपरे ॥
षडायतनमुक्तम् ॥
स्पर्शो वक्तव्यः ?
स्पर्शाः षट् ,
चक्षुःसंस्पर्शः, यावन्मनःसंस्पर्श इति । ते पुनः—
सन्निपातजाः ।
त्रयाणां सन्निपाताज्जाता इन्द्रियार्थविज्ञानानाम् । युक्तं तावत् पञ्चाना-
मिन्द्रियाणामर्थविज्ञानाभ्यां सन्निपातः; सहजत्वात् ।
मनइन्द्रियस्य पुनर्निरुद्धस्यानागतवर्त्तमानाभ्यां धर्ममनोविज्ञानाभ्यां कथं
सन्निपातः ? अयमेव तेषां सन्निपातो यः कार्यकारणभावः । एककार्यार्थो वा
सन्निपातार्थः । सर्वे च ते त्रयोऽपि स्पर्शोत्पत्तौ प्रगुणा भवन्तीति ।
वशेन नमति—अस्यार्थस्येदं नामेति । एतस्य पुनः केन नामत्वमिति । एतस्य
संज्ञाकरणलक्षणस्य नाम्नः केन कारणेन नामत्वम् । तेषु तेष्वर्थेषु तस्य नाम्नो
नमनादिति । यस्मात्तेष्वर्थेषु चतुस्कन्धलक्षणं नाम, तन्नाम नमयति प्रवर्त्तयति,
तस्मात् एतस्य नामत्वम्, नमयतीति नामेति कृत्वा । इह निक्षिप्त इति
विस्तरः । मरणकाले निक्षिप्ते काय उपपत्त्यन्तरे नमनाद् गमनादरूपिणो वेदना-
दयः स्कन्धा नामेत्युच्यन्ते । यथोक्तम्—मृतस्य खलु कालं गतस्य ज्ञातय इमं
पूतिकायमग्निना वा दहन्ति, उदके वा प्लावयन्ति, भूमौ वा निखनन्ति,
वातातापाभ्यां वा परिशोषं परिक्षयं पर्यादानं गच्छति । यत्पुनरिदमुच्यते—
चित्तमिति वा मन इति वा विज्ञानमिति वा श्रद्धापरिभावितं तदूर्ध्वगामि
भवति, विशेषगाम्यायत्यां स्वर्गोपगमिति ।
षडायतनमुक्तमिति । "तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः" (अभि०
१.९), "विज्ञानं प्रतिविज्ञप्तिर्मनआयतनं च तत्" (अभि० को० १.१६) इत्यत्र ।
मनइन्द्रियस्य पुनर्निरुद्धस्यानागतेन धर्मेण रूपादिनोत्पत्स्यमानेन वर्त्तमानेन
मनोविज्ञानेन कथं सन्निपातः । यः कार्यकारणभावः । कार्यं मनोविज्ञानम्, कारणं
मनइन्द्रियम्, धर्मश्च रूपादिः । एककार्यार्थो वेति । एककार्यमेवार्थं एककार्यार्थः,
एककार्यत्वमित्यर्थः । कथमेककार्यार्थः ? इत्याह—सर्वे च ते त्रयोऽपि मन-
इन्द्रियादयः स्पर्शोत्पत्तौ प्रगुणा अनुकूला भवन्तीति ।

निर्देशः ] तृतीयं कोशस्थानम् ४६९
अत्र पुनराचार्याणां भेदं गता बुद्धयः ।
केचिद्धि सन्निपातमेव स्पर्शं व्याचक्षते । सूत्रं चात्र ज्ञापकमान-
यन्ति—"इति य एषां त्रयाणां धर्माणां सङ्गतिः सन्निपातः समवायः स
स्पर्शः" ( ) इति ।
केचित् पुनश्चित्तसम्प्रयुक्तं धर्मान्तरमेव स्पर्शं व्याचक्षते, सूत्रं चात्र ज्ञापक-
मानयन्ति—"षट्षट्को धर्मपर्यायः कतमः ? षडाध्यात्मिकान्यायतनानि, षड् बाह्या-
न्यायतनानि, षड् विज्ञानकायाः, षट् स्पर्शकायाः, षट् वेदनाकायाः, षट् तृष्णाकायाः"
( ) इति । अत्र हीन्द्रियार्थविज्ञानेभ्यः स्पर्शकायाः पृथग् देशिताः ।
तत्र ये सन्निपातमेव स्पर्शमाहुस्त एवं परिहारमाहुः—न वै पृथङ्निर्देशात्
पृथग्भावो भवति । मा भूद्धर्मायतनाद्वेदनातृष्णयोः पृथग्भाव इति । नैष दोषः;
तद्व्यतिरिक्तस्यापि धर्मायतनस्य भावात् । न चैवं स्पर्शभूतात् त्रयादन्यत् त्रयमस्ति,
यस्य शेषस्यात्र ग्रहणं स्यात् ।
षट्षट्को धर्मपर्याय इति । षट् षट्कान्यस्मिन्निति षट्षट्कः । आध्यात्मिक-
बाह्यविज्ञानस्पर्शवेदनातृष्णाषट्कसम्भवात् । षट्स्पर्शकाया इति ज्ञापकम् । अनन्यत्वे
हि सतीन्द्रियार्थविज्ञानेषूक्तेषु स्पर्शकायवचनं पुनरुक्तं स्यात् । ततश्च षट्षट्-
कत्वं हीयते ।
मा भूद् धर्मायतनाद्वेदनातृष्णयोः पृथग्भाव इति । यदि पृथङ्निर्देशात् पृथग्-
भावो भवेत्, वेदनातृष्णे अपि धर्मायतनात् पृथङ्निर्दिष्टे, तयोरपि वेदनातृष्ण-
योर्धर्मायतनात् पृथग्भावः स्यात् । न च तयोः पृथग्भावः इष्यते; धर्मायतनान्त-
र्भावात् । नैष दोष इति विस्तरः । नैष दोष इति यथोक्तः । तद्व्यतिरिक्तस्यापि
वेदनातृष्णाव्यतिरिक्तस्यापि धर्मायतनस्य तज्जादिस्वभावस्य भावादस्तित्वात् ।
न चैवमिति विस्तरः । न चैवं भवतः 'त्रयाणां सन्निपातः स्पर्शः' इत्येवं ब्रुवाणस्य,
स्पर्शभूतादिन्द्रियार्थविज्ञानत्रयादन्यदस्पर्शभूतं त्रयमिन्द्रियार्थविज्ञानत्रयमस्ति,
यस्य शेषस्यात्र सूत्रे ग्रहणं स्यात् । 'षट् स्पर्शकायाः' इति प्रयोजनवशादपृथग्भावे-
ऽपि स्पर्शभूतात् त्रयात् । तस्मादपृथग्भावेऽपि वेदनातृष्णयोः पृथङ्निर्देशो युक्तः;
विनेयकार्यवशात् । न तु भवतः सन्निपातमात्रस्पर्शवादिनः केनचिदपि प्रयोज-
नेन 'षट् स्पर्शकायाः' इति पृथङ्निर्देशो युक्तः; यस्मात् 'षट् स्पर्शकायाः' इति
वचनेनेन्द्रियार्थविज्ञानत्रयमुक्तमिति तद्वचनं प्राप्तमित्यतः 'षट्षट्को धर्मपर्यायः'
इति न सिध्येत् । मम तु सिध्यति; स्पर्शवेदनातृष्णाषट्कवचनेऽपि तद्व्यति-

