अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 498, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] तृतीयं कोशस्थानम् ४७ .
सूत्रप्रमाणका वयम् , न शास्त्रप्रमाणकाः ।
उक्तं हि भगवता— ( ) इति ।
न वा एष महाभूमिकार्थः—सर्वत्र चित्ते दश महाभूमिकाः सम्भवन्तीति ।
कस्तर्हि महाभूमिकार्थः ?
तिस्रो भूमयः—सवितर्का सविचारा भूमिः, अवितर्का विचारमात्रा, अवि-
तर्काऽविचारा भूमिः । पुनस्तिस्रः—कुशला भूमिः, अकुशला, अव्याकृता भूमिः ।
पुनस्तिस्रः—शैक्षी भूमिः, अशैक्षी, नैवशैक्षीनाशैक्षी भूमिः । तद्य एतस्यां
सर्वस्यां भूमौ भवन्ति ते महाभूमिकाः, ये कुशलायामेव भूमौ ते कुशलमहा-
भूमिकाः, ये क्लिष्टायामेव ते क्लेशमहाभूमिकाः ।
ते पुनर्यथासम्भवं पर्यायेण, न तु सर्वे युगपदित्यपरे ।
तिस्रो भूमय इति । सवितर्का सविचारा कामधातुः प्रथमं च ध्यानम् ।
अवितर्का विचारमात्रा ध्यानान्तरम् । अवितर्का अविचारा द्वितीयाद्ध्यानात्
प्रभृति यावद्भवाग्रम् । कुशला भूमिः कुशला धर्माः । एवमकुशला अव्याकृताः ।
शैक्षी भूमिः शैक्षस्यानास्रवा धर्माः । अशैक्षी अशैक्षस्यानास्रवा धर्माः । नैव-
शैक्षीनाशैक्षी भूमिः सास्रवा धर्माः । असंस्कृता इह नोच्यन्ते, चेत्तसम्बन्धात् ।
तद्य एतस्यामिति विस्तरः । तदिति वाक्योपन्यासे । य इति ये चैतसिकाः ।
एतस्यां सर्वस्यां भूमाविति । सवितर्कसविचारायां भूमौ, यावन्नैवशैक्षीनाशैक्ष्यां
भूमौ । ते महाभूमिकाः। वेदनाचेतनादयो यथोक्ताः । ये कुशलायामेव भूमौ ते
कुशलमहाभूमिकाः । श्रद्धादयः । ये क्लिष्टायामेव ते क्लेशमहाभूमिकाः । अविद्यादयो
यथोक्ता एव ।
ते पुनर्यथासम्भवमिति विस्तरः । ते पुनर्महाभूमिकादयो ये यस्यां सम्भवन्ति
ते तस्यां पर्यायेण । न तु सर्वे युगपदित्यपरे । तद्यथा वेदना सर्वासु भूमिषु
भवन्त्यपि न युगपत् संज्ञाचेतनास्पर्शमनस्कारादिभिर्भवति, तथा स्पर्शो
वेदनादिभिः । यथा कुशलायां वितर्कादय इत्येवमादिकम् ।
अपरे पुनरेवं व्याचक्षते—यथा पञ्चस्कन्धके लिखितं तथेदं ग्रहीतव्यमिति ।
तद्यथा--“छन्दः कतमः, अभिप्रेतवस्तुन्यभिलाषः, अनभिप्रेते नास्ति छन्द
इत्यभिप्रायः । अधिमोक्षः कतमः ? निश्चिते वस्तुनि तथैवावधारणम् । १स्मृतिः
कतमा ? संस्तुते वस्तुन्यसम्प्रमोषश्चेतसोऽभिलपनता । समाधिः कतमः ?
१. का० पुस्तके नास्ति ।