अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
Here is the line-by-line transcription of the Sanskrit text from the image:
निर्देशः ] तृतीयं कोशस्थानम् ४४७
अतिप्रसङ्ग एवं प्राप्नोति, यावद् युक्त्या सम्भवति तावदनुक्तं गम्यत
इति तस्मान्न भव्ययं परिहारः ?
अचोद्यमेव त्वेतद् । अविद्याजरामरणयोः परेणाङ्गान्तरानभिधानात् संसार-
स्याद्यन्तवत्त्वप्रसङ्गः । न चापरिपूर्णो निर्देश इति । किं कारणम् ? प्रवृत्तिसम्भू-
देभ्यो विनेयेभ्यः कथं परलोकादिहलोकः, इहलोकाच्च पुनः परलोकः सम्बध्यत
इत्येतावतोऽर्थस्यात्र¹ विवक्षितत्वात् । एतस्य चार्थस्य² पूर्वमेवोक्तत्वात्—
समुत्पादसूत्रे साविद्यस्पर्शप्रत्यया वेदना साविद्यवेदनाप्रत्यया च तृष्णेति गम्यते।
अतो युक्त्या यथोक्तया। स चापि स्पर्शकाले निर्दिष्ट इति विस्तरेणात्र प्रतीत्य
समुत्पादे सिद्धं भवति—अयोनिशोमनस्कारो हेतुरविद्याया इति ।
अत्र चोद्यते—यदि तर्हि निरविद्या वेदना तृष्णायाः प्रत्ययो न भवती-
त्यादिवचनेन स्वगतयैव युक्त्या अयोनिशोमनस्कारो हेतुरविद्यायाः, अविद्या
चायोनिशोमनस्कारस्य हेतुरिति गम्यते; किं सूत्रान्तरापाश्रयेणाविद्यायोनिशो-
मनस्कारयोरन्योन्यहेतुकत्वप्रदर्शन प्रयोजनमिति ? अत्रोच्यते—सत्यमस्त्ये-
तत्; किन्तु युक्तिमात्रमिदं प्रतीत्यसमुत्पादसूत्रे, न कण्ठोक्तिः । अतः सूत्रान्तरे
कण्ठोक्त्येयं युक्तिर्व्यवस्थाप्यत इति तत् सूत्रान्तरोपन्यासप्रयोजनमवगन्तव्यम् ।
अतिप्रसङ्ग एवं प्राप्नोतीति शास्त्रकारः। कथमतिप्रसङ्गः ? इत्याह—“अविद्या-
संस्पर्शजं वेदितम् प्रतीत्योत्पन्ना तृष्णा” इति सूत्रान्तरे निर्दिष्टम् । न च निर-
विद्यवेदितस्यार्हतो वेदना तृष्णायाः प्रत्ययो भवति, न चाविपरीततः स्पर्शः
क्लिष्टायाः वेदनायाः, न च निरविद्यस्यार्हतो विपरीत. स्पर्शः—इत्यनया
युक्त्या एतदप्यङ्गद्वयं स्पर्शवेदनाख्यमिह प्रतीत्यसमुत्पादसूत्रेऽनुच्यमानमप्यन्य-
त्रोपदिष्टत्वादम्यते इत्येतस्याप्यङ्गद्वयस्यावचनं प्राप्तम् । तथा सूत्रान्तर उप-
दिष्टम्—“स पुण्यांश्चेत् संस्कारानभिसंस्करोति पुण्योपगमस्य विज्ञानं भवति ।
एवमपुण्योपगम्, आनिञ्ज्योपगं च । न च निरविद्यसंस्कारस्यार्हतः पुण्योपगं
विज्ञानं यावद्वानिञ्ज्योपगं विज्ञानमिति । एतदपि संस्काराङ्गं युक्त्या सिद्धम्,
न वक्तव्यमत्रेति प्राप्तम् । तथा जातिमन्तरेण जरामरणं न भवतीति युक्त्या
गम्यत इति जात्यङ्गं न वक्तव्यं स्यादित्यादिप्रसङ्गः प्राप्नोति ।
अचोद्यमेव त्वेतदिति विस्तरेणाचार्यः स्वमतमाह—कथं परलोकादिहलोक
इति विस्तरः । तत्राविद्यासंस्काराभ्यामिहलोकः सम्बध्यते । स चेहलोको
विज्ञाननामरूपषडायतनस्पर्शवेदनाङ्गानि । तृष्णोपादानभवैः परलोकः सम्ब-
१. ०तोऽर्थस्यास्य—का० । २. च—का० ।
४४८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
“पूर्वापरान्तमध्येषु सम्मोहविनिवृत्तये” ( अभि० को० ३.२५ ) ।
उक्तं भगवता—“प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामि प्रतीत्य-
समुत्पन्नांश्च धर्मान्” ( ) इति । अथ क एषां विशेषः ? शास्त्रतस्तावन्न
कश्चित् ; उभयं हि सर्वे संस्कृता धर्मा इति ।
कथमिदानीमनुत्पन्ना एवानागताः प्रतीत्यसमुत्पन्ना इत्युच्यन्ते, कथं
तावदकृता एवानागताः संस्कृता उच्यन्ते ? आभिसंस्कारिकया चेतनया चेति-
तत्वात् । अनास्रवाः कथम् ? तेऽपि चेतिताः कुशलया चेतनया प्राप्तिं प्रति ।
निर्वाणेऽपि प्रसङ्गः ? तज्जातीयत्वात्¹ तत्रैवातिदेशः¹ । यथा न च तावद्रूप्यते रूपं
ध्यते । स च परलोको जातिर्जरामरणं च । इत्येतावतोऽर्थस्यात्र प्रतीत्यसमु-
त्पादसूत्रे विनेयेभ्यो विवक्षितत्वात् । एतस्य चार्थस्य पूर्वमेवोक्तत्वात् । 'पूर्वा-
परान्तमध्येषु सम्मोहविनिवृत्तये' ( अभि० को० ३.२५ ) इत्यनेन उक्तत्वात् ।
अचोद्यमेव त्वेतद् विस्तरेण यावत् न चापरिपूर्णो निर्देश इत्यभिसम्बन्धः ।
उभयं हि सर्वे संस्कृता धर्मा इति । त्रैयध्विकाः सर्वे संस्कृता धर्माः प्रतीत्य-
समुत्पादः । अत एव च प्रतीत्यसमुत्पन्ना इति न कश्चिद्विशेषः ।
कथं तावदकृता इति । भाविन्या संज्ञया यथानागताः संस्कृता उच्यन्ते,
तथा प्रतीत्यसमुत्पन्ना इत्यभिप्रायः । आभिसंस्कारिकया चेतनयेति । सर्व-
चेतनानां स्वलक्षणमभिद्योतयन्नाभिसंस्कारिक्येत्याह । सा हि विपाकाभि-
संस्करणादाभिसंस्कारिका, तया चेतितत्वात् प्रणिहितत्वात् । देवो भविष्यामि,
मनुष्यो भविष्यामीत्येवमादि । अतोऽनागता संस्कृताः उच्यन्ते । न तु भाविन्या
संज्ञयेति तमभिप्रायं विहन्ति । अनास्रवाः कथमिति । ये सास्रवा अनागता
त एवं चेतयितुं युज्यन्ते, ये त्वनास्रवा अनागतास्ते कथं चेतयितुं युज्यन्ते ।
चोदक आह—तेऽपि चेतिताः कुशलया चेतनया प्राप्तिं प्रति । अनास्रवा धर्माः
प्राप्येरन्निति । निर्वाणेऽपि प्रसङ्ग इति । निर्वाणमपि संस्कृतत्वं प्रसज्यते ।
प्राप्तिं प्रति चेतितत्वान्निर्वाणं प्राप्येतेति । तदेवमनेनार्थेनानागतानां संस्कृतत्व-
व्यवस्थापने दोष इति विध्यन्तरमुपन्यस्यते । तज्जातीयत्वाद्विति विस्तरः ।
यथा न च तावद्रूप्यते यदनागतं रूपं रूप्यमाणरूपजातीयत्वाद्रूपमित्यतिदेशः ।
तथा प्रतीत्यसमुत्पन्नधर्मजातीयत्वादनागता अपि धर्माः प्रतीत्यसमुत्पन्ना
इत्यतिदेश एषामनागतानां भवतीति ॥ २७ ॥
१-१. ०यत्वात्तत्तत्रै०—का० ।
निर्देशः ] तृतीयं कोशस्थानम् ४४९.
