अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
१०० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
त्रिधाऽन्ये,
अन्ये चत्वारः शेषा रूपरसगन्धस्प्रष्टव्यधातवः । ते विपाकजा अपि, औप-
चयिका अपि, नैःष्यन्दिका अपि ।
द्रव्यवानेकः,
असंस्कृतं हि सारत्वाद् द्रव्यम् । तच्च धर्मधातावस्ति, अतो धर्मधातुरेको
द्रव्ययुक्तः ।
क्षणिकाः पश्चिमास्त्रयः ।
मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च पाठक्रमेण पश्चिमाः । ते प्रथमानास्रवे
दुःखे धर्मज्ञानक्षान्तिकलापे क्षणमेकमनैःष्यन्दिका भवन्ति, अतः क्षणिका इत्यु-
च्यन्ते। अन्यसम्भूतसंस्कृतो नास्ति कश्चिदनैःष्यन्दिकः। तत्र दुःखे धर्मज्ञानक्षान्ति-
सम्प्रयुक्तं चित्तं मनोधातुः, मनोविज्ञानधातुश्च । शेषास्तत्सहभुवो धर्मधातुः ॥
त्रिधान्ये इति । त्रिधैवान्य अन्य एव त्रिधेत्यवधार्यते । तत्र विपाकजा
इन्द्रियाविनिर्भागिण एव । "विपाकोऽव्याकृतो धर्म, सत्त्वाख्य" ( अभि० को०
२।५१) इति वचनात् । नैष्यन्दिकौपचयिकास्त्विन्द्रियविनिर्भागिणोऽपि । कथं
पुनर्गेम्यते—इन्द्रियविनिर्भागिणोऽपि नैष्यन्दिका. सन्तीति ? मृतस्यापि तदनु-
वृत्तिदर्शनात् । न ह्यसत्त्वसंख्याता विपाकजा इष्यन्ते ।
“द्रव्यवानेकः” इति । एक एव द्रव्यवानित्यवधारणम् । सारत्वाद् द्रव्य-
मिति । अविनाशात् ।
क्षणमेकमनैष्यन्दिका भवन्तीति । क्षणमेकमसभागहेतुनिर्वर्तिताः । पूर्वक्षणा-
नास्रवाभावात् क्षणिका , न तु क्षणान्तरविनाशिन इत्ययमर्थोऽभिप्रेतः ।
अन्यथा, हि 'पश्चिमा एव धातव. क्षणिका' इत्यवधारणात् तदितरेषा धातू-
नामक्षणिकत्वप्रसङ्गः । कथं पुनर्दुःखधर्मज्ञानक्षान्तिकलापे मनोधातुर्मनोविज्ञान-
धातुश्च युगपद्भवत., न हि विज्ञानद्वयसमवधानमिष्यते ? नोच्यते—युगपत्तौ
भवत इति, किं तर्हि ? एकमत्र विज्ञानं धातुद्वयत्वेन व्यवस्थाप्यते । नाम-
द्वयेन कथ्यत इत्यर्थ तेन व्याचष्टे—दुःखधर्मज्ञानक्षान्तिसम्प्रयुक्तं चित्तं मनो-
धातुर्मनोविज्ञानधातुश्चेति । शेषास्तत्सहभुवो धर्मधातुरिति । तत्र क्षान्तिकलापे
चित्तादन्ये धर्माः शेषाः । तत्सहभुव. तया क्षान्त्या सहभुवः । तद्यथा—
अनास्रवसंवरो रूपम् । वेदनासंज्ञाचेतनादयः सम्प्रयुक्ता. । तेषां च प्राप्तिजात्या-
दयो धर्मधातुरिति ।
निर्देशः ] प्रथमं कोशस्थानम् १०१
इदं विचार्यते—यश्चक्षुर्धातुनाऽसमन्वागतः समन्वागमं प्रतिलभते चक्षु-
र्विज्ञानधातुनापि सः ? यो वा चक्षुर्विज्ञानधातुना चक्षुर्धातुनापि सः ? आह—
चक्षुर्विज्ञानधात्वोः स्यात् पृथग् लाभः सहापि च ॥ ३८ ॥
पृथक् तावत् स्याच्चक्षुर्धातुना, न चक्षुर्विज्ञानधातुना । कामधातौ क्रमेण
चक्षुरिन्द्रियं प्रतिलभमानः । आरूप्यधातुच्युतश्च द्वितीयादिषु ध्यानेषूपपद्यमानः ।
स्याच्चक्षुर्विज्ञानधातुना, न चक्षुर्धातुना । द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञानं
सम्मुखीकुर्वाणस्ततश्च्युतश्चाधस्तादुपपद्यमानः ।
समन्वागमं प्रतिलभत इति । प्राप्तिमलब्धपूर्वां लभत इत्यर्थः । चक्षुर्विज्ञान-
धातुनापि स इति । किम् ? समन्वागमं प्रतिलभत इत्यधिकृतम् ।
“पृथग्लाभः” इत्यनेन प्रथमद्वितीये कोट्यौ दर्शिते । “सहापि च” इत्यनेन
तृतीया कोटिर्दर्शिता । चतुर्थी तूक्तनिर्मुक्तेति सुगमत्वान्न दर्शिता । चशब्देन
वा साप्युक्ता—अपृथक्सह चेति ।
कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमान इति । कामधातौ स्थित पुद्गल
क्रमेण कललादिक्रमेण मृत्युक्रमेण वा चक्षुरिन्द्रियं लभते । किंप्रतिसंयुक्तं किं
कामधातावेव ? नेत्युच्यते, अविशेषेण कामप्रतिसंयुक्तं वा रूपप्रतिसंयुक्तं वा
प्रतिलभमानः । कललाद्यवस्थाया तथा क्रमेण मरणस्याचक्षुष्मन्मरणस्य च
काले चक्षुर्धातुनाऽसमन्वागतः ; कललाद्यवस्थाया तथा मरणावस्थाया वा
तदभावात् । षडायतनोत्पत्त्यवस्थाया भवस्यान्तराले वा तेनेदानीं समन्वागमं
प्रतिलभते । न तु चक्षुर्विज्ञानधातुनाऽसमन्वागत समन्वागमं प्रतिलभते,
यस्मादसौ कुशलक्लिष्टेन तेनातीतानागतेन समन्वागत एव पूर्वमन्तराभव-
प्रतिसन्धिकाले । विप्रकृतावस्था ह्येषाधिक्रियते, न प्रतिलब्धवत्प्रतिलप्स्य-
मानावस्था ।
चक्षुर्विज्ञानधातुनेति विस्तरः । द्वितीयादिध्यानोपपन्नः । तत्र तस्य चक्षु-
र्विज्ञानधातोरभावात् तेन पूर्वमसमन्यागत इदानीं चक्षुर्विज्ञानं प्रथमध्यान-
भूमिकमनिवृताव्याकृतस्वभावं सम्मुखीकुर्वाणः । तेन चक्षुर्विज्ञानधातुना समन्वा-
गमं प्रतिलभते । न तु चक्षुर्धातुनाऽसमन्वागतः समन्वागमं प्रतिलभते; प्रति-
लब्धवत्समन्यागतत्वात् । ततश्च्युतश्चाधस्तादुपपद्यमान इति । द्वितीयादिध्यान-
प्रच्युतोऽधस्तात्प्रथमे ध्याने कामधातौ चोपपद्यमानश्चक्षुर्विज्ञानधातुनाऽसमन्वा-
१०२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
सहापि स्यादुभयेन समन्वागमं प्रतिलभते । आरूप्यधातुच्युतः कामधातौ
ब्रह्मलोके चोपपद्यमानः ।
नोभयेन एतानाकारान् स्थापयित्वा । यश्चक्षुर्धातुना समन्वागतश्चक्षुर्विज्ञान-
धातुनाऽपि सः । चतुष्कोटिकः ।