यद्यपीन्द्रियार्थौ¹ स्यातामविज्ञानकौ, न तु पुनर्विज्ञानमनिन्द्रियार्थकम् ।
तस्मात्त्रिषु निर्दिष्टेषु पुनः स्पर्शग्रहणमनर्थकं² प्राप्नोति ।
न खलु सर्वे चक्षूरूपे सर्वस्य चक्षुर्विज्ञानस्य कारणम्, नापि सर्वं चक्षु-
र्विज्ञानं पूर्वयोश्चक्षूरूपयोः कार्यम् । अतो येषां कार्यकारणभावस्ते स्पर्शभावेन³
व्यवस्थिता⁴ इत्येके ।
ये पुनः सन्निपातादन्यं स्पर्शमाहुः, त एतत् सूत्रं कथं परिहरन्ति—"इति
य एषां त्रयाणां सङ्गतिः सन्निपातः समवायः स स्पर्शः” इति ? न वा एवं
पठन्ति । किं तर्हि ? “सङ्गतेः सन्निपातात् समवायात्” इति पठन्ति । कारणे
वा कार्योपचारोऽयमिति ब्रुवन्ति ।
रिक्तधर्मायतनाद्यर्थेन्द्रियविज्ञानषट्कसम्भवात् । तस्मात् 'षट् स्पर्शकायाः' इति
पृथङ्निर्देशाद् 'अस्ति चित्तसम्प्रयुक्तं स्पर्शाख्यं धर्मान्तरम्' इति सिद्धम् ।
अथ ब्रूयादसौ—इन्द्रियार्थावविज्ञानकौ निर्दिष्टावस्मिन् सूत्रे, षडाध्यात्मि-
कानि, षड् बाह्यानीति वचनात्; अत इन्द्रियविषयविज्ञानत्रयं स्पर्शभूत-
मित्यस्य शेषस्य ज्ञापनार्थमत्र ग्रहणं स्यात्—षट् स्पर्शकाया इति ? अस्य
समाधेः प्रतिषेधार्थमिदमारभ्यते—यद्यपीन्द्रियार्थौ स्यातामविज्ञानकौ । तत्स-
भागावित्यर्थः ।' न तु पुनर्विज्ञानमनिन्द्रियार्थकम् । अवश्यं हि विज्ञानं सेन्द्रिया-
र्थकं भवति । तच्च विज्ञानमपदिष्टमत्र—षड्विज्ञानकाया इति । तस्मात्त्रिषु
निर्दिष्टेषु इन्द्रियार्थविज्ञानेषु षड्विज्ञानकायवचनेन पुनः स्पर्शग्रहणमनर्थकं
प्राप्नोति—षट् स्पर्शकाया इति । अतः 'सन्निपातादन्यः स्पर्शः' इति सिद्धम् ।
अत्र भदन्तश्रीलाभ आह—न खल्विति विस्तरः । पूर्वोत्पन्ने चक्षूरूपे कारणम्,
न तु विज्ञानसहोत्पन्ने । नापि सर्वचक्षुर्विज्ञानमिति । पश्चादुत्पन्नं पूर्वयोश्चक्षूरूपयोर्न
सहोत्पन्नयोः । अतो येषां कार्यकारणभावस्ते विज्ञानेन्द्रियविषयाः स्पर्शभावेन
व्यवस्थिताः, 'षट् स्पर्शकायाः' इत्यस्मिन् सूत्रे, तदिदमन्यथा न ज्ञापितं स्यात् ।
न वा एवं पठन्ति । वै इति निपातः । न वै एवं पठन्तीत्यर्थः । कथं पुनः
पठन्ति ? “य एषां धर्माणां संगतिः सन्निपातः समवायः स स्पर्शः” इति
पठन्ति । कारणे वा कार्योपचारोऽयमिति । सङ्गतौ सन्निपाते समवाये कारणे
कार्योपचारः स्पर्श इति । यथा—'सुखो बुद्धानामुत्पादः' इति ।
१. यद्यपि हीन्द्रिया०—का० । २. स्पर्शस्य ग्रहण०—का० ।
३. स्पर्शभावे—का० । ४. व्यवस्थापिता—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ४७१
अतिबहुविस्तरप्रकारविसारिणी १ त्वेषा कथेत्यलं प्रसङ्गेन ।
अन्यमेव स्पर्शं वर्णयन्त्याभिधार्मिकाः ॥
तेषां पुनः षण्णां स्पर्शानाम्—
पञ्च प्रतिघसंस्पर्शः षष्ठोऽधिवचनाह्वयः ॥ ३० ॥
चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शाः पञ्च प्रतिघसंस्पर्श इत्युच्यते; सप्रति-
घेन्द्रियाश्रयत्वात् । मनःसंस्पर्शः षष्ठः सोऽधिवचनस्पर्श इत्युच्यते ।
किं कारणम्—अधिवचनमुच्यते नाम। तत्किलास्याधिकमालम्बनम्, अतो-
ऽधिवचनं संस्पर्शं २ इति । यथोक्तम्—“चक्षुर्विज्ञानेन नीलं विजानाति नो तु
नीलम्, मनोविज्ञानेन नीलं विजानाति नीलमिति च विजानाति” ( )
इति । एक आश्रयप्रभावितः, द्वितीय आलम्बनप्रभावितः ।
अपरे पुनराहुः—वचनमधिकृत्यार्थेषु मनोविज्ञानस्य प्रवृत्तिः, न पञ्चानाम्।
अतस्तदेवाधिवचनम् । तेन सम्प्रयुक्तः स्पर्शोऽधिवचनसंस्पर्श इति । एक
आश्रयप्रभावितः, द्वितीयः सम्प्रयोगप्रभावितः ॥ ३० ॥
अतिबहुविस्तरेण प्रकारेण विसर्तुं शीलमस्या इति अतिबहुविस्तरप्रकार-
विसारिणी ।
अधिवचनमुच्यते नामेति । अध्युच्यतेऽनेनेत्यधिवचनम्। वाङ्नाम्नि प्रवर्त्तते,
नामार्थं द्योतयति इत्यधिवचनं नाम । तत् किल । नामार्थे। मनोविज्ञानसम्प्र-
युक्तस्याधिकं बाहुल्येनालम्बनम् । अतोऽधिवचनं संस्पर्श इति । स्पर्शः संस्पर्श
इत्येकोऽर्थः । मनोविज्ञानेन नीलं विजानातीति । अभिधेयं विजानातीत्यर्थः ।
नीलमिति च विजानातीति । अस्यार्थस्येदं नामेति विजानाति । एक आश्रय-
प्रभावित इति । प्रथम आश्रयेण प्रभावितः प्रतिघाश्रयः संस्पर्शः, प्रतिघस्य वा
संस्पर्शः प्रतिघसंस्पर्शः । आलम्बनप्रभावित इति । अधिवचनादालम्बनसंस्पर्शः,
अधिवचने वा संस्पर्शः अधिवचनसंस्पर्श इति ।
वचनमधिकृत्येति । वचनमवधार्य । अर्थेषु रूपादिषु मनोविज्ञानस्य प्रवृत्तिः ।
न पञ्चानां चक्षुर्विज्ञानादीनां वचनमधिकृत्यार्थेषु प्रवृत्तिः। अतस्तदेवाधिवचनं
मनोविज्ञानं वचने प्रवर्त्ततेऽधिवचनमिति । तेन सम्प्रयुक्तस्तस्य वा संस्पर्शस्याधि-
वचनसंस्पर्शः । तेन चायं द्वितीयः संस्पर्शः सम्प्रयोगप्रभावित इत्युच्यते ॥ ३० ॥
१. ॰विस्तरप्रसारिणी—का० ।
२-२. ॰वचनसंस्पर्शः—का० ।

४७२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
पुनस्त एव षट् स्पर्शास्त्रयो भवन्ति—
विद्याविद्येतरस्पर्शाः,
विद्यासंस्पर्शः, अविद्यासंस्पर्शः, ताभ्यां चान्यो नैवविद्यानाविद्यासंस्पर्श
इति ।
एते पुनर्यथाक्रमं वेदितव्याः—
अमलक्लिष्टशेषिताः ।
अनास्रवः स्पर्शो विद्यासंस्पर्शः, क्लिष्टोऽविद्यासंस्पर्शः; विद्याऽविद्याभ्यां
सम्प्रयुक्तत्वात् । शेषो नैवविद्यानाविद्यासंस्पर्शः; उभाभ्यामसं प्रयोगात् ।
कः पुन शेषः ? कुशलसास्रवोऽनिवृताव्याकृतश्च ।
पुनरविद्यासंस्पर्शस्याभीक्ष्णसमुदाचारिण एकदेशस्य ग्रहणाद् द्वौ स्पर्शौ
भवतः—
व्यापादानुनयस्पर्शौ,
व्यापादानुनयाभ्यां सम्प्रयोगाव । पुनः सर्वसंग्रहेण—
सुखवेद्यादयस्त्रयः ॥ ३१ ॥
सुखवेदनीयः स्पर्शः, दुःखवेदनीयः, अदुःखासुखवेदनीयश्च; सुखवेदना-
दिहितत्वात् ।
अथ वा—वेद्यते तद्, वेदयितुं वा शक्यमिति वेदनीयम् । किं तत् ? वेदि-
“विद्याविद्येतरस्पर्शाः” इति । विद्या अविद्या इतरश्च विद्याविद्येतरे, त एव
स्पर्शा विद्याविद्येतरस्पर्शाः । विद्या चाविद्या चेति, विद्याह्वः अविद्याह्वः,
ताभ्यामितरश्चेत्यर्थः । विद्येत्यनास्रवा प्रज्ञा । अविद्या क्लिष्टमज्ञानम् । नैवविद्या-
नाविद्या कुशलसास्रवा प्रज्ञा, तत्सम्प्रयुक्ता एते यथाक्रमं संस्पर्शा वेदितव्याः ।
पुनरविद्यासंस्पर्शस्येति विस्तरः । अविद्यासंस्पर्शस्य सर्वक्लेशसम्प्रयुक्तस्य
अभीक्ष्णसमुदाचारी नित्यसमुदाचारी एकदेशः, तस्य ग्रहणाद् द्वौ स्पर्शौ
भवतः—“व्यापादानुनयस्पर्शौ ।
सुखवेद्यादयस्त्रयः” इति । सुखस्य वेदः, सुखेवेदे साधुः सुखवेद्यः, सुखं
वा वेद्यमस्मिन्निति सुखवेदनादौ हितः सुखवेदनीयः, “प्राक्क्रीताच्छः”
(पां० सू० ५.१.१) । वेद्यते तद्वेदयितुं वा शक्यमिति । वेद्यत इति
कर्ममात्रे कृत्य इति दर्शयति । वेदयितुं शक्यमिति—“अर्हे कृत्यतृचश्च”