चोच्यते तज्जातीयत्वादित्यदोषः ॥ २७ ॥
सूत्राभिप्रायस्त्वयमुच्यते—
हेतुरत्र समुत्पादः समुत्पन्नं फलं मतम् ।
हेतुभूतमङ्गं प्रतीत्यसमुत्पादः, समुत्पद्यतेऽस्मादिति कृत्वा । फलभूतमङ्गं
प्रतीत्यसमुत्पन्नम् । एवं सर्वाण्यङ्गान्यभयथा सिध्यन्ति; हेतुफलभावात् । न
चैवं सत्यव्यवस्थानं¹ भवति, भिन्नापेक्षत्वात्¹ । यदपेक्ष्य प्रतीत्यसमुत्पादो न
तदेवापेक्ष्य प्रतीत्यसमुत्पन्नम्, हेतुफलवत् पितृपुत्रवच्च ।
स्थविरपूर्णशः किलाह—स्यात् प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पन्ना
धर्मा इति । चतुष्कोटिकः । प्रथमा कोटिरनागता धर्माः । द्वितीयाऽर्हत्श्वरमाः ।
तृतीया तदन्येऽतीतप्रत्युत्पन्ना धर्माः । चतुर्थ्यसंस्कृता धर्मा इति ।
अत्र तु सौत्रान्तिका विज्ञापयन्ति—किं खल्वेता इष्टय उच्यन्ते या
यस्येष्टिः, आहोस्वित् सूत्रार्थः ? सूत्रार्थ इत्याह । यदि सूत्रार्थः ? नैष सूत्रार्थः ।
कथं कृत्वा ? यत्तावदुक्तम्—"आवस्थिक एष प्रतीत्यसमुत्पादो द्वादश पञ्च-
हेतुफलभावादिति । यस्मात्तदेवाङ्गं हेतुस्तदेव फलम् । न चैवं सत्यव्यवस्थानं
भवतीति । पारापारवत् । हेतुफलवदिति । नाव्यवस्थितः प्रतीत्यसमुत्पादः
प्रतीत्यसमुत्पन्नो भिन्नापेक्षत्वात् । हेतुफलवत् पितृपुत्रवद्वा । तत्र हेतुफलम्, तद्
यथा—बीजाङ्कुरादि । यथा यदपेक्ष्य हेतुर्व्यवस्थाप्यते न तदपेक्ष्य फलम्, यदपेक्ष्य
फलं व्यवस्थाप्यते न तदपेक्ष्य हेतुः । किं तर्हि ? फलमपेक्ष्य हेतुर्व्यवस्थाप्यते,
हेतुञ्चापेक्ष्य फलमिति । यथा च यमपेक्ष्य पिता न तमपेक्ष्य पुत्रः, यमपेक्ष्य पुत्रो
न तमपेक्ष्य पिता, किं तर्हि ? तत्पुत्रमपेक्ष्य पितेति, पितरं चापेक्ष्य पुत्र इति ।
न च तदव्यवस्थितम्, तद्वदेतत् ।
किलेत्यसम्भावनायाम् । प्रथमा कोटिरनागता धर्मा इति । अन्यधर्म-
हेतुत्वात् प्रतीत्यसमुत्पादः समुत्पद्यतेऽस्मादिति कृत्वा । न प्रतीत्यसमुत्पन्नाः,
अनुत्पन्नत्वात् । द्वितीयार्हतश्चरमा इति । उत्पन्नत्वात्ततः फलानुत्पत्तेश्च । तृतीया
तदन्य इति । अर्हतश्चरमेभ्योऽन्येऽतीतप्रत्युत्पन्ना धर्माः । चतुर्थ्यसंस्कृता इति ।
तत्फलाभावादनुत्पत्तिमत्त्वाच्च ।
किं खल्वेता इष्टय उच्यन्त इति । आवस्थिकः प्रतीत्यसमुत्पादः स्यात्
१-१. ०वस्था भवन्त्यपेक्षाभेदात्—का० ।
४५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
स्कन्धिका अवस्था द्वादशाङ्गानि” इति । एतदुक्तं भवति । सूत्रेऽन्यथानिर्देशाद्—
“अविद्या कतमा ? यत्तत् पूर्वान्तेऽज्ञानम्” ( ) इति विस्तरेण ।
यच्च नीतार्थं न तत् पुनर्नेयं भवतीति नैष सूत्रार्थः । न वै सर्वं निर्देशतो
नीतार्थं भवति । यथाप्रधानं चापि निर्देशाः क्रियन्ते । तद्यथा हस्तिपदोपमे—
“पृथिवीधातुः कतमः ?” इत्यधिकृत्याह—“केशा रोमाणि” ( )
इति । सन्ति च तत्रान्येऽपि रूपादयः । एवमत्रापि यथाप्रधानं निर्देशः
स्यात् ।
अनुपसंहार एषः । न हि तत्र केशादयः पृथिवीधातुना निर्दिश्यन्ते,
यत एषामपरिपूर्णो निर्देशः स्याद्; अपि तु केशादिभिरेव पृथिवीधातुः१ निर्दिश्यते ।
न च केशादीनभ्यतीत्याप्यस्ति पृथिवीधातुरिति सम्पूर्ण एवास्य निर्देशः ।
एवमिहाप्यविद्यादीनां परिपूर्ण एव निर्देशः, न सावशेषः ।
प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पन्ना इत्येवमाद्याः । पूर्वान्तेऽज्ञानमिति । यस्माद-
विद्यैवोक्ता नान्ये स्कन्धास्तस्मादविद्यैवाङ्गमिति ।
नीतार्थमेतदिति दर्शयति । नीतार्थमिति विभक्तार्थम् । हस्तिपदोपमे सूत्रे ।
सन्ति च तत्रान्येऽपि रूपादय इति । तेषु केशरोमादिषु । न पृथिवीधातुमेवेति ।
एवमत्रापि यथाप्रधानं निर्देशः स्यादिति । एवमत्रापि प्रतीत्यसमुत्पादसूत्रे द्वाद-
शसु पञ्चस्कन्धिकास्ववस्थासु यत्र यस्य प्राधान्यं तत्र तस्य निर्देशः स्यात् ।
अविद्याप्रधानायामविद्येति निर्देशः स्यात्, संस्कारादिप्रधानास्ववस्थासु
संस्कारादीनां निर्देशः स्यात् । सन्ति च तत्रान्येऽपि रूपवेदनादयो धर्मा इति ।
नहि तत्रेति विस्तरः । नहि तत्र सूत्रे केशादयः पृथिवीधातुना निर्दिश्यन्ते-
केशादयः कतमे ? पृथिवीधातुरिति । यत एषां केशादीनामपरिपूर्णो निर्देशः
स्यात् । सन्ति हि तत्रान्येऽपि रूपादय इति । रूपादिस्वभावा अपि केशादयो
न केवलं पृथिवीधातुस्वभावा इति । अपि तु केशादिभिरेव पृथिवीधातुर्नि-
र्दिश्यते—पृथिवीधातुः कतमः ? केशरोमाणीति । न च केशादीनभ्यतीत्या
प्यतिक्रम्याप्यस्ति पृथिवीधातुरध्यात्मिक इति सम्पूर्ण एवास्य पृथिवीधातो
निर्देशः । एवमिहाप्यविद्यादीनाम् । एवमिहापि सूत्रेऽविद्यासंस्कारविज्ञानादीनां
परिपूर्ण एव निर्देशोऽयम्, न सावशेषः ।
१. ०तत्र—का० ।
ननु चाभ्यतीत्यापि केशान्तिश्रुसिङ्घाणिकानिष्पत्तिः¹ पृथिवीधातुः । सोऽपि
निर्दिष्ट एवेति । यद्वा “पुनरन्यदप्यस्मिन् काये खक्खरं खरगतम्” ( )
इति वचनात् भवतु वा तथैवाविद्यावशेषः, यदि शक्यते दर्शयितुम्,
जात्यन्तरस्य त्वविद्यायां किङ्कृतः प्रक्षेपः ? यद्यपि च तास्ववस्थासु पञ्च स्कन्धा
विद्यन्ते, यस्य तु भावाभावयोर्यस्य भावाभावनियमः तदेवाङ्गं व्यवस्थापयितुम् ।
सत्यपि च पञ्चस्कन्धके² संस्कारा न भवन्ति पञ्चस्कन्धहेतुकाः । किं तर्हि ?
अविद्याहेतुका एव । तथा पुण्यापुण्यानेञ्ज्योपगं च विज्ञानं न भवति, तृष्णो-
पादानादयश्चेति³ । यथानिर्देश⁴ एव सूत्रार्थः ।
यदप्युक्तम्—“हेतुरत्र समुत्पादः समुत्पन्नं फलं यावच्चतुष्कोटिकः”
अश्रुसिङ्घाणकादिष्विति । अश्रुसिङ्घाणकादीनि न तत्र सूत्र
इति । एतदप्युत्सूत्रम् ; सूत्रेऽन्यथा निर्देशात् । "प्रतीत्यसमुत्पादः कतमः ?