प्रथमा कोटिर्द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानासम्मुखीकुर्वाणः ।
द्वितीया कामधातावलब्धविहीनचक्षुः ।
गत समन्वागमं प्रतिलभतेऽन्तराभवप्रतिसन्धाने कुशलक्लिष्टेन अतीतानागतेन,
न तु चक्षुर्धातुनाऽसमन्वागत. समन्वागमं प्रतिलभते, प्रतिलब्धवत्समन्वा-
गतत्वात् ।
स्यादुभयेनेति विस्तरः । आरूप्यधातुच्युतः उभाभ्यां चक्षुर्धातुचक्षुर्विज्ञान-
धातुभ्यां पूर्वमसमन्वागत अन्तराभवप्रतिसन्ध्यवस्थायामेव चक्षुर्धातुनोत्पादा-
भिमुखेन चक्षुर्विज्ञानधातुना च कुशलक्लिष्टेनातीतानागतेन समन्वागमं प्रति-
लभते । अविकलेन्द्रिया ह्यन्तराभविकाः ।
नोभयेन एतानाकारान् स्थापयित्वेति । कोटित्रयोक्तान् धर्मप्रकारान् त्यक्त्वे-
त्यर्थः । आरूप्यधातुच्युतस्तत्रैवोत्पद्यमानो नोभाभ्यामसमन्वागत. समन्वागमं
प्रतिलभते । असमन्वागतत्वं तत्रास्ति, न तु समन्वागमप्रतिलम्भः । द्वितीया-
दिध्यानोपपन्नश्च चक्षुर्विज्ञानमसम्मुखीकुर्वाणो नोभाभ्यामसमन्वागत. समन्वा-
गमं प्रतिलभते । कथम् ? चक्षुर्धातुना यद्यपि समन्वागमं प्रतिलभते न तु चक्षु-
र्धातुना असावसमन्वागतः, चक्षुर्विज्ञानधातुना यद्यप्यसावसमन्वागतो न तु
समन्वागमं प्रतिलभते, तदससम्मुखीकुर्वाणत्वात् । चक्षुष्मान् कामधातुस्थः
सकृन्मरणादन्तराभवप्रतिसन्धौ नोभाभ्यामसमन्वागत समन्वागमं प्रतिलभते;
ताभ्यां समन्वागतत्वात् । यश्च चक्षुर्धातुना समन्वागतश्चक्षुर्विज्ञानधातुनापि स
इति । "पृथग्लाभः सहापि च" इत्यनेनैव सूत्रेणेदमपि चतुःकोटिकं वर्तयति ।
लाभो हि प्रतिलम्भः, प्राप्तिमात्रेऽपि विवक्षया कदाचिद्भवति । प्रथमे चतु-
ष्कोटिके प्रतिलम्भोऽधिकृतः, द्वितीये तु प्राप्तिमात्रम् ।
प्रथमा कोटिरिति । विस्तर—द्वितीयादिध्यानोपपन्नोऽवश्यं चक्षुर्धातुना
समन्वागतः; इन्द्रियैरविकलत्वात् । चक्षुर्विज्ञानधातुनात्रासमन्वागतः; तत्रा-
भावात् । प्रथमध्यानभूमिकस्य चक्षुर्विज्ञानस्यासम्मुखीक्रियमाणत्वात् ।
कामधातावलब्धविहीनचक्षुरिति । अलब्धं विहीनं वा चक्षुरस्यालब्धविहीन-
चक्षुः । अलब्धचक्षु. कललाद्यवस्थः, विहीनचक्षुः विनष्टचक्षुः । स कामधातौ
"
Wait, "प्रतिलभमान ।" (no visarga).
Then single quote: 'स्याद्
Line 21:
"रूपधातुना न चक्षुर्धातुना' इति इयं कोटिर्नास्ति । सहापि स्यात् । उभयेना-"
Line 22:
"समन्वागतः समन्वागमं प्रतिलभते, आरूप्यधातोश्च्युतो रूपधातौ कामधातौ"
Line 23:
"चोपपद्यमान । नोभयेनेतानाकारान् स्थापयित्वा । यश्चक्षुर्धातुना समन्वा"
Wait, at the end of line 23: "समन्वा" without hyphen, wraps to "गतो" on line 24.
And "चोपपद्यमान ।" - no visarga.
Line 24:
"गतो रूपधातुनापि स-इति पूर्वपादक. । यस्तावच्चक्षुर्धातुना समन्वागतो"
Wait, "स-इति पूर्वपादक. ।" -> hyphen between स and इति! And dot after पूर्वपादक.
Line 25:
"रूपधातुनापि सः । स्याद् रूपधातुना न चक्षुर्धातुना कललाद्यवस्थास्वलब्ध-"
Line 26:
"चक्षुर्लब्धविहीनचक्षुश्च । यश्चक्षुर्विज्ञानधातुनाऽसमन्वागत. समन्वागमं
१०४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
कत्याध्यात्मिका धातवः ? कति बाह्याः ?
द्वादशाध्यात्मिकाः,
कतमे द्वादश ?
हित्वा रूपादान् ,
षड् विज्ञानानि षडाश्रयाः—इत्येते द्वादश धातव आध्यात्मिकाः ।
रूपादयस्तु षड् विषयधातवो बाह्याः ।
आत्मन्यसति कथमाध्यात्मिकम् ? बाह्यं वा ? अहंकारसंनिश्रयत्वाच्चित्तम्
'आत्मा' इत्युपचर्यते ।
“आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डित” ( )
इत्युक्तम् । चित्तस्य चान्यत्र दमनमुक्तं भगवता—
“चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्” इति ।
द्वितीयादिषु ध्यानेषूपपद्यमानः । सहापि स्यात्—उभयेनासमन्वागत समन्वागमं
प्रतिलभते, आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोत्पद्यमानः । नोभयेन
एतानाकारान् स्थापयित्वा—यश्चक्षुर्विज्ञानधातुना समन्वागतो रूपधातुनापि
सः । यो वा रूपधातुना चक्षुर्विज्ञानधातुनापि सः पूर्वपादक । यस्तावच्चक्षु-
र्विज्ञानधातुना समन्वागतो रूपधातुनापि सः । स्याद् रूपधातुना न
चक्षुर्विज्ञानधातुनापि । द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञानमसंमुखीकुर्वाणः ।
यथा चेयं चक्षुर्विज्ञानरूपधातूना प्रतिलम्भसमन्वागमचिन्ता, तथा श्रोत्र-
विज्ञानशब्दधातवादीनामपि प्रतिलम्भसमन्वागमचिन्ता कर्तव्या—श्रोत्रविज्ञान-
धात्वोः स्यात्पृथग्लाभः सहापि चेत्यादि ॥ ३८ ॥
“द्वादशाध्यात्मिकाः” इति । उभयावधारणम् । अवधारणादेव चान्ये
रूपादयो बाह्या इति सिद्धम् । आत्मनि अधि अध्यात्मम् । अधि आत्मानमिति
वा अध्यात्मम् । अध्यात्ममेवाध्यात्मिका । अध्यात्मं वा भवा आध्यात्मिकाः ।
अहङ्कारसंनिश्रयत्वाच्चित्तमात्मेत्युपचर्यत इति । “अहङ्कारसंनिश्रय आत्मा’
इत्यात्मवादिनः सङ्कल्पयन्ति । चित्तं चाहङ्कारनिश्रय इति ‘आत्मा’ अप्युपचर्यते ।
कथम् ? इत्याह—आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः (
) इत्युक्तं गाथायाम् । कथं पुनर्गम्यते—‘चित्तमात्मशब्देनोच्यते’ इति ?