निर्देशः ] तृतीयं कोशस्थानम् ४७३
तम्। सुखं वेदनीयमस्मिन्निति सुखवेदनीयः स्पर्शो यत्र सुखं वेदितमस्ति
एवं दुःखादुःखासुखवेदनीयावपि योज्यौ।
त एते षोडश स्पर्शा भवन्ति ॥ ३१ ॥
उक्तः स्पर्शः ॥
वेदना वक्तव्या। तत्र यः पूर्वं षड्विधः स्पर्श उक्तः—
तज्जाः षड्वेदनाः,
चक्षुःसंस्पर्शजा वेदना, श्रोत्र-घ्राण-जिह्वा-काय-मनःसंस्पर्शजा वेदनाः।
तासां पुनः—
पञ्च कायिकी चैतसी परा।
चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शजाः पञ्च वेदनाः कायिकी वेदनेत्युच्यते;
रूपीन्द्रियाश्रितत्वात्। मनःसंस्पर्शजा पुनर्वेदना चैतसिकीत्युच्यते; चित्तमात्रा-
श्रितत्वात्।
अथ किं स्पर्शादुत्तरकालं वेदना भवति, आहोस्वित् समानकालम् ?
समानकालमिति वैभाषिकाः; अन्योन्यं सहभूहेतुत्वात्।
कथं सहोत्पन्नयोर्जन्यजनकभावः सिध्यति ?
कथं च न सिध्यति ?
असामर्थ्यात्। जाते हि धर्मे धर्मस्य नास्ति सामर्थ्यं प्रतिज्ञाऽविशिष्टम् ?


(पा० सू० ३.३.१६९) इत्यस्मिन्नर्थे कृत्य इति दर्शयति ।
त एते षोडशेति। चक्षुःसंस्पर्शो यावन्मनःसंस्पर्श इति षट्। पुनः—
प्रतिघसंस्पर्शः, अधिवचनसंस्पर्शः, विद्यासंस्पर्शः, अविद्यासंस्पर्शः, नैवविद्या-
नाविद्यासंस्पर्शः, व्यापादसंस्पर्शः, अनुनयसंस्पर्शः, सुखवेदनीयः, दुःखवेद-
नीयः, अदुःखासुखवेदनीयश्च स्पर्श इति षोडश ॥ ३१ ॥
उक्तः स्पर्शः। वेदना वक्तव्येति । ननु च वेदनाप्युक्ता "वेदनानुभवः"
(अभि० १.१४) इति । अन्यथोक्तमप्युच्यते, न तर्हीदं वक्तव्यम्—यच्चोक्तं यच्च
वक्ष्यमाणम्, तन्न वक्ष्यामीति । "उक्तं च वक्ष्यते चान्यत्" इति (अभि० को०
३ ३६) वचनात् ? प्रकारनिर्देशाददोषः। पूर्वं लक्षणमुक्तम्, इदानीं प्रकार इति।
जाते हीति विस्तरः। जाते हि जन्ये धर्मे धर्मस्य जनकस्य नास्ति सामर्थ्यं
सहोत्पन्नत्वात्। प्रतिज्ञाविशिष्टमिति । प्रतिज्ञाया अविशिष्टमेतत् साधनमित्यर्थः,

४७४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
यदेव हीदं सहोत्पन्नयोर्जन्यजनकभावो नास्तीति तदेवेदं जाते धर्मे धर्मस्य
नास्तीति ।
अन्योन्यजनकप्रसङ्गात्तर्हि ?
इष्टत्वाददोषः । इष्टमेव हि सहभूहेतोरन्योन्यफलत्वम् ।
इष्टमिदम्, सूत्रे त्वनिष्टं स्पर्शवेदनयोरन्योन्यफलत्वम्; “चक्षुःसंस्पर्शं
प्रतीत्य उत्पद्यते चक्षुःसंस्पर्शजा वेदना, न तु चक्षुःसंस्पर्शजां वेदनां प्रतीत्योत्पद्यते
चक्षुःसंस्पर्शः” इति वचनात् ।
जनकधर्मातिक्रमाच्चायुक्तम् । यो हि धर्मो यस्य धर्मस्य जनकः प्रसिद्धः,
स तस्मात् भिन्नकालः प्रसिद्धः । तद्यथा--पूर्वं बीजं पश्चादङ्कुरः, पूर्वं क्षीरं
पश्चाद्दधि, पूर्वमभिघातः पश्चाच्छब्दः, पूर्वं मनः पश्चात् मनोविज्ञानमित्येवमादि ।
अन्यथा परस्परापेक्षत्वात् कार्यकारणयोः सर्वं वा युगपदुत्पद्यते, न वा
कदाचित्; पश्चाद्विशेषाभावात् ।
नहि न सिद्धः कार्यकारणयोः पूर्वापरभावः ।
सहभावोऽपि तु सिद्धः । तद्यथा चक्षुर्विज्ञानादीनां चक्षूरूपादिभिर्भूत-
भौतिकानां च तत्रापि पूर्वमिन्द्रियार्थौ पश्चाद्विज्ञानम् । पूर्वकाच्च भूतमौतिकसमु-
दायादुत्तर उत्पद्यत इतीष्यमाणे कः प्रतिषेधः !
यदि प्रतिज्ञाविशिष्टं साधनं नेष्यते । अन्योन्यजनकप्रसङ्गात्तर्हि। किम् ? कथं सहो-
त्पन्नयोर्जन्यजनकभावः सिध्यतीत्यधिकृतम् । अनेन प्रतिज्ञादोष उद्ग्राह्यते—
अस्ति सहोत्पन्नयोर्जन्यजनकभाव इति प्रतिज्ञा पूर्वाभ्युपगमविरोधिनीति ।
इष्टत्वाददोष इति । पूर्वाभ्युपगमं दर्शयति ।
इष्टमिदं सूत्रे त्वनिष्टमिति । इष्टमिदमभिधर्मे- “सहभूये मिथःफलाः”
(अभि० को० २.५०) इति । सूत्रे त्वनिष्टम् । तत् प्रतिपादयन्नाह-चक्षुः-
संस्पर्शं प्रतीत्योत्पद्यते चक्षुःसंस्पर्शजा वेदनेति । सूत्रप्रामाण्येनान्योन्यफलत्वं
भंङ्क्त्वा सहोत्पन्नकार्यकारणभावविभंक्षया आह-जनकधर्मातिक्रमाच्चायुक्तमिति।
जनकस्यायं धर्मः प्रसिद्धो या भिन्नकालता, तद्यथा पूर्वं बीजं पश्चादङ्कुर
इत्यादि ।
तत्रापि पूर्वमिन्द्रियार्थौ पश्चाद् विज्ञानमिति । प्रथमक्षणोत्पन्नाविनिन्द्रियार्थौ,
विज्ञानं तु द्वितीये क्षण इति ।