यदुतास्मिन् सतीदं भवति" इति विस्तरेणोक्त्वा "इति याऽत्र धर्मता धर्मस्थितिता
यावदविपर्यस्तता अयमुच्यते प्रतीत्यसमुत्पादः" इति । धर्मजातिः धर्माणां शैलिः।
अतो येयं धर्मता य एष नियमः । अविद्यायामेव सत्यां संस्कारा भवन्ति,
नान्यथा । एष प्रतीत्यसमुत्पादो न हेतुरेव । यदपि चतुष्कोटिकमुक्तम्, तत्र
यद्यनागताः धर्मा न प्रतीत्यसमुत्पन्नाः, सूत्रं विरुध्यते—"प्रतीत्यसमुत्पन्ना धर्माः
कतमे ? अविद्या, यावज्जातिर्जरामरणम् ।"
अथ वा—तयोरनागताध्वव्यवस्थानं नैष्टव्यमिति त्रिकाण्डव्यवस्था भिद्यते ।
'असंस्कृतः प्रतीत्यसमुत्पादः' इति निकायान्तरीयाः । "उत्पादाद्वा
तथागतानामनुत्पादाद्वा तथा तानां¹ स्थितेवेयं धर्मता" इति वचनात् । तदेतद्-
भिप्रायावशादेवं च न चैवम् ।
कथं तावदेवम्, कथं वा नैवम् ?
भिक्षुसङ्घेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः सम्बहुलेश्च बोधिसत्त्वैरिति ।
आयुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वमेतदवोचत् । शालिस्तम्बमवलोक्य
भिक्षुभ्यः सूत्रमिदमुक्तम्—यो भिक्षवः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति,
यो धर्मं पश्यति स बुद्धं पश्यति, इत्युक्त्वा भगवांस्तूष्णीम्बभूव । तदस्य
भगवता भाषितस्य सूत्रस्य कोऽर्थः ? प्रतीत्यसमुत्पादः कतमः ? धर्मः कतमः ?
बुद्धः कतमः ? कथं च प्रतीत्यसमुत्पादं पश्यन् धर्मं पश्यतीत्यादि ? तत्र
प्रतीत्यसमुत्पादो नाम यदिदमविद्येत्यादि । इदं चाभिसन्धायेदमुक्तं तत्र
सूत्रे—उत्पादाद्वा तथागतानामनुत्पादाद् वा तथागतानां स्थितेवेयं धर्मता धर्म-
स्थितिता धर्मनियामता तथता अवितथता अनन्यतथता भूतता सत्यता
तत्त्वमविपरीतता अविपर्यस्ततेत्येवमादि भगवन्मैत्रेयवचनम्। यद्यनागता न
प्रतीत्यसमुत्पन्ना इति । यदुक्तं प्रथमा कोटिरनागता धर्मा इति, सूत्रं विरुध्यत
इति । जातिर्जरामरणयोः प्रतीत्यसमुत्पन्नत्वं न स्यात् । उक्तं च—अविद्या
यावज्जातिजरामरणमिति ।
अथ वेति विस्तरः । अथ जातिजरामरणाङ्गेऽपि प्रतीत्यसमुत्पन्ने इष्टे ।
तयोरनागताध्वव्यवस्थानं नैष्टव्यमिति कृत्वा त्रिकाण्डव्यवस्था भिद्यते । "पूर्वा-
परान्तयोर्द्वे द्वे मध्येऽष्टौ" ( अभि० को० ३.२० ) इति ।
निकायान्तरीया इति । आर्यमहीशासकाः ।
१. का० पुस्तके नास्ति ।
निर्देशः ] तृतीयं कोशस्थानम् ४५३
यद्ययमभिप्रायः—उत्पादाद्वा तथागतानामनुत्पादाद्वा नित्यमविद्यादीन्
प्रतीत्य संस्कारादीनामनुत्पादः, न कदाचिदप्रतीत्यान्यद्वा प्रतीत्यातो नित्य इति;
एवमेतदिति प्रतिग्राह्यम् । अथायमभिप्रायः—प्रतीत्यसमुत्पादो नाम किञ्चित्
भावान्तरं नित्यमस्तीति; नैतदेवमिति प्रतिषेद्धव्यम् । किं कारणम् ? उत्पादस्य
संस्कृतलक्षणत्वात् । न च नित्यं भावान्तरमनित्यस्य लक्षणं युज्यते । उत्पादश्च
नामोत्पत्तिर्भवतीति कोऽस्याविद्यादिभिरभिसम्बन्धः, यतस्तेषां प्रतीत्यसमुत्पाद
इत्युच्येत । पदार्थश्चासम्बन्धो १ भवतीति नित्यश्च नाम प्रतीत्यसमुत्पादश्चेति ।
अथ प्रतीत्यसमुत्पाद इति कः पदार्थः ? प्रतिः प्राप्यर्थः, एतिः गत्यर्थः ।
उपसर्गवशेन धात्वर्थपरिणामात् प्राप्येति योऽर्थः सोऽर्थः प्रतीत्येति ।
यदि सत्ता
४५४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक- ]
न युक्त एष पदार्थः । किं कारणम् ? एकस्य हि कर्तुर्द्वयोः क्रिययोः
पूर्वकालायां क्रियायां क्त्वाविधिर्भवति । तद्यथा—स्नात्वा भुङ्क्त इति । न चासौ
पूर्वमुत्पादात् कश्चिदस्ति, यः पूर्वं प्रतीत्योत्तरकालमुत्पद्यते । न चाप्यकर्तृकाऽस्ति
क्रियेति । आह चात्र—
“प्रत्येति पूर्वमुत्पादाद् यद्यसत्त्वान्न युज्यते ।
सह चेत् क्त्वा न सिद्धोऽत्र पूर्वकालविधानतः” ॥ इति ?
नैष दोषः । इदं तावदयं प्रष्टव्यः शाब्दिकः—किमवस्थो धर्मः उत्पद्यते
वर्त्तमानः, उताहोऽनागत इति ? किं चातः ? यदि वर्त्तमान उत्पद्यते, कथं
वर्त्तमानो यदि नोत्पन्नः । उत्पन्नस्य वा पुनरुत्पत्तावनवस्थाप्रसङ्गः । अथानागत
उत्पद्यते, कथमसतः कर्तृत्वं सिद्ध्यत्यकर्तृका वा क्रियेति ? अतो यदवस्थ उत्पद्यते
तदवस्थ एव प्रत्येति । किमवस्थश्चोत्पद्यते ? उत्पादाभिमुखोऽनागतः । तदवस्थ
एव प्रत्ययं प्रत्येतीत्युच्यते । अनिष्पन्नं चेदं यदुत शाब्दिकीयं कर्तृक्रिया-
सत्तायाम्” ( ) इति । तेनेति कारणेन । पूर्वकालायां क्रियायां
क्त्वाविधेरिति । “समानकर्तृकयोः पूर्वकाले” ( पा० सू० ३.४.२१ ) इति
वचनात् । न चासौ पूर्वमुत्पादात् कश्चिदस्तीति सौत्रान्तिकमतेन । न चाप्य-
कर्तृकास्ति क्रियेति । कर्तरि सति क्रियाया व्यवस्थापनात् ।
आह चात्रेति । एतद्वैयाकरणचोद्यं श्लोकेनोपनिबध्नात्याचार्यः । यदि पूर्व-
मुत्पादात् प्रत्येति प्राप्नोति । असत्त्वान्न युज्यते । न ह्यविद्यमानः कर्त्ता
स्नानादिक्रियां कुर्वन् दृष्ट इति । सह चेत् । अथ मन्यसे प्रतीत्यक्रियां समुत्पाद-
क्रियां च सहकरोतीत्येवम् । क्त्वा न सिद्धोऽत्र प्रत्ययः । कस्मात् ? पूर्व-
कालविधानतः । पूर्वस्मिन् काले विधानं क्त्वाप्रत्ययस्य; “समानकर्तृकयोः
पूर्वकाले” इति वचनात् । अतः क्त्वाप्रत्ययो न सिद्धो भवेत् ।
पुनरुत्पत्ताविति । उत्पन्नस्य पुनरुत्पत्तौ कल्प्यमानायामनवस्थाप्रसङ्गः ।
द्वितीये तृतीये क्षणे पुनः पुनरुत्पद्यत इत्यनिष्ठाप्रसङ्गः । अथानागत इति विस्तरः ।
अलब्धात्मकोऽनागत इति कथमसतोऽलब्धात्मलाभस्य कर्तृत्वं सिध्यति,
अकर्तृका वा क्रिया कथं सिध्यति; यत एवमतो यदवस्थ उत्पद्यते शाब्दि-
कस्य शब्दविदः, तदवस्थ एव मम प्रत्येति । किमवस्थश्चेति । कावस्थास्येति
किमवस्थः । उत्पादाभिमुखोऽनागत इति । न सर्वोऽनागत उत्पद्यते, किं तर्हि ?
