सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 504, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 504

निर्देश: ] तृतीयं कोशस्थानम् ४८३
रूपी¹ धातुर्द्वादशानामालम्बनम्²,
तयोरभावात् ।
त्रयाणामुत्तरः,
गोचर इति वर्तते । आरूप्यधातुस्त्रयाणां धर्मोपविचारणाम् गोचरः,
तत्र रूपाद्यभावात् ॥
उक्ताः कामप्रतिसंयुक्ताः ॥
रूपप्रतिसंयुक्ता वक्तव्याः ? तत्र तावत्
ध्यानद्वये द्वादश,
दौर्मनस्योपविचारणाणस्य । ते च द्वादश
कामगाः ॥ ३३ ॥
कामान् गच्छन्तीति कामगाः । कामधातुमालम्बन्त इत्यर्थः । दृष्टो हि
विषयाणां ग्रहणार्थे गमिप्रयोगः—‘कथमेतद् गम्यते ? एवमेतद् गम्यते’ इति ॥ ३३॥
स्वोऽष्टालम्बनम्,
स एव रूपधातुस्तेषां स्वः । स्वोऽष्टानां मनोपविचाराणाम् आलम्बनम्,
गन्धरसोपविचारांश्चतुरो हित्वा ।
"रूपी द्वादशगोचरः" इति । रूपी धातुः कामावचराणां द्वादशानां मनोप-
विचाराणां गोचरः । षड्गन्धरसोपविचारानपास्येति । द्वौ गन्धरसालम्बनौ
सौमनस्योपविचारौ हित्वा, द्वौ गन्धरसालम्बनौ दौर्मनस्योपविचारौ हित्वा, द्वौ
तदालम्बनावेव चोपेक्षोपविचारौ हित्वा, द्वौ तदालम्बनावेव चोपेक्षोपविचारौ
हित्वेति । कस्मात् ? तत्र रूपधातौ तयोर्गन्धरसयोरभावात् । "विना गन्ध-
रसघ्राणजिह्वाविज्ञानधातुभिः" ( अभि० को० १.३० ) इति वचनात् ।
“त्रयाणामुत्तरः” इति । त्रयाणां सौमनस्यदौर्मनस्योपेक्षाधर्मोपविचाराणां
कामावचराणामुत्तरो धातुरारूप्यधातुरालम्बनम्, तत्र रूपाद्यभावात् ।
"ध्यानद्वये द्वादश" इति । दौर्मनस्योपविचाराणां षण्णामभावात् ॥ ३३ ॥
“स्वोऽष्टालम्बनम्” इति । अष्टानामालम्बनमष्टालम्बनम् । गन्धरसोप-
विचारांश्चतुरो हित्वेति । सौमनस्योपेक्षोपविचारौ गन्धालम्बनौ द्वौ रसालम्बनौ
१-१. रूपधातु०—का० ।