निर्देशः ] तृतीयं कोशस्थानम् ४७५
यथा तर्हि छायाङ्कुरयोरेवं स्पर्शवेदनयोरपीति वैभाषिकाः ।
स्पर्शादुत्तरकालं वेदनेत्यपरे । इन्द्रियार्थो हि पूर्वान्तो विज्ञानम्। सोऽसौ
त्रयाणां सन्निपातः स्पर्शः, स्पर्शप्रत्ययात् पश्चाद्वेदना तृतीये^१ क्षण^१ इति ।
एवं तर्हि न सर्वत्र विज्ञाने वेदना प्राप्नोति, न च सर्वविज्ञानं^२ स्पर्शः ?
नैष दोषः; पूर्वस्पर्शहेतुका ह्युत्तरत्र स्पर्शे वेदना, सर्वे च स्पर्शाः सवेद-
नकाः^३, सर्वं च विज्ञानं स्पर्श इति ।
इदमयुक्तं वर्त्तते ।
किमत्रायुक्तम् ?
यदुत भिन्नालम्बनयोरपि स्पर्शवेदनयोः पूर्वस्पर्शहेतुकोत्तरत्र^४ वेदनेति ।
कथं हि नामान्यजातीयालम्बनस्पर्शसम्भृता वेदनाऽन्यालम्बना भविष्यति ?
यथा तर्हि छायाङ्कुरयोरिति । किम् ? सहोत्पन्नयोर्जन्यजनकभावः । उत्पन्न
एव ह्यङ्कुरश्छायां जनयति । न प्रथमे क्षणेऽङ्कुरो निश्छायो भवति, द्वितीये
सच्छाय इति ।
एवं स्पर्शवेदनयोरपीति । अनयोरपि छायाङ्कुरयोः पूर्वसामग्रीहेतुरिति शक्यं
वक्तुम् । सहभूहेतुनिर्देशे त्वयमर्थ उक्त इति न पुनरुच्यते ।
स्पर्शादुत्तरकालं वेदनेत्यपर इति । भदन्तश्रीलाभः । सोऽसौ त्रयाणां सन्निपातः
स्पर्श इति । योऽयं जनकजनितभावः । वेदना तृतीये क्षणे इति । इन्द्रियार्थक्षणः
प्रथमः, विज्ञानोत्पत्तिकक्षणो द्वितीयः, वेदनोत्पत्तिकक्षणस्तृतीय इति । न सर्वत्र
विज्ञाने वेदना प्राप्नोतीति । विज्ञानक्षणे द्वितीये वेदनाया अभावात् । न च सर्व-
विज्ञानं स्पर्शः । वेदनाक्षणे तृतीये विज्ञानं न स्पर्शः । पूर्वद्वितीयक्षणयोः स्पर्श
एव विधीयते । पूर्वस्पर्शहेतुका ह्युत्तरत्र स्पर्शे वेदना । योऽयमिदानीं द्वितीयः
क्षणः स्पर्शभावेनोक्तः, तत्र पूर्वस्पर्शहेतुका प्रथमक्षणविज्ञानहेतुका वेदनोत्पद्यते,
तत्स्पर्शपूर्विकाप्यन्यस्मिन्नित्येवं सर्वत्र विज्ञाने वेदना प्राप्नोति ।
सर्वं च विज्ञानं स्पर्श इति । ते च स्पर्शाः सवेदनका इति ।
भिन्नालम्बयोरिति विस्तरः । भिन्नमालम्बनमनयोस्तौ भिन्नालम्बनो ।
पूर्वस्य रूपमालम्बनम्, उत्तरस्य शब्दः । तयोर्भिन्नालम्बनयोः पूर्वस्पर्शहेतुका
रूपालम्बनस्पर्शहेतुका उत्तरत्र स्पर्शे शब्दालम्बने यद् वेदनोत्पद्यते, इत्येतद-
युक्तम् । कथं हि नामेति दोषमाविष्करोति । अन्यजातीयालम्ब स्पर्शसं ।
१-१. तृतीयक्षणे—का० । २. सर्वं विज्ञानं—का० ।
३. सर्ववेदनकाः—का० । ४. ॰हेतुकोत्तरस्य—का०
अभि० को० २ : ७

४७६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
येन वा चित्तेन सम्प्रयुक्ता ततो भिन्नालम्बनेति ।
अस्तु तर्हि तस्मिन् काले स्पर्शभूतं विज्ञानमवेदनकम् । तस्माच्च यत् पूर्वं
विज्ञानं संवेदनकं तन्न स्पर्शः; प्रत्ययवैधुर्यादित्येवं सति को दोषः ?
महाभूमिकनियमो भिद्यते—"सर्वत्र चित्ते दशमहाभूमिकाः” ( ) इति ।
क्व चैष नियमः सिद्धः ? शास्त्रे ।
रूपप्रकारालम्बनात् स्पर्शात् सम्भूता वेदना अन्यालम्बना भविष्यति । शब्दा-
लम्बना भविष्यति । विधुरकारणत्वात् कार्यस्यासम्भावना । यदा हि रूपा-
लम्बनात् स्पर्शात् सम्भूता वेदना रूपालम्बनेनैव वेदना भविष्यति, तदा पूर्व-
स्पर्शहेतुकोत्तरत्र स्पर्शो वेदनेति युक्तम् । यदा तु रूपालम्बनात् स्पर्शात् शब्दा-
लम्बना वेदनोत्पद्यते, तदा कथमेतद्योक्ष्यते । कारणानुरूपं हि लोके कार्यं दृश्यते ।
अथ मतम्—रूपालम्बनात् स्पर्शात् सम्भूता वेदना शब्दालम्बनस्पर्श-
सम्प्रयुक्तापि रूपालम्बना भवतीति ? अत इदमाह—येन वा चित्तेन सम्प्रयुक्ता
ततो भिन्नालम्बनेति । ततः शब्दालम्बनाच्चित्ताद्भिन्नालम्बना यत उत्पन्ना
रूपालम्बना, तेन समालम्बनेत्यर्थः । कथं चासौ तेन सम्प्रयुक्तेत्युच्यते ? समं
प्रयुक्ता हि सम्प्रयुक्ता । यद्यभिन्नाश्रयत्वात्, कथं श्रोत्राश्रयोत्पन्ना सती रूपा-
लम्बना भविष्यति ? कथं न भविष्यति ? चित्तचैत्तानामाश्चयेणैकविषय-
प्रवृत्तत्वात् । तस्मादन्यतरालम्बनत्वेऽपि वेदनाया दोषः । स दोषः प्रदर्श्यते—
यदि तावद् रूपालम्बनात् स्पर्शादुत्पन्ना वेदना शब्दाद्यालम्बनान्तरमालम्बते,
स रूपालम्बनः स्पर्शः सुखवेदनीयो यावद् दुःखासुखवेदनीय इति न प्राप्नोति ।
एकालम्बनस्य तु वेदनया तथा निर्देशो युक्त इति ।
अस्तु तर्हीति विस्तरः । यद्येवं दोषः, अस्तु तर्हि तस्मिन् काले । कस्मिन्
काले ? शब्दालम्बनकाले । स्पर्शभूतं विज्ञानमवेदनकम् । तस्माच्च शब्दालम्बनाद्
यत् पूर्वं विज्ञानं संवेदनकं तन्न स्पर्शः । एवं हि निर्दोषं भवतीति । अन्यथा हि
यदि पूर्वोत्पन्नं संवेदनकं विज्ञानं स्पर्शः स्यात्, तदैवं स्पर्शप्रत्यया वेदनेति
यथोक्तो दोषः स्यात् । किं पुनः कारणम्—किञ्चिद्विज्ञानमवेदनकम्, किञ्चिच्च
न स्पर्शः ? प्रत्ययवैधुर्यात् । विधुरा हि प्रत्यया विप्रतिबन्धेनावस्थिताः । न
हि सर्वः समनन्तरप्रत्ययो वेदनाप्रत्ययं स्पर्शभूतं विज्ञानं जनयितुं समर्थ इति ।
तदेवं तस्य भिन्नालम्बनं विज्ञानमेकान्तेनावेदनकम्, तदुत्पादकं चास्पर्श-
भूतम् । यदि तु रूपालम्बनाच्चक्षुर्विज्ञानादनन्तरं रूपालम्बनमेव चक्षुर्विज्ञान-
मेवमुत्पद्यते—मनोविज्ञानं तत्संवेदनकं पूर्वोत्पन्नं स्पर्शं इति । एवं सतीति ।
महाभूमिकनियमो भिद्यत इति । स्पर्शवेदनयोः पर्यायेण नियमात् ।