उपपादाभिमुखः । उत्पादेऽभिमुखे उत्पित्सुरित्यर्थः । तदवस्थ एव । उत्पादा-
निर्देशः ] तृतीयं कोशस्थानम् ४५५
व्यवस्थानं भवतीत्येष कर्त्ता, भूतिरित्येषा क्रिया । न चात्र भवितुरर्थात् भूतिमन्यां
क्रियां पश्यामः । तस्मादच्छलं व्यवहारेषु ।
एष तु वाक्यार्थः—'अस्मिन् सत्यस्य भावः, अस्योत्पादादिदमुत्पद्यत इति
योऽर्थः सोऽर्थः प्रतीत्यसमुत्पादः' इति । आह चात्र—
“असन्नुत्पद्यते यद्वत् प्रत्येत्यपि तथाऽथ सन् ।
उत्पन्न उत्पद्यत इत्यनिष्ठाऽसन् पुरापि वा ॥
सहभावेऽपि च क्त्वाऽस्ति दीपं प्राप्य तमो गतम् ।
आस्यं व्यादाय शेते वा², पश्चाच्चेत् किं न संवृते ॥”
भिमुखावस्थ एव प्रत्येतीत्युच्यते । अनिष्टं चेदमिति विस्तरः । शाब्दिकाना-
मिदं शाब्दिकीयम् । कर्तुः क्रियायाश्च व्यवस्थानम् । कस्मात् ? भवितुः,
कर्तुरूपकल्पितादर्थात् क्रियारूपकल्पिताया भूतेरन्यत्वादर्शनात् । त
अन्ये पुनरस्य चोद्यस्य परिहारार्थमन्यथा परिकल्पयन्ति—प्रतिर्वीप्सार्थः,
इतौ साधव इत्याः = अनवस्थाशिनः, उत्पूर्वः पदिः प्रादुर्भावार्थः, तां तां कारण-
सामग्रीं प्रति इत्यानां समवायेनोत्पादः प्रतीत्यसमुत्पाद इति ।
एषा तु कल्पनाऽत्रैव युज्यते । इह कथं भविष्यति—"चक्षुः प्रतीत्य
रूपाणि चोत्पद्यते चक्षुर्विज्ञानम्” ( ) इति ॥
किमर्थं पुनर्भगवान् पर्यायद्वयमाह—“अस्मिन् सतीदं भवति, अस्योत्पा-
विनश्यति । अथ मतम्—समनन्तरमेव तन्न युगपदिति । अतः पुनरिदमुच्यते—
आस्यं व्यादाय शेते वेति । न ह्यसौ पूर्वं मुखं व्याददाति विदारयति पश्चाच्छेते,
किं तर्हि ? यो मुखं व्याददच्छेते स मुखं व्यादाय शेते इत्युच्यते । अथ मतम्—
पूर्वमसौ मुखं व्याददाति पश्चाच्छेते इति ? अत आह—पश्चाच्चेत् किं न संवृते ।
यः कश्चिन्मुखं व्याददानन्तरं च संवृत्य शेते स मुखं व्यादाय शेते इत्युच्येत,
न चोच्यते; तेन ज्ञायते यो मुखं व्याददच्छेते स मुखं व्यादाय शेते इत्युच्यते इति ।
अन्ये पुनरिति । भदन्तश्रीलाभः । प्रतिर्वीप्सार्थ इति । नानावाचिनामधिकर-
णानां सर्वेषां क्रिययाऽन्वयं व्याप्तुमिच्छा वीप्सा, तामयं प्रतिर्द्योतयति । इतौ गतौ
साधव इत्याः, “तत्र साधुः” ( पा० सू० ४.४.६८ ) इति यत्प्रत्ययः, इतौ विनष्टौ
साधवः । अनवस्थायिन इत्यर्थः । समुपसर्गः समवायार्थं द्योतयति । उत्पूर्वः
पदिः प्रादुर्भावार्थः, धात्वर्थपरिणामात् । तां तां सामग्रीं प्रतीति । प्रतेर्वी-
प्सार्थतां दर्शयति । इत्यानां विनश्वराणां समवायेनोत्पादः प्रतीत्यसमुत्पादः ।
न कश्चिद्धर्म एक उत्पद्यते; सहोत्पादनियमात्, रूपादीनाम् । “कामेऽष्टद्रव्य-
कोऽशब्दः परमाणुः” ( अभि० को० २.२३ ) यावत् “चित्तचैत्ताः सहावश्यम्”
( अभि० को० २.२४ ) इति नियमात् ।
एषा तु कल्पनेति विस्तरः । प्रतिर्वीप्सार्थ इत्येवमादिका । कल्पनाऽत्रैव
प्रतीत्यसमुत्पादसूत्रे युज्यते । इह कथं भविष्यति चक्षुः प्रतीत्य रूपाणि चोत्पद्यते
चक्षुर्विज्ञानमिति । न हि प्रतीत्यानां चक्षूंषि प्रतीत्यचक्षूंषीति समासः सम्भ-
वति; अर्थायोगात् । चक्षुर्हि प्रतीत्य प्राप्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानमित्यय-
मर्थो गम्यते । तेन तदवस्थमेव तच्चोद्यं 'न युक्त एष पदार्थः' इति विस्तरेण
यदुक्तम् । कथम् ? एकस्य हि कर्तुर्द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वावि-
धिर्भवति—स्नात्वा भुङ्क्त इति । न च पूर्वमुत्पादाच्चक्षुर्विज्ञानमस्ति यच्चक्षुः
पूर्वं प्रतीत्य रूपाणि चोत्तरकालमुत्पद्यते, न चाप्यकर्तृका क्रियेति ।
अवधारणार्थं पर्यायद्वयमाह । अस्मिन् सतीति । एतावत्युच्यमाने न केवलम-
विद्यायां सत्यां संस्कारा भवन्ति, अन्यस्मिन्नपि सतीति गम्येत, यथा चक्षुषि
दादिदमुत्पद्यते" इति ? अवधारणार्थम् । यथाऽन्यत्राह- "अविद्यायां सत्यां
संस्कारा भवन्ति नान्यत्राविद्यायाः संस्काराः" इति । अङ्गपरम्परां वा दर्श-
यितुम्-अस्मिन्नङ्गे सतीदं भवति, अस्य पुनरङ्गस्योत्पादादिदमुत्पद्यत इति ।
जन्मपरम्परां वा-पूर्वान्ते सति मध्यान्तो भवति, मध्यान्तस्योत्पादादपरान्त
उत्पद्यत इति । साक्षात् पारम्पर्येण च प्रत्ययभावं दर्शयति-कदाचिद्धि
समनन्तरमविद्यायाः संस्कारा भवन्ति, कदाचित् पारम्पर्येणेति ।
अहेतुनित्यहेतुवादप्रतिषेधार्थमित्यपरे । नासति हेतौ भावो भवति, न
चानुत्पत्तिमतो नित्यात् प्रकृतिपुरुषादिकात् किञ्चिदुत्पद्यत इति ।
अस्यां तु कल्पनायां पूर्वपदस्य ग्रहणमनर्थकं प्राप्नोति ; 'अस्योत्पादादिद-
मुत्पद्यते' इत्यनेनैवोभयवादप्रतिषेधसिद्धेः ।
सति चक्षुर्विज्ञानं भवतीति । न चक्षुष्येव सतीत्यवधार्यते । तेन रूपेऽपि
सतीत्यवगम्यते । द्वितीयेन तु पर्यायेणास्योत्पादादिदमुत्पद्यत इत्यनेन पूर्वपर्याय-
मेवावधारयति । अस्यैवोत्पादादिदमुत्पद्यते, नान्यस्मादिति । अङ्गपरम्परां
वा दर्शयतुमिति । अस्मिन्नङ्गे सति । अविद्याङ्गे सति संस्काराङ्गं भवति, अस्य
पुनरङ्गस्य संस्कारास्योत्पादादिदं विज्ञानाङ्गमत्पद्यत इति । एवमितरेषामप्यङ्गानां
परम्परा वक्तव्या । जन्मपरम्परां वा । 'किं दर्शयितुं पर्यायद्वयमाह' इति वर्त्तते ।
साक्षादिति विस्तरः । साक्षात् पारम्पर्येण च सन्तत्याऽविद्यादीनां प्रत्ययभावं
दर्शयितुं पर्यायद्वयमाह । 'अस्मिन् सतीदं भवति' इति साक्षात् प्रत्ययभावं
दर्शयति, 'अस्योत्पादादिदमुत्पद्यते' इति पारम्पर्येण । तत्र साक्षाद् यदा
अविद्यायाः समनन्तरं क्लिष्टाः संस्कारा उत्पद्यन्ते; पारम्पर्येण तु यदा कुशला
उत्पद्यन्ते, कुशलावस्थायामविद्याया अभावात् । किञ्च-अविद्या संस्काराणां
साक्षात् प्रत्ययः, विज्ञानादीनां पारम्पर्येण । तदुक्तं भवति-अविद्याङ्गे सति
संस्काराङ्गं भवति, अस्य संस्काराङ्गस्योत्पादादिदमुत्पद्यते विज्ञानाङ्गं साक्षाद-
विद्याप्रत्ययं पारम्पर्येणेति । एतत् सर्वमाचार्यमतम् ।
प्रतिषेधार्थमित्यपर इति स्थविरवसुवर्मा । नासति हेतौ भावो भवतीत्यहेतु-
वादप्रतिषेधार्थं प्रथमेन पर्यायेण । नित्यहेतुवादप्रतिषेधार्थम्-न चानुत्पत्तिमतो
नित्यात् प्रकृतिपुरुषादिकात् किञ्चिदुत्पद्यत इति द्वितीयेन ।
आचार्य आह-अस्यां तु कल्पनायामिति विस्तरः । पूर्वपदस्य ग्रहणमनर्थक-