तत आह—चित्तस्य चान्यत्र दमनमुक्तं भगवतेति । अन्यत्र गाथायामुक्तम्—
निर्देशः ] प्रथमं कोशस्थानम् १०५
अत आत्मभूतस्य चित्तस्याश्रयभावेन प्रत्यासन्नत्वात् चक्षुरादीनामाध्यात्मि-
कत्वम्, रूपादीनां विषयभावाद् बाह्यत्वम् ।
एवं तर्हि षड् विज्ञानधातव आध्यात्मिका न प्राप्नुवन्ति, न ह्येते मनो-
धातुत्वमप्राप्ताश्चित्तस्याश्रयीभवन्ति ? यदा तदा त एव ते भवन्तीति लक्षणं नाति-
वर्तन्ते । अन्यथा हि मनोधातुरतीत एव स्यान्नानागतप्रत्युत्पन्नः । इष्यन्ते
चाष्टादश धातवस्त्रैयध्विकाः ।
यदि चानागतप्रत्युत्पन्नस्य¹ विज्ञानस्य मनोधातुलक्षणं न स्यात्, अतीते-
ऽप्यध्वनि मनोधातुर्न व्यवस्थाप्येत । नहि लक्षणस्याध्वसु व्यभिचारोऽस्तीति ॥
कति धातवः सभागाः ? कति तत्सभागाः ? एकान्तेन तावत्—
“चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्” (ध० प० ३६) इति ।
तेनायमर्थः—आत्मनि चित्तीकार्ये । आत्मानं वा चित्तमधिकृत्य ये धर्माः
प्रत्यासन्नभावादाश्रयभावेन वर्तन्ते त आध्यात्मिकाः । ये तु विषयभावेन वर्तन्ते
ते बाह्या इति । कः पुनः प्रत्यासन्नभाव, येन विज्ञानं तद्विकारमनुविघत्ते ।
चक्षुरादिष्वेव हि विज्ञानं लक्ष्यते, न रूपादिष्विति । तथा हि चित्तमिन्द्रिय-
सम्बद्धे शरीरदेशे परिच्छिद्यते, न विषयदेश इति ।
एवं तर्हि षड्विज्ञानधातव इति । विस्तरः—इह पञ्च तावद्विज्ञानधातवो
वर्तमाना एव गृह्यन्ते; इन्द्रियविषयसमानकालत्वात् । वर्तमानविषया हि पञ्च
विज्ञानकायाः । मनोविज्ञानधातुरपि वर्तमान एवेह व्यवस्थाप्यते; यस्मा-
न्मनोधातुरस्याश्रयोऽनन्तरातीतो व्यवस्थाप्यते । अथ भेदादेव हि मनोधातु-
मनोविज्ञानधात्वोः पृथग्व्यवस्थानम् । तस्मात्त आध्यात्मिका न प्राप्नुवन्ति । न
ह्येते मनोधातुत्वमप्राप्ता अतीतत्वमप्राप्ताः चित्तस्याश्रयीभवन्ति यदा तदा त एव
ते भवन्तीति लक्षणं नातिवर्तन्त इति । किमनेन वाक्येन साधितम् ? इदमनेन
साधितम्—वर्तमानानामप्येषामाश्रयभावो भविष्यतीति, भविष्यादाश्रयभावे-
नाध्यात्मिकत्वं भवतीति ।
यदि चानागतप्रत्युत्पन्नस्येति विस्तर । अतीतेऽध्वनि यन्मनोधातुलक्षणं
तदनागतप्रत्युत्पन्नयोरप्यध्वनोरस्त्येवेत्यभिप्रायः । न हि लक्षणस्याध्वसु व्यभि
चारोऽस्ति । न हि स्वभावपरित्यागोऽस्तीत्यर्थः ।
१. चा०—का० ।
१०६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे
धर्मसंज्ञकः ।
सभागः,
यो हि विषयो यस्य विज्ञानस्य नियतः, यदि तत्र तद्विज्ञानमुत्पन्नं भवत्यु-
त्पत्तिधर्मि वा, एवं स विषयः सभाग इत्युच्यते। न च सोऽस्ति कश्चिद्धर्मधातु-
र्यत्र नानन्तं मनोविज्ञानमुत्पन्नम्, उत्पत्स्यते वा। तथा हि सर्वार्यपुद्गलानामिदं
चित्तमवश्यमुत्पद्यते—"सर्वधर्मा अनात्मानः" इति।
तस्य च स्वभावसहभूनिर्मुक्ताः सर्वधर्मा आलम्बनम्, स पुनश्चित्तक्षणो-
ऽन्यस्य चित्तक्षणस्यालम्बनम्—इति द्वयोः क्षणयोः सर्वधर्मा आलम्बनं भवन्ति।
तस्माद् धर्मधातुर्नित्यं सभागः।
तत्सभागाश्च शेषाः,
सभागश्चेति चशब्दः। कोऽयं तत्सभागो नाम !
"धर्मसंज्ञकः सभागः" इति। धर्मसंज्ञकः सभाग एवेत्यवधार्यते। यो हि
विषयो यस्य विज्ञानस्य नियत इति। तद्यथा चक्षुर्विज्ञानस्य रूपं नियतो विषयः,
यावन्मनोविज्ञानस्य धर्माः। यदि तत्र तच्चक्षुर्विज्ञानमुत्पन्नमुत्पत्तिधर्मि वा। यावद्
यदि तत्र मनोविज्ञानमुत्पन्नम्, उत्पत्तिधर्मि वा। स विषयः सभाग इत्युच्यते।
तस्य च स्वभावसहभूनिर्मुक्ता इति। स्वभावेन सहभूभिश्च निर्मुक्ताः
स्वभावसहभूनिर्मुक्ताः। सर्वधर्मास्तस्य विज्ञानस्यालम्बनम्, न स्वभावः,
स्वात्मनि वृत्तिविरोधात्। न हि तदेवाङ्गुल्यग्रं तेनैवाङ्गुल्यग्रेण स्पृश्यते, न
सैवासिधारा तयैवासिधारया छिद्यते। न सहभुवः सम्प्रयुक्ता विप्रयुक्ता वा,
अतिसन्निकृष्टत्वात्। न ह्यक्षिस्थमञ्जनं तेन गृह्यते। स पुनश्चित्तक्षणोऽन्यस्य
चित्तक्षणस्यालम्बनमिति। ये पूर्वस्मिन् क्षणे स्वभावसहभुवो धर्मा नालम्बिता
अभूवँस्तेऽप्यालम्बिता इति द्वयोः क्षणयोः सर्वधर्मा आलम्बनं भवन्ति। तस्माद्धर्म-
धातुर्नित्यं सभागः। धर्मधातुर्हि नियतो मनस एव।
"तत्सभागाश्च शेषाः"। चशब्देन सभागाश्चेति शेषा एव सभागतत्सभागा
इत्यवधार्यते। ननु च धर्मधातुरेव सभाग एवेत्यवधारणे शेषा न सभागा
इति सभागतत्सभागाः सेत्स्यन्ति ? न सेत्स्यन्ति। यद्यपि न सभागा एव हि
भवेयुः, तत्सभागा एवेति तु सम्भवेयुः। तन्निवृत्त्यर्थमिदमारभ्यते—सभाग-
तत्सभागा एव शेषा., न तु सभागा एव, नापि तत्सभागा एवेति।
निर्देशः ] प्रथमं कोशस्थानम् १०७
यो न स्वकर्मकृत् ॥ ३९ ॥
उक्तं भवति—यः स्वकर्मकृत् स सभाग इति । तत्र येन चक्षुषा
रूपाण्यपश्यत् पश्यति द्रक्ष्यति वा तदुच्यते—सभागं चक्षुः । एवं यावन्मनः
स्वेन विषयकारित्रेण वक्तव्यम् ।
तत्सभागं चक्षुः काश्मीराणां चतुर्विधम्—यद् दृष्ट्वा रूपाणि निरुद्धम्,
निरुध्यते, निरोत्स्यते वा, यच्चानुत्पत्तिधर्मि ।
पाश्चात्यानां पुनः पञ्चविधम्—तदेवानुत्पत्तिधर्मि द्विधा कृत्वा विज्ञान-
समायुक्तं च, असमायुक्तं च । एवं यावत् कायो वेदितव्यः । मनस्त्वनुत्पत्ति-
धर्मकमेव तत्सभागम् ।
रूपाणि च यानि चक्षुषाऽपश्यत्, पश्यति, द्रक्ष्यति वा, तानि सभागानि ।
तत्सभागानि चतुर्विधानि—यान्यदृष्ट्वान्येव निरुद्धानि, निरुध्यन्ते, निरोत्स्यन्ते
वा, यानि चानुत्पत्तिधर्मीणि । एवं यावत् स्प्रष्टव्यानि । स्वेन्द्रियकारित्रेण सभाग-
तत्सभागानि वेदितव्यानि । यदेकस्य चक्षुः सभागं तत् सर्वेषाम् । एवं तत्सभा-
गमपि । तथा यावन्मनः । रूपं तु यः पश्यति तस्य सभागं यो न पश्यति तस्य
तत्सभागम्। किं कारणम् ? अस्ति हि सम्भवो यद् रूपमेकः पश्यति तद्बहवोऽपि