निर्देशः ] तृतीयं कोशस्थानम् ४७ .
सूत्रप्रमाणका वयम् , न शास्त्रप्रमाणकाः ।
उक्तं हि भगवता— ( ) इति ।
न वा एष महाभूमिकार्थः—सर्वत्र चित्ते दश महाभूमिकाः सम्भवन्तीति ।
कस्तर्हि महाभूमिकार्थः ?
तिस्रो भूमयः—सवितर्का सविचारा भूमिः, अवितर्का विचारमात्रा, अवि-
तर्काऽविचारा भूमिः । पुनस्तिस्रः—कुशला भूमिः, अकुशला, अव्याकृता भूमिः ।
पुनस्तिस्रः—शैक्षी भूमिः, अशैक्षी, नैवशैक्षीनाशैक्षी भूमिः । तद्य एतस्यां
सर्वस्यां भूमौ भवन्ति ते महाभूमिकाः, ये कुशलायामेव भूमौ ते कुशलमहा-
भूमिकाः, ये क्लिष्टायामेव ते क्लेशमहाभूमिकाः ।
ते पुनर्यथासम्भवं पर्यायेण, न तु सर्वे युगपदित्यपरे ।
तिस्रो भूमय इति । सवितर्का सविचारा कामधातुः प्रथमं च ध्यानम् ।
अवितर्का विचारमात्रा ध्यानान्तरम् । अवितर्का अविचारा द्वितीयाद्ध्यानात्
प्रभृति यावद्भवाग्रम् । कुशला भूमिः कुशला धर्माः । एवमकुशला अव्याकृताः ।
शैक्षी भूमिः शैक्षस्यानास्रवा धर्माः । अशैक्षी अशैक्षस्यानास्रवा धर्माः । नैव-
शैक्षीनाशैक्षी भूमिः सास्रवा धर्माः । असंस्कृता इह नोच्यन्ते, चेत्तसम्बन्धात् ।
तद्य एतस्यामिति विस्तरः । तदिति वाक्योपन्यासे । य इति ये चैतसिकाः ।
एतस्यां सर्वस्यां भूमाविति । सवितर्कसविचारायां भूमौ, यावन्नैवशैक्षीनाशैक्ष्यां
भूमौ । ते महाभूमिकाः। वेदनाचेतनादयो यथोक्ताः । ये कुशलायामेव भूमौ ते
कुशलमहाभूमिकाः । श्रद्धादयः । ये क्लिष्टायामेव ते क्लेशमहाभूमिकाः । अविद्यादयो
यथोक्ता एव ।
ते पुनर्यथासम्भवमिति विस्तरः । ते पुनर्महाभूमिकादयो ये यस्यां सम्भवन्ति
ते तस्यां पर्यायेण । न तु सर्वे युगपदित्यपरे । तद्यथा वेदना सर्वासु भूमिषु
भवन्त्यपि न युगपत् संज्ञाचेतनास्पर्शमनस्कारादिभिर्भवति, तथा स्पर्शो
वेदनादिभिः । यथा कुशलायां वितर्कादय इत्येवमादिकम् ।
अपरे पुनरेवं व्याचक्षते—यथा पञ्चस्कन्धके लिखितं तथेदं ग्रहीतव्यमिति ।
तद्यथा--“छन्दः कतमः, अभिप्रेतवस्तुन्यभिलाषः, अनभिप्रेते नास्ति छन्द
इत्यभिप्रायः । अधिमोक्षः कतमः ? निश्चिते वस्तुनि तथैवावधारणम् । १स्मृतिः
कतमा ? संस्तुते वस्तुन्यसम्प्रमोषश्चेतसोऽभिलपनता । समाधिः कतमः ?
१. का० पुस्तके नास्ति ।

अकुशलमहाभूमिकास्तु पाठप्रसङ्गेनासंहिताः १ इदानीम् । पूर्वं न
पठ्यन्ते स्म ।
यदि तर्हि स्पर्शादुत्तरकालं वेदना, सूत्रं परिहार्यम्—"चक्षुः प्रतीत्य
रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां सन्निपातः स्पर्शः सहजाता वेदना संज्ञा
चेतना" ( ) इति ।
सहजाता इत्युच्यन्ते, न स्पर्शसहजाता इति किमत्र परिहार्यम् ! सम-
नन्तरेऽपि चायं सहशब्दो दृष्टः, तद्यथा—"मैत्रीसहगतं स्मृतिसम्बोध्याङ्गं भाव-
यति" ( ) इत्यज्ञापकमेतत् ।
यत्तर्हि सूत्र उक्तम्—"या च वेदना या च संज्ञा या च चेतना यच्च
विज्ञानं संसृष्टा इमे धर्मा नासंसृष्टाः" इत्यतो नास्ति वेदनाभिरसंसृष्टं विज्ञानम् ?
सम्प्रधार्य तावदेतत्—एक एष संसृष्टार्थः ? तत्र हि सूत्र एवमुक्तम्—
"यद्वेदयते तच्चेतयते, यच्चेतयते तत्सम्प्रजानीते, यत्सम्प्रजानीते तद्विजानाति"
उपपरीक्ष्ये वस्तुनि चित्तस्यैकाग्रता । प्रज्ञा कतमा ? तत्रैव प्रविचयः, योगा-
योगविहितोऽन्यथा च"—इत्येवमादिः पञ्चस्कन्धकग्रन्थो द्रष्टव्यः । तत्र ह्युक्तम्—
"पञ्च सर्वत्रगा वेदनासंज्ञास्पर्शमनस्कारचेतनाः । पञ्च प्रतिनियतविषयाश्छन्दा-
धिमोक्षस्मृतिसमाधिप्रज्ञाः २" इत्येवमादि । अकुशलमहाभूमिकास्तु पाठप्रसङ्गेना-
संहिता इति । सूत्रादिषु पाठात् । कुशलमकुशलमव्याकृतमित्येवं पाठप्रसङ्गेना-
संहिताः, अध्यारोपिताः पश्चादित्यर्थः । पूर्वं न पठ्यन्ते स्म । प्रकरणपादे महा-
भूमिकाः, कुशलमहाभूमिकाः, क्लेशमहाभूमिकाः, परीत्तक्लेशमहाभूमिका-
श्चेति चतुर्विधाः पठ्यन्ते ।
सहजाता इत्युच्यन्ते, न स्पर्शसहजाता इति । अविशेषत्वादेते वेदनादयः
परस्परसहजाताः । न तु स्पर्शनेत्यर्थपरिग्रहेण परिहर्तव्यं सूत्रमित्यर्थः । मैत्री-
सहगतमिति । अयं सहशब्दो नावश्यं युगपद्भावे, समनन्तरेऽपि दृष्टः । न हि
मैत्र्याः स्मृतिसम्बोध्याङ्गस्य च समवधानमस्ति; मैत्र्या एकान्तसास्रवत्वात् ।
स्मृतिसम्बोध्याङ्गस्य चैकान्तानास्रवत्वात् । तस्मादज्ञापकमेतत् ।
संसृष्टा इति । सहोत्पन्ना इत्यभिप्रायः ।
तत्र हि सूत्र इति । यत्रैवोक्तम् । या वेदना या चेतना या च संज्ञेति
१. ०नासङ्गिताः—का० । २. ०विषयाया०—मुद्रितः पाठः ।

निर्देशः ] तृतीयं कोशस्थानम् ४७२.
इति । तन्न विज्ञायते—किं तावदयमेषामालम्बननियम उक्तः, उताहो
क्षणनियम इति !
आयुरूष्मणोः सहभाव्ये¹ संसृष्टवचनात् सिद्धः क्षणनियमः । यच्चापि
सूत्र उक्तम्—"त्रयाणां सन्निपातः स्पर्शः" इति, तत् कथं विज्ञानं चास्ति, न
च त्रयाणां सन्निपातो न च स्पर्श इति । तस्मादवश्यं सर्वत्र विज्ञाने स्पर्शः,
स्पर्शसहजा च वेदनेष्टव्या । अलमतिप्रसङ्गिन्या कथया । प्रकृतमेवानुक्रम्यताम् ॥
उक्ता समासेन चैतसिकी वेदना ॥
पुनश्चाष्टादशविधा सा मनोपविचारतः । ३२ ॥
सैव चैतसिकी वेदना पुनरष्टादश मनोपविचारव्यवस्थानादष्टादशधा
भिद्यते ।
पुनः सन्धिकरणं चात्र द्रष्टव्यम् ।
विस्तरेण । तत्र सूत्र इत्यर्थः । तन्न विज्ञायत इति विस्तरः । किं तावदयमेषां
वेदनादीनामालम्बननियमः । आलम्बने नियमः—यदेवालम्बनं वेदयते, तदेव
चेतयते यावद्विज्ञानं विजानातीति । उताहो क्षणनियमः—यस्मिन्नेव क्षणे वेदयते
तस्मिन्नेव यावद् विजानातीति । वयं ब्रूमः—आलम्बननियमोऽयमिति ।
तस्मान्न सूत्रविरोध इत्यभिप्रायः ।
आचार्य आह—तत्रैव सूत्रे आयुरूष्मणोः सहभाव्ये संसृष्टवचनात् सिद्धः
क्षणनियम इति । आयुरूष्मा च संसृष्टौ, इमौ धर्मौ न विसंसृष्टावित्यायुरू-
ष्मणोः सहोत्पन्नतोक्ता भवति; तयोर्नालम्बनत्वात् । तदेवं साधितं भवति—
अवश्यं सहोत्पन्नानि वेदनासंज्ञाचेतनावज्ञानानि; तत्र सूत्रे संसृष्टवचने-
नोक्तत्वात्, आयुरूष्मवदिति । तत् कथमिति विस्तरः । तत् कथं विज्ञानं
चास्ति । न च त्रयाणामिन्द्रियविषयविज्ञानानां सन्निपातः । तस्मादवश्यं विज्ञाना-
स्तित्वे सन्निपातोऽभ्युपगन्तव्यः । सन्निपातश्च ते स्पर्श इति । तेनेदं ते विरुध्यते
न सर्वविज्ञानं स्पर्श इति । सन्निपातो वा न स्पर्श इति ।
पुनः सन्धिकरणं चात्र द्रष्टव्यमिति । “पूर्वत्रासिद्धम्” (पा० सू० ८.२.१)
इति सकारलोपस्यासिद्धत्वाद् गुणो न प्राप्नोति ? परिहारस्तु, ईषदर्थेऽयं नञ्
द्रष्टव्यः; ईषत् सिद्धमसिद्धमित्यतः सिद्धत्वात् सकारलोपस्य गुणो भवति, 'सैष
दाशरथी रामः' इति यथा ।
१. साहभाव्ये—का० ।

