अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 488, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] तृतीयं कोशस्थानम् ४६७
यत एषा नान्यः क्लेशः शक्यते वक्तुम् ।
ननु चान्यो मान एव स्यात् । अत्र तु¹ पुनर्विचार्यमाणे बहु वक्तव्यं
जायते । तस्मात् तिष्ठत्वेतत् ॥ २९ ॥
अथ नामरूपमिति कोऽर्थः ? रूपं विस्तरेणोक्तम्² ।
नाम त्वरूपिणः स्कन्धाः,
किं कारणम् ? नामेन्द्रियार्थवशेनार्थेषु नमतीति नाम ।
कतमस्य नाम्नो वशेन ? यदिदं लोके प्रतीतं तेषां तेषामर्थानां प्रत्याय-
कम्—गौः, अश्वः, रूपम्, रस इत्येवमादि ।
स्वाभिप्रायं विवृणोति—यत एषा नान्यः क्लेशः शक्यते वक्तुमिति । कस्मान्न
शक्यते ? तृष्णादृष्टास्मिमानानां पृथगुक्तेः ।
आचार्य आह—ननु चान्यो मान एव स्यादिति । अस्मिमानादन्यः षण्ण-
मन्यतमः । स च मयता, नाविद्येत्यभिप्रायः । अत्र तु पुनर्विचार्यमाणे बहु वक्तव्यं
जायत इति । अत्र पुनर्विचार्यमाणेऽविद्याङ्गे बहुरयं ग्रन्थो जायते, यथोक्तमिति ।
तस्मात्तिष्ठत्वेतत् । एतावदेवास्त्विति । अथवा—अन्यो मान एव स्यात्, न
पुनर्विद्येति, कुत एतदित्येवमादिके पुनर्विचारे क्रियमाणे उत्तरप्रत्युत्तरवचनेन
बहु वक्तव्यं जायते । तस्मात्तिष्ठत्वेतदलं विचारान्तरेणेत्यर्थः ॥ २९ ॥
अथ नामरूपमिति । अविद्याङ्गनिर्देशानन्तरं संस्काराङ्गं निर्देश्यम् । तदनु-
विज्ञानाङ्गम्, किमित्येतदतिक्रम्योपन्यस्यते ? एतदर्थमत्र वक्ष्यत्याचार्यः—"उक्तं
च वक्ष्यते चान्यत्" ( अभि० ३.३६ ) इति ।
रूपं विस्तरेणोक्तमिति । "रूपं पञ्चेन्द्रियाण्यर्याः पञ्चाविज्ञप्तिरेव च"
( अभि० को० १.९ ) इत्यत्र । नामेन्द्रियार्थवशेनेति विस्तरः । नामवशेन
इन्द्रियवशेन अर्थवशेन चार्थेषु रूपादिषु नमतीति नाम । कतमस्य नाम्नो वशे-
नेति । नामद्वैविध्यात् पृच्छति । आचार्यस्तदाचष्टे—यदिदं लोके प्रतीतमिति
विस्तरः । गौरश्व इति, समुदायप्रत्यायकम् । रूपं रस इति, एकार्थप्रत्यायकम् ।
तदेतद् वेदनादिस्कन्धचतुष्कं नामशब्देनोच्यते । यस्मात्तन्नामवशेन संज्ञाकरण-
वशेनार्थेष्वप्रत्यक्षेषु प्रत्यक्षेष्वपि वा नमति प्रवर्त्तते—अस्य नाम्नोऽयमर्थ इति ।
इन्द्रियार्थवशेन तु प्रत्यक्षेषु रूपादिषु नमति, उत्पद्यत इत्यर्थः । नाम्नि चाप्यर्थ-
१. का० पुस्तके नास्ति ।
२. विस्तरेण यथोक्तम्—का० ।