सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 489, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 489

४६८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ श्लोक-
एतस्य पुनः केन नामत्वम् ? तेषु तेष्वर्थेषु तस्य नाम्नो नमनात् ।
इह निक्षिप्ते काय उपपत्त्यन्तरे नमनान्नामारूपिणः स्कन्धा इत्यपरे ॥
षडायतनमुक्तम् ॥
स्पर्शो वक्तव्यः ?
स्पर्शाः षट् ,
चक्षुःसंस्पर्शः, यावन्मनःसंस्पर्श इति । ते पुनः—
सन्निपातजाः ।
त्रयाणां सन्निपाताज्जाता इन्द्रियार्थविज्ञानानाम् । युक्तं तावत् पञ्चाना-
मिन्द्रियाणामर्थविज्ञानाभ्यां सन्निपातः; सहजत्वात् ।
मनइन्द्रियस्य पुनर्निरुद्धस्यानागतवर्त्तमानाभ्यां धर्ममनोविज्ञानाभ्यां कथं
सन्निपातः ? अयमेव तेषां सन्निपातो यः कार्यकारणभावः । एककार्यार्थो वा
सन्निपातार्थः । सर्वे च ते त्रयोऽपि स्पर्शोत्पत्तौ प्रगुणा भवन्तीति ।
वशेन नमति—अस्यार्थस्येदं नामेति । एतस्य पुनः केन नामत्वमिति । एतस्य
संज्ञाकरणलक्षणस्य नाम्नः केन कारणेन नामत्वम् । तेषु तेष्वर्थेषु तस्य नाम्नो
नमनादिति । यस्मात्तेष्वर्थेषु चतुस्कन्धलक्षणं नाम, तन्नाम नमयति प्रवर्त्तयति,
तस्मात् एतस्य नामत्वम्, नमयतीति नामेति कृत्वा । इह निक्षिप्त इति
विस्तरः । मरणकाले निक्षिप्ते काय उपपत्त्यन्तरे नमनाद् गमनादरूपिणो वेदना-
दयः स्कन्धा नामेत्युच्यन्ते । यथोक्तम्—मृतस्य खलु कालं गतस्य ज्ञातय इमं
पूतिकायमग्निना वा दहन्ति, उदके वा प्लावयन्ति, भूमौ वा निखनन्ति,
वातातापाभ्यां वा परिशोषं परिक्षयं पर्यादानं गच्छति । यत्पुनरिदमुच्यते—
चित्तमिति वा मन इति वा विज्ञानमिति वा श्रद्धापरिभावितं तदूर्ध्वगामि
भवति, विशेषगाम्यायत्यां स्वर्गोपगमिति ।
षडायतनमुक्तमिति । "तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः" (अभि०
१.९), "विज्ञानं प्रतिविज्ञप्तिर्मनआयतनं च तत्" (अभि० को० १.१६) इत्यत्र ।
मनइन्द्रियस्य पुनर्निरुद्धस्यानागतेन धर्मेण रूपादिनोत्पत्स्यमानेन वर्त्तमानेन
मनोविज्ञानेन कथं सन्निपातः । यः कार्यकारणभावः । कार्यं मनोविज्ञानम्, कारणं
मनइन्द्रियम्, धर्मश्च रूपादिः । एककार्यार्थो वेति । एककार्यमेवार्थं एककार्यार्थः,
एककार्यत्वमित्यर्थः । कथमेककार्यार्थः ? इत्याह—सर्वे च ते त्रयोऽपि मन-
इन्द्रियादयः स्पर्शोत्पत्तौ प्रगुणा अनुकूला भवन्तीति ।