पश्येयुः, यथा—चन्द्रनटमल्लप्रेक्षासु । नतु सम्भवोऽस्ति यदेकेन चक्षुषा द्वौ
पश्येताम् । अतोऽस्यासाधारणत्वादेकसन्तानवशेन व्यवस्थानम् । रूपस्य तु
“यो न स्वकर्मकृत्” स तत्सभाग इति सम्बन्धनीयम्, 'तत्सभागाश्च'
इत्यनन्तरोक्तत्वात् । उक्तं भवति—यः स्वकर्मकृत् स सभाग इति । अस्वकर्म-
कृदेव तत्सभाग, तत्सभाग एव चास्वकर्मकृदित्यवधारणेऽर्थापत्त्या स्वकर्म-
कृत्सभाग इति । रूपाण्यपश्यदिति । अद्राक्षीदिति वक्तव्यम् । एवं ह्यद्यतनातीतं
ह्यस्तनातीतं च परिगृहीतं भवति, अन्यथा ह्यव्यापि लक्षणं स्यात् । अथैवमेव
पाठः । उदाहरणमात्रं तद् द्रष्टव्यम् । अद्यतनातीतमपि वक्तव्यम् । एवं यावन्मनः
स्वेन-विषयकारित्रेण वक्तव्यमिति । स्वेन विषयपुरुषकारेण वक्तव्यम् । कथ-
मिति ? येन श्रोत्रेण शब्दानशृणोत्, शृणोति, श्रोष्यति वा, तदुच्यते सभागं
श्रोत्रमिति सर्वम् । विज्ञानसमायुक्तमसमायुक्तं चेति विज्ञानसम्बद्धम्, असम्बद्धं
चेत्यर्थः । यदेकस्य चक्षुः सभागं तत्सर्वेषाम् । किम् ? सभागमिति वर्तते । एवं
तत्सभागमपीति । यदेकस्य चक्षुस्तत्सभागं तत्सर्वेषां तत्सभागमित्यर्थः ।
१०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
साधारणत्वाद् अनेकसन्तानवशेन । यथा रूपम्, एवं शब्दगन्धरसस्प्रष्टव्यधातवो
वेदितव्याः ।
भवतु शब्द एवम्, गन्धादयस्तु य एकेन गृह्यन्ते न तेऽन्येन प्राप्त-
ग्रहणादित्यसाधारणत्वादेषां चक्षुरादिवदतिदेशो न्याय्यः ? अस्त्येतदेवम्, अपि त्वेषा-
मपि सम्भवं प्रति साधारणत्वम् । अस्ति ह्येष सम्भवो य एव गन्धादय एकस्य
घ्राणादिविज्ञानमुत्पादयेयुस्त एवान्येषामपि, न त्वेवं चक्षुरादयः । तस्मादेषां
रूपाविवदतिदेशः ।
चक्षुर्विज्ञानादीना सभागतत्सभागत्वमुत्पत्त्यनुत्पत्तिधर्मित्वाद्, यथा
मनोधातोः ।
सभाग इति कोऽर्थः ? इन्द्रियविषयविज्ञानानामन्योन्यभजनम् ।
कारित्रभजनं वा भाग., स एषामस्तीति सभागः !
प्राप्तग्रहणादिति गन्धादयो ये देवदत्तेन घ्राणादीन्द्रियप्राप्ता गृह्यन्ते न ते
यज्ञदत्तेन गृह्यन्ते, स्वघ्राणादिकप्रविष्टत्वात् । इत्यसाधारणत्वादेषां चक्षुरादिव-
दतिदेशो न्याय्यः । य एकस्य गन्ध सभाग. स सर्वेषाम् । एवं तत्सभागोऽपीति
वक्तव्यम् । यथा रूपमेवं गन्धादय इति । अस्ति ह्येष सम्भवः, य एव गन्धादय
एकस्य घ्राणादिविज्ञानमुत्पादयेयुस्त एवान्येषामपीति । यदि ते देवदत्तघ्राणादी-
न्द्रियप्राप्ता भवेयुर्देवदत्तस्य विज्ञानमुत्पादयेयुः । अथ यज्ञदत्तघ्राणादीन्द्रिय-
प्राप्ता यज्ञदत्तस्य विज्ञानमुत्पादयेयुरित्यर्थं । अथ वा त एवान्येषामपीति
तत्रान्तर्गतसूक्ष्मक्रिमिप्रभृतीनामपि विज्ञानमुत्पादयेयुः । न तस्यैव देवदत्तस्य
यस्य घ्राणादीन्द्रियप्राप्तास्ते गन्धादय इति ।
इन्द्रियविषयविज्ञानानामन्योन्यभजनमिति । आश्रयविषयाश्रयिभावेनान्यो-
न्याभिमुख्येन प्रवृत्तिः । तथाहि--इन्द्रियधातवो विज्ञानधातूनाश्रयभावेन यथा-
योगं भजन्ते । सेवन्त इत्यर्थं । विषयवांस्तूंश्च विषयिभावेन । तथा विषयधातव
स्वेन्द्रियधातून् विषयभावेन भजन्ते, विज्ञानधातूंस्तु * विषयभावेनालम्बन
भावेन वा भजन्ते । तथा विज्ञानधातव. स्वेन्द्रियधातूनामाश्चयिभावेन भजन्ते,
विषयधातूंश्च विषयिभावेनालम्बकभावेन वा भजन्ते इति । अन्योन्यभजनं
भागः । भावे घञ् ।
कारित्रभजनं वा भागः । कारित्रं चक्षुरादीनां दर्शनादि, विज्ञानधातूना
विज्ञातृत्वम्, विषयधातूना तद्विषयालम्बनभाव. । तस्य कारित्रस्य भजनं
स्पर्शसमानकार्यत्वाद् वा ।
ये पुनरसभागाः, तेषां¹ सभागानां जातिसामान्येन सभागत्वात्
तत्सभागाः ॥ ३९ ॥
कति धातवो दर्शनहेयाः ? कति भावनाहेयाः ? कत्यहेयाः ? रूपिणस्तावत्—
दश भावनया हेयाः, पञ्च च
विज्ञानधातवः ।
अन्त्यास्त्रयस्त्रिधा ।
मनोधातुः, धर्मधातुः, मनोविज्ञानधातुश्च—एते त्रयो धातव पाठानु-
पूर्व्याऽन्त्यास्त्रिप्रकाराः ।
कारित्रभजनम् । स एषामस्तीत्यर्थः । प्रदर्शनमात्रमेतत् । विग्रहस्त्वेवं कर्तव्य -
सह भागेन वर्तन्ते सभागा इति । समानो वा भाग एषा त इमे सभागा ।
समानार्थस्य सहशब्दस्य स-भाव आदिष्टः² ।
स्पर्शसभागकार्यत्वाद्वा । किम् ? सभागा इति प्रकृतम् । अत्र कर्मणि घञ् ।
भज्यत इति भागः । विग्रहस्तु पूर्ववत् । स्पर्शश्चैतसिक एषामिन्द्रियविषयविज्ञा-
नानां समानं कार्यम् । “चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् । त्रयाणा
सन्निपातः स्पर्शः” ( ) इत्यादिवचनात् ।
ये पुनरसभागा इति । विस्तर —ये पुनरन्ये चक्षुरादय इत्यसभागास्तेषां
सभागानामुक्तलक्षणाना सभागाः सदृशास्ते तत्सभागाः । तेषा तैर्वा सभागास्ते
तत्सभागाः । तुल्यार्थो ह्यत्र सभागशब्दो गृह्यते ॥ ३९ ॥
दर्शनहेया इति । दर्शनं प्रथमतः सत्यदर्शनम् । अनास्रवं पञ्चदशचित्त-
क्षणसंगृहीतम् । भावना तदेव पुन पुनर्दर्शनम् । लौकिकं वा समाहितं ज्ञानं
भावना ।
“दश भावनया हेयाः पञ्च च” इति । रूपिणो धातवो दश, पञ्च च तद्वि-
ज्ञानधातव इति ।
कथं पुनरेतद्गम्यते—एत एव त इति ? “अन्त्यास्त्रयस्त्रिधा” इति वचनात् ।
अन्त्यत्रयादन्ये पञ्चदश धातव एव त उच्यन्त इति । ते भावनाहेया एवेत्यव-
धार्यन्ते । त्रिप्रकारा इति । दर्शनहेयाः, भावनाहेयाः, अहेयाश्चेत्यर्थः । एत एव
१. 'ये तेषां०—का० ।
२. 'समानस्य छन्दस्य०' ( ६।३।८४ पा० सू० ) इत्यादिनेत्यर्थः ।
११० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
अशीत्यनुशयाः तत्सहभुवस्तत्प्राप्तयश्च सानुचरा दर्शनहेयाः। शेषाः
सास्रवा भावनाहेयाः। अनास्रवा अहेयाः।
ननु चान्यदपि दर्शनप्रहातव्यमस्ति पृथग्जनत्वमापायिकं च कायवाक्कर्म!