४८० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कोश-
अष्टादश मनोपविचाराः कतमे ? षट् सौमनस्योपविचाराः, षट् दौर्म-
नस्योपविचाराः, षडुपेक्षोपविचाराः ।
कथमेषां व्यवस्थानम् ? यदि स्वभावतः, त्रयो भविष्यन्ति—सौमनस्य-
दौर्मनस्योपेक्षाविचाराः । अथ सम्प्रयोगतः, एको भविष्यति; सर्वेषां मनःसम्प्र-
युक्तत्वात् । अथालम्बनत-, षड् भविष्यन्ति; रूपादिषड्विषयालम्बनत्वात् ?
त्रिभिरपि स्थापना ।
तेषां पञ्चदश रूपाद्युपविचारा असम्भिन्नालम्बनाः; प्रतिनियतरूपाद्यालम्ब-
नत्वात् । त्रयो धर्मोपविचारा उभयथा ।
मनोपविचारा इति कोऽर्थ ? मनः किल प्रतीत्यैते सौमनस्यादयो विषया-
नुपविचरन्तीति । विषयेषु वा मन उपविचारयन्तीत्यपरे । वेदनावशेन मनसो
विषयेषु पुनः पुनर्विचारणात् १ ।
षट् सौमनस्योपविचारा इति विस्तरः । चक्षुषा रूपाणि दृष्ट्वा सोमनस्यस्था-
नीयानि रूपाण्युपविचरति, श्रोत्रेण शब्दान् श्रुत्वा सौमनस्यस्थानीयान् शब्दा-
नुपविचरति, एवं यावन्मनसा धर्मान् विज्ञाय सौमनस्यस्थानीयान् धर्मान्
उपविचरति । एवं चक्षुषा रूपाणि दृष्ट्वा दौर्मनस्यस्थानीयान्युपेक्षास्थानीयानि
चेति विस्तरेण योज्यम् । त्रयो भविष्यन्तीति । सौमनस्यदौर्मनस्योपेक्षास्वभाव-
त्रैविध्यात् । एक इति । मनोविज्ञानमात्रसम्प्रयोगात् । षडिति । रूपादिविषय-
षट्कभेदात् । त्रिभिरपि स्थापनेति । यद्वेदनाद्रव्यं मनोविज्ञानमात्रसम्प्रयुक्तमेकम्,
तत् सौमनस्यादिस्वभावत्रयभेदात् त्रिधा भिद्यते, तत् पुनः प्रत्येकं विषयषट्क-
भेदात् षोढा भिद्यते इत्यष्टादश भवन्ति । स्वभावव्यवस्थापनायाम सत्यां
मनोपविचारा इत्येव न स्याद्, अष्टादशव्यतिरिक्ताश्च स्युः । रूपादिविषयषट्का-
लम्बनव्यवस्थापनायाम सत्यां प्रत्येकं सौमनस्यादिषोढाभेदेनाष्टादश मनो-
पविचारा इति न स्यात् ; तस्मात् त्रिभिरपि व्यवस्थापनेति सिद्धम् ।
असम्भिन्नालम्बना इति । असमिश्रालम्बनाः । त्रयो धर्मोपविचारा उभय-
थेति । ये रूपादिविषयपञ्चकरूपव्यतिरिक्तधर्मालम्बनास्ते धर्मोपविचारा असम्भिन्ना-
लम्बनाः । ये तु रूपादीनां षण्णां विषयाणां द्वौ त्रीन् यावत् षडपि विषयाना-
लम्बन्ते ते सम्भिन्नालम्बनाः ।
मनः किलेति । किलशब्दः परमतद्योतकः । मनः किल प्रतीत्याश्रित्य विषया-
नुपविचरन्ति आलम्बन्त इत्यर्थः । उपविचारयन्तीति प्रवर्त्तयन्ति । कथम् ? इत्याह-
वेदनावशेन मनसो विषयेषु पुनः पुनर्विचारणादिति । पुनःपुनरित्युपशब्दस्यार्थः ।
१. ०विचरणात्—का० ।

: निर्देशः ] तृतीयं कोशस्थानम् ४८१
१. कस्मात् कायिकी वेदना न मनोपविचारः । नैव ह्यसौ मन एवाश्रिता,
नाप्युपविचारिका, अविकल्पकत्वादित्ययोगः ?
२. तृतीयध्यानसुखस्य कस्मान्मनोपविचारेष्वग्रहणम् । आदितः किल
कामधातौ मनोभूमिकसुखेन्द्रियाभावात् तत्प्रतिद्वन्द्वेन दुःखोपविचाराभावाच्चेति ?
३. यदि मनोभूमिका एवैते, यत्तर्हि सूत्र उक्तम्—"चक्षुषा रूपाणि
दृष्ट्वा सौमनस्यस्थानीयानि रूपाण्युपविचरन्तीत्येवमादिः, कथम् ?
पञ्चविज्ञानकायाभिनिर्हृतत्वमभिसन्धायैतदुक्तम्—"मनोभूमिकास्त्वेते १ ।
तद्यथा—अशुभा चक्षुर्विज्ञानाभिनिर्हृता च मनोभूमिका च" इति । अपि तु
“दृष्ट्वा यावत् स्पृष्ट्वा" इति वचनात् अचोद्यमेतत् । योऽप्यदृष्ट्वा २ यावदस्पृष्टोप-
विचरति ३ तेऽपि मनोपविचाराः । इतरथा हि कामधातौ रूपधात्वालम्बना
नाप्युपविचारिकेति । असन्तीरिकेत्यर्थः । अयोग इत्यसम्भवः ।
यदि मन एवाश्रिता वेदना मनोपविचारः, तृतीये ध्याने यत् सुखं तन्मन
एवाश्रितम्, न चक्षुरिन्द्रियाद्याश्रितमिति तस्य कस्मान्मनोपविचारेष्वग्रहणम् ।
आदितः किलेति विस्तरः । आदावादितः । किलेति परमते । कामधातौ मनो-
भूमिकं सुखं नास्ति, तस्मान्न तन्मनोपविचारः । अतः पश्चादपि तृतीये ध्याने
सुखेन्द्रियस्य मनआश्रितत्वेऽपि मनोपविचारेष्वग्रहणम् । यथा चास्योपविचार-
प्रतिद्वन्द्वेन दौर्मनस्योपविचारः, नैवं सुखोपविचारस्य प्रतिद्वन्द्वेन दुःखोपविचारो-
ऽस्ति; मनोविज्ञानाश्रित्वाद् दुःखस्य । अतः सर्वत्र तत् सुखं न मनोपविचार इति ।
सौमनस्यस्थानीयानीति । सौमनस्यजनकानि । पञ्चेति विस्तरः। पञ्चभिर्विज्ञान-
कायैरभिनिर्हृतत्वमुत्पादितत्वमभिसन्धाय चेतसिकृत्वा एतदुक्तं चक्षुषा रूपाणीति
विस्तरेण । मनोभूमिकास्त्वेते, तद् यथा—अशुभा चक्षुर्विज्ञानाभिनिर्हृता च,
विलीनकादिदर्शनात् । मनोभूमिका च । समाहितत्वात् । अपि त्विति । चक्षुषा
रूपाणि दृष्ट्वा यावत् कायेन स्प्रष्टव्यानि स्पृष्ट्वेति वचनादचोद्यमेतत् । यदि
चक्षुषा रूपाणि पश्यन् सौमनस्यस्थानीयानि रूपाण्युपविचरतीत्युक्तं स्यात्,
यावत् कायेन स्प्रष्टव्यानि स्पृशन्निति स्याच्चोद्यम् । न त्वेवमुक्तमित्यचोद्यमेवे-
तत् । योऽप्यदृष्ट्वेति विस्तरः । योऽपि श्रुत्वा परतो मनसोपविचरत्यालम्बते,
तेऽपि तस्य मनोपविचाराः । इतरथा हीति विस्तरः । रूपधात्वालम्बना रूपाद्युप-
१. ०का होते—का० । २. येऽप्य०—का० ।
३. ०विचरन्ति—का० ।