मिति । अस्मिन् सतीदं भवतीत्यस्य । उभयवादप्रतिषेधसिद्धेरिति । अस्योत्पादा-
दिदमुत्पद्यत इत्यनेनैव पर्यायेण । हेतोरस्तित्वमुत्पत्तिमत्तश्च हेतुत्वमित्युभयस्या-
४५८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
सन्ति तर्हि केचिद् ये आत्मनि सत्याश्रयभूते संस्कारादीनां भावं परि-
कल्पयन्ति, अविद्यादीनां चोत्पादात्तदुत्पत्तिम् । अतस्तेषां कल्पनां पर्युदासयितुमिदं
निर्धारयाम्बभूव--“यस्यैवोत्पादाद्यदुत्पद्यते तस्मिन्नेव सति तद् भवति, नान्यस्मिन्।
यदुत अविद्याप्रत्ययाः संस्काराः, यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य
समुदयो भवति” ( ) इति ।
अप्रहीणोत्पत्तिज्ञापनार्थमित्याचार्याः । अविद्यायामप्रहीणायां संस्कारा न
प्रहीयन्ते । तस्या एवोत्पादादुत्पद्यन्त इति विस्तरः ।
हेत्वतिरेकप्रसङ्ग वादस्य प्रतिषेधसिद्धितः पूर्वपर्यायस्यानर्थक्यं
प्राप्नोति ।
सन्ति तर्हि केचिदिति विस्तरः। सन्ति केचिद् वादिनः । य आत्मनि सत्या-
श्रयभूते । अविद्याया आश्रयभूते । संस्कारादीनां संस्कारविज्ञाननामरूपादीनां
भावमुत्पादं कल्पयन्ति । अविद्यादीनां चाविद्यासंस्कारादीनामुत्पादात्तदुत्पत्तिम् ।
संस्काराद्युत्पत्तिं कल्पयन्ति इत्यधिकृतम् । अतः कारणात्तेषां वादिनां कल्पनां
पर्युदासयितुं प्रतिषेद्धुमिदं निर्धारयाम्बभूवेति व्याख्याम्बभूव । किम् ? इत्याह-यस्यै-
वोत्पादात् यावत् स्कन्धस्य समुदयो भवतीति । यस्यैवोत्पादाद् यदुत्पद्यते,
तस्मिन्नेव सति तद् भवति, नान्यस्मिन्नात्मनि । यदुताविद्याप्रत्ययाः संस्काराः ।
अविद्यायामेव सत्यां संस्कारा भवन्ति, नान्यस्मिन् । यावदेवमस्य केवलस्य महतः
दुःखस्कन्धस्य समुदयो भवति । कथम् ? जातिप्रत्यया जरामरणशोकपरिदेव-
दुःखदौर्मनस्योपायासाः सम्भवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य
समुदयो भवति । जात्यामेव सत्यां जरामरणादयः सम्भवन्ति, नान्यस्मिन्ना-
त्मनि । अन्यथा हि 'अस्मिन् सतीदं भवति' इत्युच्यमाने वक्तारः स्यु
निर्देशः ] तृतीयं कोशस्थानम् ४५९
स्थित्युत्पत्तिसन्दर्शनार्थमित्यपरे । यावत् कारणस्रोतस्तावत् कार्यस्रोतो
भवति । कारणस्यैव चोत्पादात् कार्यमुत्पद्यत इति । उत्पादे त्वधिकृते कः
प्रसङ्गः स्थितिवचनस्य, भिन्नक्रमं च भगवान् किमर्थमाचक्षीत प्राक् स्थितिं
पश्चादुत्पादम् !
पुनराह — “अस्मिन् सतीदं भवति" इति "कार्ये सति कारणस्य
विनाशो भवति” इति । स्यान्मतम् — अहेतुकं तर्हि कार्यमुत्पद्यत इति ? अत्र आह
नाहेतुकम् ; यस्मादस्योत्पादादिदमुत्पद्यत इति ।
एष चेत् सूत्रार्थोऽभविष्यद् 'अस्मिन् सतीदं न भवति' इत्येवावक्ष्यत् ।
पूर्वं च तावत् कार्यस्योत्पाद।नेवावक्ष्यत, पश्चाद् 'अस्मिन् सतीदं न भवति' इति ।
एवं हि साधुः क्रमो भवति । इतरथा तु 'प्रतीत्यसमुत्पादः कतमः' इत्यादेरर्थे
कः प्रक्रमो विनाशवचनस्य ! तस्मान्नैष सूत्रार्थः ।
स्थित्युत्पत्तिसन्दर्शनार्थमित्यपर इति भदन्तश्रीलाभः। तदर्थं पर्यायद्वयमाहेति ।
यावत् कारणस्रोतस्तावत् कार्यस्रोतो भवतीति प्रथमेन पर्यायेण। कारणस्यैवोत्पादात्
कार्यमुत्पद्यत इति द्वितीयेन । उत्पादे त्वधिकृत इति । प्रतीत्यसमुत्पादं वो
भिक्षवो देशयिष्यामीत्यधिकृते । कः प्रसङ्गः कः प्रस्तावः स्थितिवचनस्य, अस्मिन्
सतीदं भवतीत्यनेन यावत् कारणस्रोतस्तिष्ठति तावत् कार्यस्रोतस्तिष्ठतीति ।
एवमस्य स्थित्यर्थो वर्ण्यते इति । भिन्नक्रमं च भगवान् किमर्थमाचक्षीत ।
उत्पत्तिर्हि प्रथमं भवति, पश्चात् स्थितिः। उत्पत्तिप्रतिबद्धा स्थितिरिति कृत्वा
'अस्योत्पादादिदमुत्पद्यते' इति पूर्वं वक्तव्यं स्यात्, पश्चाद् 'इदमस्मिन् सतीदं
भवति' । न त्वेवम्, अतो नायमर्थ इति ।
` पुनराहेति । स एव भदन्तश्रीलाभः ।
आचार्य प्रत्याह—एष चेद् इति विस्तरः । अस्मिन् सतीदं न भवतीत्येवा-
वक्ष्यदिति । तत्रैवाभावनिर्देशो युक्तरूप इति दर्शयति । पूर्वं च कार्यस्योत्पाद-
मिति । अस्योत्पादादिदमुत्पद्यते इति पूर्वमवक्ष्यत्; उत्पादपूर्वकत्वाद्विनाशस्य ।
सूत्र उक्तम्—जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः
सम्भवन्तीति । जरामरणसंगृहीता एवं ते, नाङ्गान्तरमित्यवगन्तव्यम् । तत्र
सत्त्वासत्त्वसंख्यातस्य विंशस्य परिणामादात्मभावपरिणामाच्चेते भवन्ति ।
दौर्मनस्यसम्प्रयुक्तो वितर्कः शोकः । शोकसमुत्थितः प्रलापः परिदेवः । दुःख-
दौर्मनस्ये व्याख्याते । विच्छिन्नवेगं दौर्मनस्यमुपायासः । शोकपरिदेवपूर्वकः
श्रम उपायास इत्यपरे ।
अभि० को० २ : ६
४६० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
कथं पुनः "अविद्याप्रत्ययाः संस्कारा यावत् जातिप्रत्ययं जरामरणम्"
( ) इति ? अभिसम्बन्धमात्रं दर्शयिष्यामः । बालो हि प्रतीत्य-
समुत्पन्नं संस्कारमात्रमिदमिति अप्रजानन् आत्मदृष्ट्यस्मिमानाभिनिविष्ट आत्मनः
सुखार्थमदुःखार्थं वा कायादिभिस्त्रिविधं कर्मारभते—आयतिसुखार्थं पुण्यम्
सुखादुःखासुखार्थमानिञ्ज्यम्, ऐहिकसुखार्थमपुण्यम् । तस्याविद्याप्रत्ययाः संस्काराः
कर्माक्षेपवशाच्च विज्ञानसन्ततिस्तां तां गतिं गच्छति ; ज्वालागमनयोगेनान्तरा-
भवसम्बन्धात् । तदन्यसंस्कारप्रत्ययं विज्ञानम् । एवं च कृत्वा
तदुपपन्नं भवति विज्ञानाङ्गनिर्देशे—"विज्ञानं कतमत् ? षड्विज्ञानकायाः"
( ) इति ।
बालो हीति विस्तरः । बालः पृथग्जनः । संस्कारमात्रमिति । मात्रग्रहण-
मात्मप्रतिषेधार्थम् । अप्रजानन्निति । आवेणिकीमविद्यां दर्शयति । आत्म-
दृष्ट्यस्मिमानाभिनिविष्टः प्रतिष्ठितः कायादिभिः कायवाङ्मनोभिस्त्रिविधं कर्म
पुण्यापुण्यानिञ्ज्यलक्षणमारभते । आनिञ्ज्यमिति इगिः प्रकृत्यन्तरम्, तस्यैवै-
तरूपम् । एजतेरेतद्रूपमानेज्यमिति वा पाठः । आयतिसुखार्थं पुण्यमिति ।
अनागतजन्मसुखार्थम् । किम् ? कामावचरं कुशलं कर्म । सुखादुःखासुखार्थ-
मानिञ्ज्यमिति । रूपारूप्यावचरं कुशलम् । सुखार्थमा तृतीयाद्ध्यानात्,
तस्मादूर्ध्वमदुःखासुखार्थम् । ऐहिकसुखार्थमिति । इहसुखापेक्षया तत् कृतम्,
नायतिसुखापेक्षयेत्यर्थः । कर्माक्षेपवशाद् यथोक्तं कर्मविधवशात् । तां तां गतिं .