आर्यमार्गविरोघित्वात् न तद् दर्शनप्रहातव्यम्। एष हि संक्षेपः।
न दृष्टिहेयमक्लिष्टं न रूपं नाप्यषष्ठजम् ॥ ४० ॥
नास्ति किञ्चिदक्लिष्टं दर्शनप्रहातव्यम् नापि रूपम्। अक्लिष्टाव्याकृतं
च पृथग्जनत्वम्; समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वागमात्। रूपं
त्रिधा। अशीत्यनुशयास्तत्सहभुव इति। धातुप्रकाराकारभिन्नाः, सत्काय-
दृष्ट्यादयोऽनुशयाः। तत्सहभुवो विज्ञानवेदनादयः सम्प्रयुक्ताः। असम्प्रयुक्तानि
च तल्लक्षणानुलक्षणानि। तत्प्राप्तयश्च सानुचरा इति। तच्छब्देनानुशयादयः
सम्बध्यन्ते। तेषामनुशयानां तत्सहभुवां च प्राप्तयस्तत्प्राप्तयो यद्यप्यनुशयसहभुवो
भवन्ति, न तु सर्वाः। काश्चिद्धि प्राप्तयोऽनुशयादिसहभुवो भवन्ति याः सहजाः।
काश्चित् तु पूर्वं पश्चाच्च तेभ्यो भवन्ति। अतः पृथक् प्राप्तिग्रहणम्। सानुचरा
इति ग्रहणेनानुप्राप्तयस्तल्लक्षणानि च संगृह्यन्ते। शेषाः सास्रवा भावनाहेया
इति। एत एव त्रयोऽन्या धातवो ये शेषा दर्शनहेयेभ्योऽन्ये सास्रवास्ते
भावनाहेयाः। के पुनस्ते? दशानुशयास्तत्सहभुवस्तत्प्राप्तयश्च सानुचरा
कुशलसास्रवाः, अनिवृताव्याकृताश्च संस्कारा। अविज्ञप्तिरूपं च सास्रवं
सानुचरम्। अनास्रवा अहेया इति। मार्गसत्यासंस्कृतस्वभावाः।
ननु चान्यदपीति। विस्तर.-पृथग्जनत्वमनिवृताव्याकृतसंस्कारस्वभावत्वाद्
भावनाहेयमध्यगतम्। अपायसंवर्तनीयं च कायवाक्कर्म रूपस्वभावत्वाद् भावना-
हेयमुक्तमिति। अतश्चोदयन्ति वात्सीपुत्रीयाः—आर्यमार्गविरोघित्वादिति। पृथग्-
जनत्वमार्यमार्गोत्पादे न भवति। नियते चापायिके कर्मणि सत्यार्यमार्गो
नोत्पद्यते। आर्यमार्गोत्पादे च सत्यापायिकं कर्म नोत्पद्यते। तस्मात् सत्काय-
दृष्ट्यादिवत् तदुभयं दर्शनहेयमिति वर्णयन्ति। तत्प्रतिषेधार्थमुक्तमप्येतदभि-
संक्षेपेण।
सुखप्रतिपत्त्यर्थं पुनरुच्यते—“न दृष्टिहेयमक्लिष्टं न रूपं नाप्यषष्ठजम्।”
दृष्टिः=दर्शनम्। अक्लिष्टमनिवृताव्याकृतं कुशलं वा न दर्शनहेयम्। रूपं तु
क्लिष्टमपि न दर्शनहेयम्। अषष्ठजं पञ्चेन्द्रियजं पञ्चविज्ञानम्, तद्रूपं क्लिष्ट-
मपि सन्न दर्शनहेयम्। अतोऽन्यत्तु दर्शनहेयं सम्भवति यथोक्तम्।
अक्लिष्टाव्याकृतं च पृथग्जनत्वम्। समुच्छिन्नकुशलमूलवीतरागाणामपि तत्स-
मन्वागमादिति। समुच्छिन्नकुशलमूलाः कुशलैर्धर्मैरसमन्वागता इष्टाः। पृथग्-
निर्देशः ] प्रथमं कोशस्थानम् १११
कायवाक्कर्म । तस्मान्न दर्शनप्रहातव्यम् । किं¹ पुन: कारणम्¹ ? सत्येष्वविप्रति-
पत्तेः, अनालम्बकत्वाच्च² । दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसङ्गाच्च ।
षष्ठमुच्यते मनआयतनम्, तस्मादन्यत्र जातमषष्ठजं पञ्चेन्द्रियं च यत्
तदपि नास्ति दर्शनप्रहातव्यम् ॥ ४० ॥
जनत्वेन तु समन्वागता । यस्मात्ते पृथग्जना इष्यन्ते, तस्मान्न कुशलं पृथग्-
जनत्वम् । क्लिष्टमपि तन्न भवति, वीतरागाणामपि तेन समन्वागमात् ।
क्लिष्टस्य हि वस्तुनः स्वभावप्रहाणमिष्यते । प्राप्तिच्छेदः प्रहाणमित्यर्थः ।
तद्यदि पृथग्जनत्वं क्लिष्टं स्यात्, लौकिकवीतरागाणां तस्य प्राप्तिच्छेद इति
तेनासमन्वागमः स्यात्, इष्यते च तेषां तेन समन्वागमः । तथा हि ते लौकिक-
वीतरागा पृथग्जना एवेष्यन्ते । अक्लिष्टाव्याकृतत्वैकत्वेऽदोषः । छन्दराग-
प्रहाणं ह्यक्लिष्टस्येष्यते । तदालम्बनक्लेशप्राप्तिच्छेद इत्यर्थः । न तु तदात्मीय-
प्राप्तिच्छेद इष्यते । तथा ह्युक्तं भगवता—“यो भिक्षवो रूपे छन्दरागस्तं
प्रजहीत । एवं तद्रूपं प्रहीणं भवति” ( ) इति विस्तरः ।
तस्मादक्लिष्टाव्याकृतं पृथग्जनत्वं तेषां प्रहीणमपि चक्षुरादिवत् समुदाचरति ।
अतस्तेन समन्वागमो भवति ।
[के पुन: कारणम् ? अक्लिष्टाव्याकृतत्वात् पृथग्जनत्वं न दर्शनप्रहातव्यम् ।
रूपत्वाच्च कायवाक्कर्म । इत्याह—सत्येष्वविप्रतिपत्तेः। अक्लेशदुष्टत्वात् पृथग्-
जनत्वं न दुःखादिषु सत्येषु विप्रतिपद्यते । न विपरीतरूपेण प्रवर्तत इत्यर्थः ।
अनालम्बकत्वाच्च । कायवाक्कर्माप्यनालम्बकत्वादेव न विप्रतिपद्यते । तस्मात्
तदुभयं न दर्शनहेयम् । अयं च 'सत्येष्वविप्रतिपत्ते' इति हेतुरषष्ठजेऽप्यनु-
वर्तयितव्यः । दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसङ्गाच्चेति । अयमुपचयहेतुः ।