४८२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
रूपाद्युपविचारा न स्युः, कामधात्वालम्बनाश्च रूपधातौ गन्धरसस्प्रष्टव्योपविचाराः ।
यथा तु व्यक्ततरं तथोक्तम्—योऽपि रूपाणि दृष्ट्वा शब्दानुपविचरति सोऽपि
मनोपविचारः । यथा त्वनाकुलं तथोक्तमिन्द्रियार्थव्यवच्छेदतः¹ ।
किमस्ति रूपं यत् सौमनस्यस्थानीयमेव स्यात् यावदुपेक्षास्थानीयमेव ?
अस्ति सन्तानं नियम्य², न त्वालम्बनम् ॥ ३२ ॥
अथैषां मनोपविचाराणां कति कामप्रतिसंयुक्ताः, तेषां च कति किमा-
लम्बनाः, एवं यावदारूप्यप्रतिसंयुक्ताः वक्तव्याः ? आह—
कामे स्वालम्बनाः सर्वे
कामधातौ सर्वेऽष्टादश सन्ति, स एव³ च तेषां सर्वेषामालम्बनम् ।
तेषामेव—
विचारा न स्युः । कामधातूपपन्नेन रूपावचराणां रूपादीनामप्रत्यक्षीकृतत्वात् ।
कामधात्वालम्बनाश्च गन्धरसस्प्रष्टव्योपविचारा रूपधातूपपन्नस्य न स्युः; तस्य
गन्धादीनामविषयत्वात् । यथा तु व्यक्ततरं तथोक्तमिति । प्रत्यक्षीकृतरूपाद्या-
लम्बनानां मनोपविचाराणां व्यक्ततरत्वात् । योऽपि रूपाणि दृष्ट्वा तत्सहचरान्
शब्दानुपविचरति सोऽपि तस्य मनोपविचारः । यथा त्वनाकुलं तथोक्तम् । कथं
चानाकुलम् ? इत्याह—इन्द्रियार्थव्यवच्छेदत इति । चक्षुरादीन्द्रियव्यवच्छेदेन,
रूपाद्यर्थव्यवच्छेदेन चोक्तमिति ; अन्यथा ह्याकुलं स्यात्—चक्षुषा रूपाणि
दृष्ट्वा सौमनस्यस्थानीयाञ्छब्दानुपविचरतीत्येवमादि ।
अस्ति सन्तानं नियम्येति कस्यचित् सत्त्वस्य सन्तानमवेक्ष्य । यदस्य किञ्चित्
सौमनस्यस्थानीयमेव, यावदुपेक्षास्थानीयमेव । न त्वालम्बनम् । किम् ? नियम्य,
किम् कारणम् ? तदेव ह्यालम्बनं कस्यचित् सौमनस्यस्थानीयम्, कस्य-
चिन्नेति ॥ ३२ ॥
एवं यावदारूप्यप्रतिसंयुक्ता इति । कति रूपप्रतिसंयुक्तास्तेषां च कति
रूपालम्बनाः, कत्यारूप्यप्रतिसंयुक्तास्तेषां च कति किमालम्बना इति ।
“कामे स्वालम्बनाः सर्वे” इति । कामे कामावचरा मनोपविचाराः । सर्वे
अष्टादश सन्ति । स एव च कामधातुस्तेषां सर्वेषामालम्बनम् । स्वधातुरालम्बन-
मेषामिति स्वालम्बना इति कारिकापदविग्रहः ।
१. ०र्थस्य व्यव०—का० । २. नियमय्य—का० ।
३. का० पुस्तके नास्ति ।

निर्देश: ] तृतीयं कोशस्थानम् ४८३
रूपी¹ धातुर्द्वादशानामालम्बनम्²,
तयोरभावात् ।
त्रयाणामुत्तरः,
गोचर इति वर्तते । आरूप्यधातुस्त्रयाणां धर्मोपविचारणाम् गोचरः,
तत्र रूपाद्यभावात् ॥
उक्ताः कामप्रतिसंयुक्ताः ॥
रूपप्रतिसंयुक्ता वक्तव्याः ? तत्र तावत्
ध्यानद्वये द्वादश,
दौर्मनस्योपविचारणाणस्य । ते च द्वादश
कामगाः ॥ ३३ ॥
कामान् गच्छन्तीति कामगाः । कामधातुमालम्बन्त इत्यर्थः । दृष्टो हि
विषयाणां ग्रहणार्थे गमिप्रयोगः—‘कथमेतद् गम्यते ? एवमेतद् गम्यते’ इति ॥ ३३॥
स्वोऽष्टालम्बनम्,
स एव रूपधातुस्तेषां स्वः । स्वोऽष्टानां मनोपविचाराणाम् आलम्बनम्,
गन्धरसोपविचारांश्चतुरो हित्वा ।
"रूपी द्वादशगोचरः" इति । रूपी धातुः कामावचराणां द्वादशानां मनोप-
विचाराणां गोचरः । षड्गन्धरसोपविचारानपास्येति । द्वौ गन्धरसालम्बनौ
सौमनस्योपविचारौ हित्वा, द्वौ गन्धरसालम्बनौ दौर्मनस्योपविचारौ हित्वा, द्वौ
तदालम्बनावेव चोपेक्षोपविचारौ हित्वा, द्वौ तदालम्बनावेव चोपेक्षोपविचारौ
हित्वेति । कस्मात् ? तत्र रूपधातौ तयोर्गन्धरसयोरभावात् । "विना गन्ध-
रसघ्राणजिह्वाविज्ञानधातुभिः" ( अभि० को० १.३० ) इति वचनात् ।
“त्रयाणामुत्तरः” इति । त्रयाणां सौमनस्यदौर्मनस्योपेक्षाधर्मोपविचाराणां
कामावचराणामुत्तरो धातुरारूप्यधातुरालम्बनम्, तत्र रूपाद्यभावात् ।
"ध्यानद्वये द्वादश" इति । दौर्मनस्योपविचाराणां षण्णामभावात् ॥ ३३ ॥
“स्वोऽष्टालम्बनम्” इति । अष्टानामालम्बनमष्टालम्बनम् । गन्धरसोप-
विचारांश्चतुरो हित्वेति । सौमनस्योपेक्षोपविचारौ गन्धालम्बनौ द्वौ रसालम्बनौ
१-१. रूपधातु०—का० ।