नरकादीनां गच्छति । ज्वालागमनयोगेन । यथा दीर्घा तृणानुषक्ता ज्वाला
गच्छतीत्युच्यते, तथा विज्ञानसन्ततिभिरन्तराभवसम्बन्धादन्तराभवसम्बन्धे-
नातिविप्रकृष्टदेशामपि तां तां गतिं गच्छति । एवञ्च कृत्वेति । यदि संस्कार-
प्रत्ययमन्तराभवप्रतिसन्धिचित्तमुपादाय यावदुपपत्तिक्षणः, सर्वासौ विज्ञान-
सन्ततिः षण्णां विज्ञानकायानां संस्कारप्रत्ययं विज्ञानमभिप्रेतं तदुपपन्नं भवति ।
विज्ञानाङ्गनिर्देशे । विज्ञानाङ्गस्य तृतीयस्य निर्देशे । "विज्ञानं कतमत् ? षड्-
विज्ञानकायाः” इति । अन्यथा हि यदि षण्णां विज्ञानकायानां सन्ततिर्नाभि-
प्रेता स्यात्, संस्कारप्रत्ययं विज्ञानं प्रतिसन्धिश्चित्तमेवाभिप्रेतं स्यात्, अत्र
षड्विज्ञानकाया इति नोक्तं स्यात् । एवं तु वक्तव्यं स्यात्—'विज्ञानं कतमत् ?
मनोविज्ञानम्' इति । न हि प्रतिसन्धिक्षणे प्रतिविज्ञानकायसम्भवोऽस्ति; मनो-
विज्ञानेनैव प्रतिसन्धिवन्धात् । "छेदसन्धानवैराग्यहानिच्युत्युपपत्तयः, मनो-
विज्ञान एवेष्टाः” ( अभि० को० ३.४२ ) इति वचनात् ।
निर्देशः ] तृतीयं कोशस्थानम् ४६१
विज्ञानपूर्वकं पुनस्तस्यां तस्यां गतौ नामरूपं जायते पञ्चस्कन्धकं कृत्स्न-
जन्मानुगतम्; विभङ्गे, महानिदानपर्याये चैवं निर्देशात्—"तथा नामरूप-
परिपाकात् क्रमेण षडायतनम् । ततो विषयसम्प्राप्तौ सत्यां विज्ञानसम्भवः"
( ) इति । त्रयाणां सन्निपातः स्पर्शः सुखादिवेदनीयः । तत-
स्त्रिविधा वेदना । ततस्तृष्णा । दुःखोत्पीडितस्य सुखायां वेदनायां कामतृष्णा ;
सुखायामदुःखासुखायां च रूपतृष्णा । अदुःखासुखायामारूप्यतृष्णा । तत
इष्टवेदनात्तृष्णायाः कामादीनामुत्पादनम् ।
तत्र कामाः पञ्च कामगुणाः । दृष्टयो द्वाषष्टिर्यथा ब्रह्मजालसूत्रे । शीलं
दौःशील्यविरतिः । व्रतं कुक्कुरगोव्रतादीनि । यथा च निर्ग्रन्थादीनां नग्नो
भवत्यचेलक इति विस्तरः । ब्राह्मण-पाशुपत-परिव्राजकादीनां च दण्डाजिन-भस्म-
जटा-त्रिदण्डमौण्ड्यादिसमादानम् ।
आत्मवादः पुनरात्मभावः । आत्मेति वादोऽस्मिन्नित्यात्मवादः । आत्म-
विभङ्ग एवं निर्देशादिति । प्रतीत्यसमुत्पादसूत्रे नामरूपविभङ्ग एवं निर्दे-
शात्—"नाम कतमत् ? चत्वारोऽरूपिणः स्कन्धा इति । रूपं कतमत् ?
यत्किञ्चिद्रूपमिति विस्तरेण । यावद्यच्चेदं रूपं यच्च नाम तदुभयं नामरूप-
मित्युच्यते" इति । कामतृष्णेति । कामावचरी तृष्णा । रूपतृष्णेति । या सुखायां
त्रिषु ध्यानेषु । अदुःखासुखायां चतुर्थे । अदुःखसुखायामारूप्यतृष्णेति । आरूप्या-
वचरी । कामादीनामुपादानमिति । कामदृष्टिशीलव्रतात्मवादानामुपादान-
मित्यर्थः । पञ्च कामगुणा इति । काम्यन्त इति कामाः, गुण्यन्त इति गुणाः,
कामा एव गुणाः कामगुणाः । के पुनस्ते ? रूपशब्दगन्धरसस्प्रष्टव्यानि ।
दृष्टयो द्वाषष्टिर्यथा ब्रह्मजाल इति । ब्रह्मजालसूत्रदर्शनेन ता दृष्टयो बोद्धव्याः ।
कुक्कुरगोव्रतादीनीति । आदिशब्देन मृगव्रतादीनि गृह्यन्ते । निर्ग्रन्थादीनामिति ।
आदिशब्देन पाण्डरभिक्षवादीनां ग्रहणम् । ब्राह्मणेत्यादि । विस्तरः—ब्राह्मणानां
दण्डाजिनम् । पाशुपतानां जटाभस्म । परिव्राजकानां त्रिदण्डमौण्ड्यम् । आदि-
शब्दद्वयेन कापालिकादीनां कपालधारणादीनि गृह्यन्ते । तत्समादानं शीलव्रतो-
पादानम् ।
आत्मेतिवादोऽऽस्मिन्नित्यात्मवादः । यथोक्तम्—"ये केचिच्छ्रमणा ब्राह्मणा
वा आत्मेति समनुपश्यन्तः, समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धान्"
४६२ भाष्यस्फुटार्थासहितंऽभिधर्मकोशे [ लोक-
—यस्मिमानादित्यपरे। कथमनयोरात्मवादत्वम् ? "आभ्यामात्मा" ( )
इति वचनात्। आत्मनो ह्यसत्त्वादात्मवादोपादानमित्युच्यते; प्रज्ञप्तिमात्र-
कस्योपादानात्। यथोक्तम्—"आत्मा अहमेति भिक्षवो बालोऽश्रुतवान् पृथग्जनः
प्रज्ञप्तिमनुपतितः, न त्वत्रात्मा वा आत्मीयं वा" इति। तेषामुपादानं तेषु
यश्छन्दरागः। एवं हि भगवता सर्वत्राख्यातम्—"उपादानं कतमत् ?