पृथग्जनत्वस्यैव दर्शनहेयत्वनिवृत्त्यर्थमुच्यते, कायवाक्कर्मणोऽनभिसम्बन्धात् ।
दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्राप्तिश्छिद्यते, न तु छिन्ना, तत्प्रहेयक्लेशप्राप्ति-
वत्; “निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम्” ( अभि० को० ६ ८१ )
इति वचनात् । दुःखे धर्मज्ञाने तु तत्प्राप्तिश्छिन्ना । तेन तत्प्राप्तिसद्भावाद्
दुःखे धर्मज्ञानक्षान्त्यवस्थायां स पुद्गलः पृथग्जनः स्यात् । न चासौ तस्याम-
वस्थायां पृथग्जन इति शक्यते व्यवस्थापयितुम्, अधिगतार्यमार्गत्वात् । तथा
हि—“पृथग्जनत्वं कतमत् ? आर्यधर्माणामलाभः” इति पृथग्जनत्वलक्षणम् ।
स चार्यधर्माणां लाभेनालाभो व्याववर्त्यते । तस्मादार्य एवासाविति ।
१-१. का० पुस्तके नास्ति । २. का० पुस्तके नास्ति ।
११२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
अष्टादशानां धातूनां कति दृष्टिः ? कति न दृष्टिः ?
चक्षुश्च धर्मधातोश्च प्रदेशो दृष्टिः,
कतमः सः ? इत्याह—
अष्टधा ।
पञ्च सत्कायदृष्ट्यादिका दृष्टयः, लौकिकी सम्यग् दृष्टिः, शैक्षी दृष्टिः,
अशैक्षी दृष्टिः—इत्ययमष्टप्रकारो धर्मधातुर्दृष्टिः, अवशिष्टो न दृष्टिः ।
तत्र सत्कायदृष्ट्यादीनामनुशयनिर्देशे निर्देशः प्राप्तकालो भविष्यति ।
लौकिकी पुनः सम्यग्दृष्टिर्मनोविज्ञानसम्प्रयुक्ता कुशलसास्रवा प्रज्ञा । शैक्ष-
स्यानास्रवा दृष्टिः शैक्षी, अशैक्षस्य अशैक्षी । समेघामेघरात्रिन्दिवरूपदर्शनवत्
क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर्दृष्टिभिर्धर्मदर्शनम् ।
इदं तावद्ब्रुवन्तो वैभाषिकाः प्रष्टव्याः—तत्पृथग्जनत्वं किं भावनामार्गप्रति-
लम्भादेव प्रहीयते ? नेत्युच्यते । तत्पृथग्जनत्वं नवभौमिकम् । कामावचरं यावद्
भावाग्रिकम् । तच्चाक्लिष्टम् । तेन प्रतिभूमिनवमक्लेशप्रकारप्रहाणावस्थाया
प्रहीयते । सर्वं ह्यक्लिष्टं सास्रवं नवम एव विमुक्तिमार्गे प्रहीयते । यद्येवम्, अवीत-
रागावस्थायामार्यः पृथग्जनः स्यात् ? न, पृथग्जनत्वस्य विहीनत्वात् । दुःखे
धर्मज्ञानक्षान्तेः प्रभृति हि तद्विहीनमेव, न तु प्रहीणम् । कः पुनर्विहानप्रहाण-
योर्विशेष इति ? विहानं प्राप्तिच्छेदे व्यवस्थापितम्, प्रहाणं तु प्रतिपक्षलाभे
व्यवस्थापितम् । तस्मात् प्राप्तिच्छेदात्तेन पृथग्जनत्वेनासमनवागमात् तस्यामव-
स्थायामार्य एव भवति, न पृथग्जन इत्यदोष एष ॥ ४० ॥
“चक्षुश्च धर्मधातोश्च प्रदेशो दृष्टिः” इति । चक्षुरेव धर्मधातुप्रदेश एव च
दृष्टिरित्यवधार्यते । सत्कायदृष्ट्यादिका इति । सत्कायदृष्टिः, अन्तग्राहदृष्टिः,
मिथ्यादृष्टिः, दृष्टिपरामर्शः, शीलव्रतपरामर्शश्चेति ।
शैक्षस्यानास्रवेति । प्रज्ञेत्यधिकृतम् । अशैक्षस्याशैक्षीति । अशैक्षस्यानास्रवा
प्रज्ञाऽशैक्षी । क्षयानुत्पादज्ञानवर्ज्येति वक्तव्यम् । वक्ष्यति हि—“क्षयानुत्पाद-
धीर्न दृक्” (अभि० को० ७।१) इति । समेघामेघेति विस्तरेण यावत्
क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर्दृष्टिभिर्धर्मदर्शनमिति । लोके भवा लौकिकी ।
क्लिष्टा चाक्लिष्टा च क्लिष्टाक्लिष्टा, क्लिष्टाक्लिष्टा चासौ लौकिकी च क्लिष्टा-
क्लिष्टलौकिकी, क्लिष्टाक्लिष्टलौकिकी च शैक्षी चाशैक्षी च क्लिष्टाक्लिष्ट-
लौकिकीशैक्ष्यशैक्ष्यः, ताभिर्धर्मदर्शनम् । कीदृशम् ? इत्याह—समेघामेघरात्रि-
न्दिवरूपदर्शनवदिति । यथा समेघायां रात्रौ रूपदर्शनम्, एवं क्लिष्टया लौकिक्या
निर्देशः ] प्रथमं कोशस्थानम् ११३
अथ कस्माल्लौकिकी सम्यग्दृष्टिर्मनोविज्ञानसम्प्रयुक्तैवोच्यते ? यस्मात्—
पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणात् ॥ ४१ ॥
सन्तीरिका हि दृष्टिः, उपध्यानप्रवृत्तत्वात् । न चैवं पञ्चविज्ञानसहजा प्रज्ञा;
तस्मादसौ न दृष्टिः । अत एव चान्यापि क्लिष्टाऽक्लिष्टा वा प्रज्ञा न दृष्टिः ॥
चक्षुरिदानीमसन्तीरकत्वे कथं दृष्टिः ? रूपालोचनार्थेन । यस्मात्—
चक्षुः पश्यति रूपाणि,
यदि चक्षुः पश्येद्, अन्यविज्ञानसमङ्गिनोऽपि पश्येत् । न वै सर्वं चक्षुः
पश्यति, किं तर्हि ?
सभागं,
सविज्ञानकं यदा भवति तदा पश्यति, अन्यदा नेति ।
एवं तर्हि 'तदेव चक्षुराश्रितं विज्ञानं पश्यति' इत्यस्तु ?
