सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 494, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 494

निर्देशः ] तृतीयं कोशस्थानम् ४७३
तम्। सुखं वेदनीयमस्मिन्निति सुखवेदनीयः स्पर्शो यत्र सुखं वेदितमस्ति
एवं दुःखादुःखासुखवेदनीयावपि योज्यौ।
त एते षोडश स्पर्शा भवन्ति ॥ ३१ ॥
उक्तः स्पर्शः ॥
वेदना वक्तव्या। तत्र यः पूर्वं षड्विधः स्पर्श उक्तः—
तज्जाः षड्वेदनाः,
चक्षुःसंस्पर्शजा वेदना, श्रोत्र-घ्राण-जिह्वा-काय-मनःसंस्पर्शजा वेदनाः।
तासां पुनः—
पञ्च कायिकी चैतसी परा।
चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शजाः पञ्च वेदनाः कायिकी वेदनेत्युच्यते;
रूपीन्द्रियाश्रितत्वात्। मनःसंस्पर्शजा पुनर्वेदना चैतसिकीत्युच्यते; चित्तमात्रा-
श्रितत्वात्।
अथ किं स्पर्शादुत्तरकालं वेदना भवति, आहोस्वित् समानकालम् ?
समानकालमिति वैभाषिकाः; अन्योन्यं सहभूहेतुत्वात्।
कथं सहोत्पन्नयोर्जन्यजनकभावः सिध्यति ?
कथं च न सिध्यति ?
असामर्थ्यात्। जाते हि धर्मे धर्मस्य नास्ति सामर्थ्यं प्रतिज्ञाऽविशिष्टम् ?


(पा० सू० ३.३.१६९) इत्यस्मिन्नर्थे कृत्य इति दर्शयति ।
त एते षोडशेति। चक्षुःसंस्पर्शो यावन्मनःसंस्पर्श इति षट्। पुनः—
प्रतिघसंस्पर्शः, अधिवचनसंस्पर्शः, विद्यासंस्पर्शः, अविद्यासंस्पर्शः, नैवविद्या-
नाविद्यासंस्पर्शः, व्यापादसंस्पर्शः, अनुनयसंस्पर्शः, सुखवेदनीयः, दुःखवेद-
नीयः, अदुःखासुखवेदनीयश्च स्पर्श इति षोडश ॥ ३१ ॥
उक्तः स्पर्शः। वेदना वक्तव्येति । ननु च वेदनाप्युक्ता "वेदनानुभवः"
(अभि० १.१४) इति । अन्यथोक्तमप्युच्यते, न तर्हीदं वक्तव्यम्—यच्चोक्तं यच्च
वक्ष्यमाणम्, तन्न वक्ष्यामीति । "उक्तं च वक्ष्यते चान्यत्" इति (अभि० को०
३ ३६) वचनात् ? प्रकारनिर्देशाददोषः। पूर्वं लक्षणमुक्तम्, इदानीं प्रकार इति।
जाते हीति विस्तरः। जाते हि जन्ये धर्मे धर्मस्य जनकस्य नास्ति सामर्थ्यं
सहोत्पन्नत्वात्। प्रतिज्ञाविशिष्टमिति । प्रतिज्ञाया अविशिष्टमेतत् साधनमित्यर्थः,