योऽत्र च्छन्दरागः" ( ) इति। उपादानप्रत्ययं पुनः पौन-
र्भविकं कर्मोपचीयते। तद् भवः। "यदप्यानन्द कर्माख्यां पुनर्भावाभिनिर्वर्तक-
मिदमत्र भवस्य" ( ) इति सूत्रात्। भवप्रत्ययं पुनर्विज्ञाना-
क्रान्तियोगेन। अनागतं जन्म जातिः पञ्चस्कन्धिका। जातौ सत्यां जरामरणम्।
यथा निर्दिष्टं सूत्रे—"एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो
भवति" ( ) इति। केवलस्येति, आत्मीयरहितस्य। महतो दुःख-
स्कन्धस्येति, अनाद्यन्तस्य दुःखसमूहस्य। समुदयो भवतीति प्रादुर्भावः। स
एव तु वैभाषिकन्यायो यः पूर्वमुक्तः ॥
इति विस्तरः। आत्मदृष्ट्यस्मिमानादित्यपर आत्मवादगाङ्गे। आत्मनो ह्यसत्त्वा-
दात्मवादोपादानमिति। वादशब्दोपन्यासे प्रयोजनं दर्शयति। बालोऽश्रुतवान्
पृथग्जन इति। यस्य पूर्वाभ्यासवासनानिर्जातोपपत्तिलाभिका प्रज्ञा नास्ति स
बालः, यस्यागमजा नास्ति सोऽश्रुतवांन्, यस्याधिगमजा सत्याभिसमयजा
नास्ति स पृथग्जनः। प्रज्ञप्तिमनुगनिन इति। यथा संज्ञा यथा च व्यवहारस्त-
थानुगत इत्यर्थः। तेषामिति। कामादीनाम्। छन्दराग इति। अप्राप्तेषु विषयेषु
प्रार्थना छन्दः, प्राप्तेषु रागः। तेषु कामादिषु यश्छन्दरागस्तदुपादानम्। न तु
"यथोक्ता एव सा विद्या द्विधा दृष्टिविवेचनात्, उपादानानि" (अभि०
५.३८) इत्यभिप्रायः। पौनर्भविकमिति। पुनर्भवफलम्। इदमत्र भवस्येति। इदमत्र
भवस्य स्वलक्षणं स्वभाव इत्यर्थः। विज्ञानावक्रान्तियोगेनेति। ज्वालागमनयोगे-
नान्तराभवसम्बन्धात्। अनागतं जन्म जातिः पञ्चस्कन्धिका नामरूपस्वभावत्वात्।
जरामरणं यथानिर्दिष्टं सूत्र इति। "जरा कतमा ? यत्तत् खालित्यं पालित्यम्"
इति विस्तरः। "मरणं कतमत्, या तेषां तेषां सत्त्वानां तस्मात्तस्माच्च्युतिश्च्य-
वनम्" इति विस्तरः। केवलस्यात्मारहितस्येत्यर्थं दर्शयति। महत इत्यनाद्यन्तस्य।
दुःखस्कन्धस्येति। दुःखसमूहस्य। स एव तु वैभाषिकन्यायो यः पूर्वमुक्त इति।
द्वादश पञ्चस्कन्धिका अवस्था द्वादशाङ्गानीति।
अथाविद्येति कोऽर्थः ? या न विद्या । चक्षुरादिष्वपि प्रसङ्गः ? विद्याया
अभावस्तर्हि । एवं सति न किंचित् स्यात् ? नैतद् युक्तम् । तस्मात्—
विद्याविपक्षो धर्मोऽन्योऽविद्याऽमित्रानृतादिवत् ॥ २८ ॥
यथा मित्रविपर्ययेण तद्विपक्षः तः कश्चिदमित्रो भवति, न तु यः कश्चिदन्यो
मित्रात्, नापि मित्राभावः । ऋतं चोच्यते सत्यम्, तद्विपक्षभूतं वाक्यमनृतं
भवति । अधर्मानर्थाकार्यादयश्च धर्मादिप्रतिद्वन्द्वभूताः । एवमविद्यापि विद्यायाः
प्रतिद्वन्द्वभूतधर्मान्तरमिति द्रष्टव्यम् ॥ २८ ॥
कुत एतत् ? प्रत्ययभावेनोपदेशात् । अपि च—
संयोजनादिवचनात्,
संयोजनं बन्धनमनुशय ओघो योगश्चाविद्योच्यते सूत्रेषु । न चाभाव-
मात्रं तथा भवितुमर्हति । न चापि चक्षुरादयः । तस्माद् धर्मान्तरमेवाविद्या ।
यथा तर्हि कुभार्या अभार्येत्युच्यते, कुपुत्रश्चापुत्रः, एवमविद्याऽप्यस्तु ?
कुप्रज्ञा चेन्न दर्शनात् ।
कुत्सिता हि प्रज्ञा क्लिष्टा । सा च दृष्टिस्वभावा इति नाविद्या युज्यते ।
या न विद्या। चक्षुरादेष्वपि प्रसङ्ग इति । चक्षुःश्रोत्रादीन्यविद्या प्रसज्यन्ते,
तान्यपि हि न विद्येति कृत्वा । न किञ्चित् स्यादिति । यदि विद्याया अभावो-
ऽविद्या, अद्रव्यं स्यादित्यर्थः । न चैतद् युक्तमिति । प्रत्यभावेनोपदेशात् ।
तद्विपक्ष इति । विरोधे नञिति दर्शयति । न तु यः कश्चिदन्यो मित्रादिति ।
न पर्युदासमात्र इति दर्शयति । नापि मित्राभाव इति । नाभावार्थ इति
दर्शयति । अधर्मानर्थाकार्यादयश्चेति । आदिशब्देनायुक्तव्यवहारा मनुष्या-
दयो गृह्यन्ते । धर्मादिप्रतिद्वन्द्वभूता इति । धर्मार्थकार्ययुक्तव्यवहारमनुष्या-
दिप्रतिद्वन्द्वभूताः । न तु ये केचिदन्ये धर्मादिभ्यश्चक्षुरादयः । नापि धर्माद्यभावः ।
एवमविद्यापीति बिस्तरः ॥ २८ ॥
कुत एतत्, प्रत्ययभावेनोपदेशात् । अविद्याप्रत्ययाः संस्कारा इति । न
चाविद्याया अन्येषां चक्षुरादीनां प्रत्ययभावेनोपदेशो युक्तः; अर्हतां संस्कारा-
सम्भवात् । न चाभावस्य; शशविषाणादीनां प्रत्ययत्वात् ।
संयोजनं यावद्योगश्चाविद्योच्यत इति । अविद्यासंयोजनं यावदविद्यायोग
इति सूत्रेषूच्यते । न चाभावमात्रं तथा भवितुमर्हतीति । न संयोजनादि भवितु-
मर्हतीत्यर्थः । न चापि चक्षुरादयः । तथा भवितुमर्हन्तीत्यधिकृतम् । सा च दृष्टि-
स्वभावेति नाविद्या युज्यत इति । दृष्ट्यविद्ययोः संयोजनादित्वेन पृथक् पाठात् ।
४६४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
या तर्हि न दृष्टिः सा भविष्यति ? सापि भवितुं नार्हति । किं कारणम् ?
दृष्टेस्तत्सम्प्रयुक्तत्वात् ,
अविद्या चेत् प्रज्ञाऽभविष्यन्न दृष्टिस्तया युज्येत सम्प्रायोक्ष्यत; द्वयोः
प्रज्ञाद्रव्ययोरसम्प्रयोगात् ।
इतश्च—
प्रज्ञोपक्लेशदेशनात् ॥ २९ ॥
“रागोपक्लिष्टं चित्तं नावमुच्यते, अविद्योपक्लिष्टा प्रज्ञा न विशुध्यति”
( ) इत्युक्तं सूत्रे । न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो
युक्त इति । यथा चित्तस्यान्यो भिन्नजातीय उपक्लेशो रागः, एवं प्रज्ञाया
अविद्या । किं पुनरेवं नेष्यते ?