न तदाश्रितम् ।
विज्ञानं,
पश्यतीति शक्यमविज्ञातुम् ।
सत्कार्यदृष्ट्यादिकया दृष्ट्या धर्मदर्शनम् । अव्यक्ततरमित्यर्थः । यथा तस्यामेव
रात्रावमेघाया रूपदर्शनम्, एवमक्लिष्टया लौकिक्या दृष्ट्या धर्मदर्शनम् ।
अव्यक्तमित्यर्थः । यथा समेघे दिवसे रूपदर्शनम्, एवं शैक्ष्या दृष्ट्या धर्म-
दर्शनम् । व्यक्तम्, न त्वत्यर्थम् । यथा पुनरमेघे दिवसे रूपदर्शनम्, एवमशैक्ष्या
दृष्ट्या धर्मदर्शनम् । अत्यर्थं व्यक्तमित्यर्थः ।
“अतीरणात्” इति । अयसन्तीरणात् । सन्तीरणं पुनर्विषयोपनिध्यानपूर्वकं
निश्चयाकर्षणम् । अत एव चान्यापीति । विस्तर—अत एवासन्तीरणादन्यापि
मानसी क्लिष्टा रागादिसम्प्रयुक्ता । अक्लिष्टा वा क्षयानुत्पादज्ञानानिवृताब्याकृता
प्रज्ञा न दृष्टिः । रूपालोचनार्थेनेति । चक्षुर्न सन्तीरकत्वेन दृष्टिः, किं तर्हि ?
रूपालोचनार्थेन । प्रज्ञा तु सन्तीरकत्वेनेति दर्शितं भवति ॥ ४१ ॥
अन्यविज्ञानसमङ्गिन इति । अन्यविज्ञानसम्मुखीभाविन पुद्गलस्यान्यविज्ञान-
व्यासक्तस्येत्यर्थः । पश्येच्चक्षुरिन्द्रियम्, विषयादिसान्निध्यात् । यस्य तु 'चक्षु-
विज्ञानं पश्यति' इति पक्षः, तस्य तद्विज्ञानासम्भवाददोषः ।
तदेव चक्षुराश्रितं विज्ञानं पश्यतीत्यस्तीति । दर्शनस्य तद्भावे भावात्, तद
भावे चाभावात् ।
अभि० को० ८
११४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
किं कारणम् ?
दृश्यते रूपं न किलन्तरितं यतः ॥ ४२ ॥
यस्मात् किल रूपं कुड्यादिव्यवहितं न दृश्यते ।
यदि हि विज्ञानं पश्येत्, तस्याप्रतिघत्वात् कुड्यादिषु प्रतिघातो नास्ति
इत्यावृतमपि रूपं पश्येत् । नैव ह्यावृते चक्षुर्विज्ञानमुत्पद्यत इत्यनुत्पन्नं कथं द्रक्ष्यति !
किं खलु नोत्पद्यते ? यस्य तु चक्षुः पश्यति तस्य चक्षुषः सप्रतिघत्वाद्
व्यवहिते वृत्त्यभाव इति विज्ञानस्याप्यनुत्पत्तिराश्रयेण¹ सहैकविषयप्रवृत्तत्वात्¹
युज्यते ।
किं नु वै चक्षुः प्राप्तविषयं कायेन्द्रियवत् यत आवृत्तं न पश्येत् ? सप्रति-
“दृश्यते रूपं न क्लान्तरितं यतः” इति । किलशब्दः परमतौ । तस्या-
प्रतिघत्वादिति । विज्ञानममूर्तं कुड्यादीन्यतिक्रम्यापि पश्येत् । विज्ञानवाद्याह—
नैव ह्यावृते चक्षुर्विज्ञानमुत्पद्यत इति । अनाभासगतत्वाद् विषयस्येत्यभिप्रायः ।
किं खलु नोत्पद्यत इति । अप्रतिघत्वात् कुड्यादीनि व्यतिभिद्य कुड्याद्यव्यव-
हित इव विषये विज्ञानमुत्पत्स्यत इति भावः । यस्य त्विति । यस्य मम
वैभाषिकस्य पक्ष—चक्षुः पश्यतीति, तस्य मम चक्षुषः सप्रतिघत्वाद् व्यवहिते
कुड्यादिभिर्वृत्त्यभावः । तस्य चक्षुष आलोचनवृत्त्यभावः ।
विज्ञानं तर्हि वैभाषिकस्य व्यवहितेऽपि प्राप्नोति—इति चोद्यमन्तर्नीतंमा-
शङ्क्य स एव वैभाषिकः पुनराह—विज्ञानस्याप्यनुत्पत्तिरिति । यथैव चक्षुषो
व्यवहिते वृत्त्यभावो युज्यते, विज्ञानस्याप्यनुत्पत्तिर्विज्ञानवृत्त्यभावः । आश्रयेण
सहैकविषयप्रवृत्तत्वाद् युज्यते । य एव हि चक्षुषो व्यवहितोऽर्थो विषयः स्यात्, स
एव विज्ञानस्येति युक्ता विज्ञानस्याप्यनुत्पत्तिः । तव तु विज्ञानवादिनोऽप्रति-
घत्वाद् विज्ञानस्य व्यवहिते विज्ञानमुत्पद्येत, न तूत्पद्यते । तस्मात् 'चक्षुः पश्यति
न विज्ञानम्' इति सिद्धम् ।
एवं विज्ञानवादिनि प्रतिषिद्धे तत्पक्षमाचार्या गृहीत्वाह—किं नु वै चक्षुः प्राप्त-
विषयमिति । विस्तर—यथा कायेन्द्रियं प्राप्तविषयं कुड्यादिव्यवहितं विषयं
न गृह्णाति, कुड्यादिप्रतिघातात् तत् परेण प्रवर्तितुमलभमानत्वात्, किमेवं
चक्षुः प्राप्तविषयं कुड्यादिप्रतिघातेन प्रतिहतं सत् तत् परेण गन्तुमलभमानं
तं कुड्यादिव्यवहितं विषयं न गृह्णातीति ? नैतद्युज्यते । तस्मात् सप्रतिघत्वा-
।
१-१. ०स्यानुत्यत्तिराश्रयेणैक०-का० ।
निर्देशः ] प्रथमं कोशस्थानम् १५७
घत्वात् । काचाभ्रपटलस्फटिकाऽम्बुभिश्चान्तरितं कथं दृश्यते ? तस्मान्न सप्रति-
घत्वाच्चक्षुष आवृत्तस्य रूपस्यादर्शनम्, किं तर्हि ? यत्रालोकस्याप्रतिबन्ध
आवृते¹ रूपे, तत्रोत्पद्यत एव चक्षुर्विज्ञानम् । यत्र तु प्रतिबन्धस्तत्र नोत्पद्यत
इत्यनुत्पन्नत्वादावृतं नेक्ष्यते² ।
यत्तर्हि सूत्र उक्तम्—“चक्षुषा रूपाणि दृष्ट्वा” ( ) इति ?