४८४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कोश-
आरूप्या¹ द्वयोः,
धर्मोपविचारयोरालम्बनम् ।
ध्यानद्वये तु षट् ;
तृतीयचतुर्थयोर्ध्यानयोः षडुपेक्षोपविचारा एव सन्ति, नान्ये ।
तेषां पुनरालम्बनम्—
कामाः षण्णां,
कामधातुः षण्णामप्यालम्बनम् ।
चतुर्णां स्वः,
रूपधातुश्चतुर्णाम् ; तत्र गन्धरसाभावात् ।
एकस्यालम्बनं परः ॥ ३४ ॥
आरूप्यधातुरेकस्यैव धर्मोपविचारस्यालम्बनम् ॥ ३४ ॥
उक्ता रूपप्रतिसंयुक्ताः ॥
आरूप्यप्रतिसंयुक्ता इदानीमुच्यन्ते—
चत्वारोऽरूपिसामन्ते,
आकाशानन्त्यायतनसामन्तकमारूपिसामन्तकम् । तत्र चत्वारो रूप-
शब्द-स्प्रष्टव्य-धर्मोपविचाराः । ते च—
रूपगाः,
चतुर्थं हि ध्यानमेषामालम्बनम् । येषां तद् व्यवच्छिन्नालम्बनमस्ति, येषां
च द्वौ हित्वेत्यर्थः, तत्र तयोरभावात् ।
“आरूप्यं द्वयोः” इति । सौमनस्योपेक्षाधर्मोपविचारयोः । प्रथमद्वितीय-
ध्यानभूमिकयोरारूप्यधातुरालम्बनम्; रूपाद्याभावात् । षडुपेक्षोपविचारा एव
सन्ति, नान्य इति । रूपशब्दगन्धरसस्प्रष्टव्यधर्मालम्बना उपेक्षोपविचारा एव
सन्ति; सौमनस्योपविचाराणामपि तृतीये चतुर्थे चाभावात् । गन्धरसा-
लम्बनौ तु तत्र कामावचरगन्धरसालम्बनावित्यवगन्तव्यम् ॥ ३४ ॥
तत्र चत्वार इति । आकाशानन्त्यायतनसामन्तकानन्तर्यमार्गस्य चतुर्थ-
ध्यानालम्बनत्वात् । तत्र च रूपशब्दस्प्रष्टव्यधर्मसद्भावात् ।
येषां तद्व्यवच्छिन्नालम्बनमस्तीति ! येषामाचार्याणां मतेन तदाकाशानन्त्या-
१. आरूप्यो—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ४८५
पुनः परिपिण्डितालम्बनम्, तेषां तत्रैक एव सम्मिश्रालम्बनो¹ धर्मोपविचारः ।
एक ऊर्ध्वगः ।
एक एव धर्मोपविचारस्तत्रारूप्यधात्वालम्बनः ।
एको मौले,
मौले पुनरारूप्ये धर्मोपविचार एवैकोऽस्ति, नान्यः । स चापि—
स्वविषयः,
आरूप्यधात्वालम्बन एव । नहि मौलानामारूप्याणामधरो धातुरालम्बनमिति
पश्चात् प्रतिवेदयिष्यामि² ।
एते च मनोपविचाराः—
सर्वेऽष्टादश सास्रवाः ॥ ३५ ॥
नास्ति कश्चिदनास्रवः ।
कः कतिभिः समन्वगतः ? कामधातूपपन्नो रूपावचरस्य कुशलस्य
चित्तस्यालाभी कामावचरैः सर्वैः प्रथमद्वितीयध्यानभूमिकैरष्टाभिः तृतीयचतुर्थ-
ध्यानभूमिकैश्चतुर्भिः क्लिष्टैर्गन्धरसालम्बनान् पर्युदस्य आरूप्यावचरेणैकेन क्लिष्टे-
यतनसामन्तकं व्यवच्छिन्नालम्बनम्, पृथक् पृथग्रूपाद्यालम्बनमसमस्तालम्बन-
मित्यर्थः । औदारिकादिभिराकारैस्तच्चतुर्थध्यानमालम्बत इत्येकेषामाचार्याणां
मतम् । येषामाचार्याणां मतेन परिपिण्डितालम्बनमेव तदाकाशानन्त्यायतन-
सामन्तकं चतुर्थध्यानभूमिकस्कन्धपञ्चकालम्बनमिति मतम्, तेषामाचार्याणां
तत्रैक एव सम्मिश्रालम्बनो धर्मोपविचार इति ।
“एक ऊर्ध्वगः” इति । केषां पक्षे ? येषाम् “चत्वारोऽरूपिसामन्ते” इति
पक्षः । न हि मौलानामिति विस्तरः । मौलानामारूप्याणामधरो धातुर्नालम्बनमधर-
भूमिकं सास्रवं वस्तु नालम्बनमित्यर्थः । पश्चात् प्रवेदयिष्यामीति । “न मौलाः
कुशलारूप्याः सास्रवाधरगोचराः” ( अभि० को० ८. २१ ) इति ।
प्रथमेति विस्तरः । प्रथमद्वितीयध्यानभूमिकैरष्टाभिः समन्वगतस्तृतीयचतुर्थ-
ध्यानभूमिकैश्चतुर्भिः । कतमैः ? इत्याह—क्लिष्टैः, गन्धरसालम्बनान् पर्युदस्य । तत्र
गन्धरसाभावात् । कथम् ? प्रथमद्वितीयोर्ध्यानयोर्द्वादशोपविचाराः सन्तीत्युक्तम् ।
सौमनस्योपेक्षोपविचाराणां षड्विषयालम्बनव्यवस्थापनात् । तत्र स्वभूम्या-
१. संमिश्रा०—का० । २. प्रतिवेदयिष्यामः—का० ।

४८६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-

नैवालाभी रूपावचरस्य कुशलस्य चित्तस्यावीतरागः सर्वैः कामावचरैः प्रथम-
ध्यानभूमिकैर्दशभिः । चतुर्भिः सौमनस्योपविचारैः क्लिष्टैर्गन्धरसालम्बनावपास्य १
षड्भिरुपेक्षोपविचारैरनागम्यभूमिकैः । द्वितीयतृतीयचतुर्थध्यानानारूप्यजैः २ पूर्ववत् ।
अनया वर्तन्या शेषमनुगन्तव्यम् ।
लम्बना रूपशब्दस्प्रष्टव्यधर्मालम्बनाः सौमनस्योपविचाराश्चत्वारः क्लिष्टाः । ये
चोपेक्षोपविचाराः क्लिष्टा एव चत्वारः । तैः कामधातूपपन्नो रूपावचरकुशला-
लाभी समन्वगतः । अधरभूम्युपपन्नो ह्युर्ध्वभूमिकैः क्लिष्टैः समन्वगतो
भवति । न तु विशिष्ठैश्चतुर्भिर्गन्धरसालम्बनैः; तेषामक्लिष्टत्वात् । रूपावचर-
कुशलालाभित्वाच्च । नास्त्यक्लिष्टरूपावचर धर्मलाभ इति न तैः समन्वगतः ।
तृतीयचतुर्थध्यानभूमिका अपि षडेवोपेक्षोपविचारा उक्ताः । तेषां ये स्वभूम्या-
लम्बनाः क्लिष्टाः, तैः समन्वगतस्तथा, यौ तु गन्धरसालम्बनौ न तौ क्लिष्टौ ।
अतः पूर्वोक्तेनैव न्यायेन न ताभ्यां समन्वगतः । क्लिष्टेनैवेति । नाक्लिष्टेन;
कुशलस्याभावात् । लाभी रूपावचरस्येति विस्तरः । कामधातूपपन्न एव लाभी
रूपावचरस्य कुशलस्य चित्तस्यानागम्यसंगृहीतस्यावीतरागः कामधातोः सर्वैः
कामावचरैरष्टादशभिरपि समन्वगतः । प्रथमध्यानभूमिकैर्दशभिरिति । कथं
दशभिः ? इत्याह—सौमनस्योपविचारैः क्लिष्टैर्गन्धरसालम्बनावपास्येति । सौमन-
स्योपविचाराः सामन्तकेषु न भवन्ति; सामन्तकानामुपेक्षेन्द्रियसम्प्रयोगाित्वात् ।
अतो मौलसंगृहीतैरेव सौमनस्योपविचारैः क्लिष्टैः स्वभूम्यालम्बनैश्चतुर्भिः
समन्वगतः, न तु गन्धरसालम्बनाभ्याम्; मौलकुशलालाभेनाविक्लिष्टाभावात् ।
न हि क्लिष्टं ध्यानमधरलम्बनमस्ति । षड्भिरुपेक्षोपविचारैरनागम्यभूमिकैरिति ।
अत्राविशेषाभिधानादुपेक्षोपविचारैः क्लिष्टैरपि चतुर्भिः समन्वगतः सामन्तक-
संगृहीतैः, षड्भिश्चोपेक्षोपविचारैः कुशलैः कामधात्वालम्बनैः स्वभूम्यालम्बनै-
रपि । द्वितीयतृतीयचतुर्थध्यानानारूप्यजैः पूर्ववदिति । कथम् ? स एव धातूपपन्नो
लाभी रूपावचरस्य कुशलस्य चित्तस्यावीतरागो द्वितीयध्यानभूमिकैरष्टा-
भिरेवालाभी गन्धरसालम्बनानपास्य । तृतीयचतुर्थध्यानभूमिकैश्चतुर्भिः
क्लिष्टैरेव गन्धरसालम्बनौ पर्युदस्यारूप्यावचरेणैकेन क्लिष्टेनैव ।
अनया वर्तन्या मार्गेण शेषमनुगन्तव्यम् । कथम् ? प्रथमध्यानोपपन्नो द्वितीय-
ध्यानभूमिकस्य कुशलस्य चित्तस्यालाभी प्रथमध्यानभूमिकैः सर्वै समन्वगतः ।
द्वितीयध्यानभूमिकैः क्लिष्टैरष्टाभिस्तृतीयचतुर्थध्यानानारूप्यजैः पूर्ववत् । लाभी


१. लम्बनौ व्युदस्य—का० ।
२. द्वितीयध्यानभूमिकैरष्टाभिः । तृतीयचतुर्थध्यानानारूप्यभूमिकैः—का० ।