अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 499, कुल 1258 में से
संदर्भ में पढ़ेंअकुशलमहाभूमिकास्तु पाठप्रसङ्गेनासंहिताः १ इदानीम् । पूर्वं न
पठ्यन्ते स्म ।
यदि तर्हि स्पर्शादुत्तरकालं वेदना, सूत्रं परिहार्यम्—"चक्षुः प्रतीत्य
रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां सन्निपातः स्पर्शः सहजाता वेदना संज्ञा
चेतना" ( ) इति ।
सहजाता इत्युच्यन्ते, न स्पर्शसहजाता इति किमत्र परिहार्यम् ! सम-
नन्तरेऽपि चायं सहशब्दो दृष्टः, तद्यथा—"मैत्रीसहगतं स्मृतिसम्बोध्याङ्गं भाव-
यति" ( ) इत्यज्ञापकमेतत् ।
यत्तर्हि सूत्र उक्तम्—"या च वेदना या च संज्ञा या च चेतना यच्च
विज्ञानं संसृष्टा इमे धर्मा नासंसृष्टाः" इत्यतो नास्ति वेदनाभिरसंसृष्टं विज्ञानम् ?
सम्प्रधार्य तावदेतत्—एक एष संसृष्टार्थः ? तत्र हि सूत्र एवमुक्तम्—
"यद्वेदयते तच्चेतयते, यच्चेतयते तत्सम्प्रजानीते, यत्सम्प्रजानीते तद्विजानाति"
उपपरीक्ष्ये वस्तुनि चित्तस्यैकाग्रता । प्रज्ञा कतमा ? तत्रैव प्रविचयः, योगा-
योगविहितोऽन्यथा च"—इत्येवमादिः पञ्चस्कन्धकग्रन्थो द्रष्टव्यः । तत्र ह्युक्तम्—
"पञ्च सर्वत्रगा वेदनासंज्ञास्पर्शमनस्कारचेतनाः । पञ्च प्रतिनियतविषयाश्छन्दा-
धिमोक्षस्मृतिसमाधिप्रज्ञाः २" इत्येवमादि । अकुशलमहाभूमिकास्तु पाठप्रसङ्गेना-
संहिता इति । सूत्रादिषु पाठात् । कुशलमकुशलमव्याकृतमित्येवं पाठप्रसङ्गेना-
संहिताः, अध्यारोपिताः पश्चादित्यर्थः । पूर्वं न पठ्यन्ते स्म । प्रकरणपादे महा-
भूमिकाः, कुशलमहाभूमिकाः, क्लेशमहाभूमिकाः, परीत्तक्लेशमहाभूमिका-
श्चेति चतुर्विधाः पठ्यन्ते ।
सहजाता इत्युच्यन्ते, न स्पर्शसहजाता इति । अविशेषत्वादेते वेदनादयः
परस्परसहजाताः । न तु स्पर्शनेत्यर्थपरिग्रहेण परिहर्तव्यं सूत्रमित्यर्थः । मैत्री-
सहगतमिति । अयं सहशब्दो नावश्यं युगपद्भावे, समनन्तरेऽपि दृष्टः । न हि
मैत्र्याः स्मृतिसम्बोध्याङ्गस्य च समवधानमस्ति; मैत्र्या एकान्तसास्रवत्वात् ।
स्मृतिसम्बोध्याङ्गस्य चैकान्तानास्रवत्वात् । तस्मादज्ञापकमेतत् ।
संसृष्टा इति । सहोत्पन्ना इत्यभिप्रायः ।
तत्र हि सूत्र इति । यत्रैवोक्तम् । या वेदना या चेतना या च संज्ञेति
१. ०नासङ्गिताः—का० । २. ०विषयाया०—मुद्रितः पाठः ।