क्लिष्टया प्रज्ञया कुशला प्रज्ञा व्यवकीर्यमाणा न विशुध्यति, अतोऽसौ
तस्या उपक्लेश इति । यद्यपि रागोपक्लिष्टं चित्तं न विमुच्यते । किं तदवश्यं
रागपर्यवस्थितं भवति । उपहतं तु तत्तथा रागेण भवति यन्न विमुच्यते ।
तां भावनां¹ व्यावर्तयतो विमुच्यते ।
या तर्हि न दृष्टिरिति । या क्लिष्टा प्रज्ञा रागादिसम्प्रयुक्ता ।
“दृष्टेस्तत् सम्प्रयुक्तत्वात्” इति । अविद्यासम्प्रयुक्तत्वादित्यर्थः । कथञ्च
दृष्टिरविद्यया सम्प्रयुक्ता ? यस्मादविद्यालक्षणो मोहः क्लेशमहाभूमौ पठ्यते,
क्लेशमहाभूमिकाश्च सर्वेऽपि महाभूमिकैः सह सम्प्रयुज्यन्त इति दृष्ट्या
सत्कार्यदृष्ट्यादिकया प्रज्ञास्वभावया अविद्या सम्प्रयुज्यत इति गम्यते ।
तस्मान्नाविद्या प्रज्ञा, द्वयोः प्रज्ञाद्रव्ययोरसम्प्रयोगात् ।
अविद्योपक्लिष्टा प्रज्ञा न विशुध्यतीति । एतदुदाहरणम् । येन विद्या प्रज्ञाया
अर्थान्तरभूतेति । न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो युक्त इति । प्रज्ञोप-
क्लेशदेशनायां प्रज्ञाया अर्थान्तरभूता अविद्या; उपक्लेशत्वेन निर्दिष्टत्वात् ।
रागवत् । अत आह—यथा चित्तस्यान्य इति विस्तरः ।
व्यवकीर्यमाणा न विशुध्यतीति । अन्तरान्तरोत्पद्यमानाया क्लिष्टया प्रज्ञया
व्यवकीर्यमाणा क्षणान्तरोत्पन्ना कुशला प्रज्ञा न विशुध्यतीत्यर्थः । किं तदवश्यं
रागपर्यवस्थितमिति । रागसम्प्रयुक्तमित्यर्थः । उपहतं तु तत्तथा रागेणेति ।
समुदाचरता रागेण वासनाधानेन तदुपहतं भवति । तां भावनां तद् दौष्ठुल्यं
१. पुनर्भावनां—का० ।
निर्देशः ] तृतीयं कोशस्थानम् ४६५
एवमविद्योपहता¹ क्लिष्टा² प्रज्ञा न शुध्यतीत्यविद्योपहतां² परिकल्पयामः ।
को हि परिकल्पयन् वार्यते ! जात्यन्तरमेव त्वविद्यां वर्णयन्ति ।
योऽपि मन्यते—"सर्वक्लेशा अविद्या" इति, तस्याप्यत एव व्युदासः ।
सर्वक्लेशस्वभावा हि³ सती संयोजनादिषु पृथग्नोच्येत, दृष्ट्या च न संप्रयुज्येत ।
अन्येन वा क्लेशेन दृष्ट्यादीनां परम्परासंप्रयोगात् चित्तमपि चाविद्योपक्लिष्टमेवोक्तं
भवेत् ।
अथ मतम्—विशेषणार्थं तथोक्तमिति ? प्रज्ञायामपि४ विशेषणं५ कर्तव्यं
स्यात्५ । भवत्वविद्या धर्मान्तरम्, कस्त्व तस्याः स्वभावः ? सत्यवन्न कर्मफला-
व्यावर्तयतो योगिनस्तच्चित्तं विमुच्यते । एवमविद्योपहता क्लिष्टा प्रज्ञा न शुध्य-
तीति । अतः प्रज्ञा चाविद्या, न च दोष इति दर्शयति ।
को हि परिकल्पयन् वार्येत इति । परिकल्पनामात्रमेतदागमनिरपेक्षमिति
कथयति ।
योऽपि मन्यते सर्वक्लेशाविद्येति । भदन्तश्रीलाभः एवं मन्यते—अविद्येति
सर्वक्लेशानारियं सामान्यसंज्ञा, न रागादिक्लेशव्यतिरिक्ताऽविद्या नास्तीति ।
कस्मात् स एवं मन्यते ? बुद्धसूत्रात् । "न प्रजानाति न प्रजानांतीत्यायुष्मन्
महाकौष्ठिल, तस्मादविद्योच्यते" इति । सत्कार्यदृष्ट्यादयोऽपि क्लेशा अज्ञान-
स्वरूपा विपरीतग्रहणात इति । तस्याप्यत एवेति विस्तरः । तस्य भदन्तस्यात
एव प्रतिषेधवचनाद् व्युदासः । प्रतिषेधस्तन्मतस्येत्यध्याहार्यम् । कथम् ? इत्याह-
सर्वक्लेशस्वभावा हि सती संयोजनादिषु पृथग् नोच्येत । अनुशयसंयोजनादिष्व-
विद्यासंयोजनमिति पृथग् नोच्येत, शेषसंयोजनाव्यतिरेकात् । 'रागो बन्धनं
द्वेषो बन्धनम्' इत्युक्त्वा मोहो बन्धनमिति, 'कामरागानुशयः' इत्याद्युक्त्वा
अविद्यानुशय इति, ओघेष्वविद्यौघ इति, योगेष्वविद्यायोग इति पृथङ्नैवोच्येत;
कस्मात् ? परस्परासंप्रयोगात् । न हि दृष्टिदृष्ट्या संप्रयुज्यते, रागो वा रागेण ।
दृष्ट्यादिसम्प्रयुक्ता चाविद्योक्ता, क्लेशमहाभूमिकत्वेन महाभूमिकसंप्रयोगनिय-
मात् । चित्तमपि चाविद्योपक्लिष्टमेवोक्तं भवेत् । रागोपक्लिष्टं चित्तं न विमुच्यत
इति नोक्तं भवेत्; अविद्योपक्लिष्टत्ववचनेनैव रागाद्युपक्लिष्टत्वसिद्धेः ।
अथ मतम्—विशेषणार्थं तथोक्तमिति । रागलक्षणयाविद्ययोपक्लिष्टचित्तं
न विमुच्यत इति । प्रज्ञायामपि विशेषणं कर्तव्यं स्यात् । रागेण प्रतिघेन मानेन
१-१. ०पक्लिष्टा—का० । २. विशुध्यती ०—का० । ३. अपि—का० ।
४-४. मप्यविद्याविशेषणं—का० । ५. भवेत्—का० ।
नामसप्रख्यानम् ।
एतच्चैव न ज्ञायते किमिदमसप्रख्यानं नामेति ?
यदि यन्न सप्रख्यानम् ? सप्रख्यानाभावेऽपि तथैव दोषो यथा अविद्यायाम् ।
अथ सप्रख्यानविपक्षभूतं धर्मान्तरम् ? तदिदं तथैव न ज्ञायते किं
तदिति ।
एवञ्जातीयकोऽपि धर्माणां निर्देशो भवति, तद्यथा—“चक्षुः कतमत् ?
यो रूपप्रसादश्चक्षुर्विज्ञानस्याश्रय” ( ) इति ॥
अस्मीति सत्त्वमयताऽविद्येति भदन्तधर्मत्रातः । का पुनरस्मिमानादन्या
मयता ! याऽसौ सूत्र उक्ता—“सोऽहमेवं ज्ञात्वा एवं दृष्ट्वा सर्वासां तृष्णानां
सर्वासां दृष्टीनां सर्वासां मयतानां सर्वेषामहङ्कारममकारास्मिमानाभिनिवेशानुशयानां
प्रहाणात् परिज्ञानान्निश्छायो निर्वृतः” ( ) इति ।
अस्त्येषा मयता, सा त्वियमविद्येति कुत एतत् ?
वेति, मा भूत् सर्वक्लेशग्रहणप्रसङ्ग इति । इष्ट इति चेत् ? चित्तेऽपि न विशेषणं
कर्त्तव्यं स्यात् । अविद्योपक्लिष्टं चित्तं न विमुच्यत इत्येवमेव तु वक्तव्यं स्यात् ।
सप्रख्यानम् । प्रज्ञानमित्येकोऽर्थः । तथैव दोषो यथाविद्यायामिति । अथा-
सप्रख्यानमिति कोऽर्थः ? यन्न संप्रख्यानम् । चक्षुरादिष्वपि प्रसङ्गः । सप्रख्याना-
भावस्तर्हि ? एवं सति न किञ्चित् स्यात् । न चैतद् युक्तमिति । अथ सप्रख्यान-
विपक्षभूतं धर्मान्तरम् । तदिदं तथैव न ज्ञायते यथैवाविद्या, किं तदिति ।
एवञ्जातीयकोऽपीति विस्तरः । एवञ्जातीयकः, कर्मप्रभावित इत्यर्थः ।
तस्मादविद्यायाः कर्मणा कारित्रेण स्वभावो विज्ञातव्यः—अस्त्यसौ कश्चिद्धर्मो
यो विद्याविपक्ष इति । विद्याविपक्षत्वं तस्याः कर्मेति । तद्यथा चक्षुः कतमत् ?
यो रूपप्रसादश्चक्षुर्विज्ञानस्याश्रय इति । ननु च रूपप्रसाद इति स्वभावप्रभावि-
तोऽस्य निर्देश इति ? न; अप्रत्यक्षत्वान्नित्यं चक्षुर्विज्ञानमेयत्वाच्च ।
अस्मीति सत्त्वमयतेति । अविज्ञातार्थमेतत् । न तेन स्थविरेणास्याभिधेय-
मवधारितम् । मयता पुनः सौत्रान्तिकैरविद्या प्रकारभिन्ना वर्ण्यते, मानो वा ।
यासौ सूत्र उक्तेति विस्तरः । मयतानामित्यविद्यानां प्रकारभिन्नानां नामेति
ग्रहणम् । तृष्णादीनां पृथगुपदेशादिति भदन्तधर्मत्रातस्याभिप्रायः । आचार्य
आह—अस्त्येषा मयता, अस्ति सूत्रे उक्ता मयता, तत्र जातिनिर्देशादेकवचनम्,
सा त्वविद्येति । कुतः कारणादेतत् परिच्छिद्यते—साविद्येति ? भदन्तधर्मत्रातः