तेनाश्रयेणेत्ययमत्राभिसन्धिः । यथा “मनसा धर्मान् विज्ञाय” इत्याह, न हि³
मनो धर्मान् विजानाति; अतीतत्वात् । किं तर्हि ? मनोविज्ञानम् ।
आश्रितकर्म वा आश्रयस्योपचर्यते, यथा 'मञ्चा. क्रोशन्ति' इति । यथा च
दावृतं चक्षुर्न पश्येदिति न वक्तव्यम् । काचाभ्रपटलस्फटिकाऽम्बुभिश्चान्तरितं कथं
दृश्यत इति । काचेनाभ्रपटलेन स्फटिकेनाम्बुना चान्तरितं व्यवहितं रूपं कथं
दृश्यते । सप्रतिघत्वाद्वि कुड्यादिव्यवहितवत् काचादिव्यवहितं चक्षुर्न पश्येत् ।
तच्च पश्यतीति सिद्धान्त । यत्रालोकस्याप्रतिबन्ध इति । आलोके हि सति
विषय आभासगतो भवतीति विज्ञानोत्पत्तिसम्भव । एवं हि विज्ञानकारणं
पठ्यते—चक्षुरिन्द्रियमनुपहतं भवति, विषय आभासगतो भवति, तज्जश्च
मनस्कार प्रत्युपस्थितो भवतीत्यत आवृते रूपे काचादिभिस्तत्रोत्पद्यत एव
चक्षुर्विज्ञानम् । यत्र तु प्रतिबन्धोऽकाचादिस्वभावे. कुड्यादिभिस्तमस्त्वाद्वा.,
त्रावृते नोत्पद्यत । किम् ? चक्षुर्विज्ञानमिति । अनुत्पन्नत्वादावृत नेक्ष्यत इति ।
यत् त्वया 'किं खलु नोत्पद्यते' इत्यनुत्पत्तौ कारणं पृष्टम्, इदं तत्कारण-
मिति ब्रूम ।
यत्तर्हि सूत्र उक्तमिति विस्तर. । चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही
भवति नानुव्यञ्जनग्राहीति विस्तर । यस्माच्चक्षु. पश्यति तस्मात् पुद्गलश्चक्षुषा
पश्यतीत्यभिप्राय । आचार्यः प्राह—तेनाश्रयेणेत्ययमत्राभिसन्धिः । चक्षुराश्रि-
त्येत्येवात्राभिसन्धि । चक्षुषा आश्रयेण विज्ञानेन दृष्ट्वेत्यर्थ । कथं ज्ञायते ?
इत्याह—यथा मनसा धर्मान् विज्ञायेति । मनसा आश्रयेण विज्ञानेन विज्ञायेति
भवति । न ह्यनन्तरातीतं मनो धर्मान् विजानाति । वर्तमानावस्थाया हि
विज्ञानं कारित्रं करोति ।
आश्रितकर्म वा आश्रयस्योपचर्यत इति । आश्रितस्य विज्ञानस्य कर्म दर्शन-
माश्रयस्य चक्षुष उपचर्यते । विज्ञाने पश्यति सति चक्षु पश्यतीत्युपचार ।
यथा मञ्चाः क्रोशन्तीति । यथा मञ्चस्थेषु पुरुषेषु क्रोशत्सु मञ्चा क्रोशन्तीत्युप-
१. आवृतेऽपि—का० । २. नेक्ष्यते—का० । ३ च—का० ।
११६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
सूत्रे उक्तम्—"चक्षुर्विज्ञेयानि रूपाणि¹ कान्तानि” ( ) इति ।
न च तानि चक्षुषा विज्ञायन्ते ।
उक्तं च सूत्रे—"चक्षुर्ब्राह्मण द्वारं यावदेव रूपाणां दर्शनाय" (
) इति, अतो गम्यते—तेन चक्षुषा द्वारेण विज्ञानं पश्यतीति । दर्शने
तत्र द्वाराख्या । न ह्येतद् युज्यते—दर्शनं² रूपाणा दर्शनायेति ।
यदि विज्ञानं पश्यति को विजानाति ? कश्चानयोर्विशेषः ? यदेव हि रूपस्य
विज्ञानं तदेवास्य दर्शनमिति । तद्यथा काचित् प्रज्ञा पश्यत्यप्युच्यते³, प्रजाना-
तीत्यपि । एवं किञ्चिद् विज्ञानं पश्यतीत्यप्युच्यते, विजानातीत्यपि ।
चार, तद्वत् । यथा च सूत्र उक्तमिति विस्तरः । वैभाषिकाणामप्ययं पक्ष.—न
चक्षुर्विजानाति, किं तर्हि ? विज्ञानं विजानातीति । अथ चोक्तम्—चक्षुर्विज्ञेयानि
रूपाणि कान्तानीति ? तत्राश्रितकर्म आश्रयस्योपचर्यत इत्यवश्यं प्रतिपत्तव्यम् ।
द्वारं यावदेव रूपाणा दर्शनायेति । द्वारमिव द्वारम् । हेतुराश्रय इत्यभिप्राय ।
अनेनागमेन तेनाश्रयेणेति योऽर्थ उक्तस्तमेव समर्थयति—तेन चक्षुषा द्वारेण विज्ञानं
पश्यतीति । दर्शने तत्र द्वाराख्येति । चक्षुर्ब्राह्मण द्वारं दर्शनं यावदेव रूपाणा
दर्शनायेत्यर्थ । न ह्येतद्युज्यते—दर्शनं रूपाणा दर्शनायेति । अत्रावाचकत्वान्नैतद्
युज्यत इत्यभिप्राय । यदि दर्शनं करणम्—दृश्यतेऽनेनेति दर्शनमिति, कर्तरि
वा ल्युट्—पश्यतीति दर्शनमिति, दर्शनायेति वा भावसाधनम् । दृष्टिर्दर्शनं
तस्मै दर्शनायेति कथमेतन्न युज्यते ? यस्माच्चक्षुर्व्यतिरिक्तं दर्शनं नास्ति ।
आलोचनमिति चेत् ? न; विज्ञानाव्यतिरिक्तत्वात् । विज्ञानमेव हालोचनम्,
नातोऽन्यन् पश्याम । यदि तु चक्षुर्द्वारं विवरं रूपाणा दर्शनाय विज्ञानायेत्यर्थो
गृह्येत, तद्युज्यते ।
तद्यथा काचित्प्रज्ञा पश्यत्यप्युच्यत इति । पश्यतीत्यप्युच्यते इति इतिशब्दो-
ऽत्राध्याहार्य । अनेनोपन्यासेन दर्शनविज्ञानयोरनर्थान्तरभाव इति दर्शयति ।
का पुनरसौ या प्रज्ञैवमुच्यते ? या दर्शनात्मिकोक्ता—"तदन्योभयथार्या धी"
(अभि० को० ७ १) इति, "तस्यैवं जानत एवं पश्यत." ( )
इति सूत्रे वचनात् । किञ्चिदिति वचनान्न सर्वं विज्ञानं पश्यतीत्युक्तं भवति ।
चक्षुर्विज्ञानं हि पश्यतीत्युच्यते, न तु श्रोत्रादिविज्ञानमिति ।
१ रूपाणीष्टानि—का० । २ चक्षुर्दर्शन—का० ।
३ पश्यतीत्य०—का० ।
। 7 । प्रथमं कोशस्थानम् ११७
अन्ये^१ पुनराहु — "यदि चक्षुः पश्यति कर्तृभूतस्य चक्षुष काऽन्या
दृशिक्रिया इति वक्तव्यम्"? तदेतच्चोद्यम्; यदि^२ 'विज्ञानं विजानाति'
इषीष्यते, न च तत्र कर्तृक्रियाभेदः, एवमत्रापि ।
अपरे^३ पुनर्ब्रूवते — "चक्षुर्विज्ञानं दर्शनम्, तस्याश्रयभावान्न 'चक्षु पश्यति'
इत्युच्यते । यथा नादस्याश्रयभावान् 'घण्टा नदति' इत्युच्यते" इति ।
ननु चैवं विज्ञानस्याश्रयभावाच्चक्षुर्विजानातीति प्राप्नोति ? न प्राप्नोति,
तद्विज्ञानं दर्शनमिति रूढं लोके । तथा हि तस्मिन्नुत्पन्ने 'रूपं दृष्टम्' इत्युच्यते,
न विज्ञातम् ।
विभाषायामप्युच्यते^४ — "चक्षु सम्प्राप्तं चक्षुर्विज्ञानानुभूतं दृष्टमित्युच्यते
इति । तस्माच्चक्षुः पश्यतीत्येवोच्यते, न विजानातीति । विज्ञानं तु सान्निध्य-
मात्रेण रूपं विजानातीत्युच्यते । यथा — सूर्यो दिवसकर" इति ।
कान्या दृशिक्रियेति । यस्योपलम्भकत्वं तस्य दर्शनं युज्यत इत्यभिप्रायः ।
तदेतच्चोद्यमिति विस्तरः । यदि विज्ञानं विजानाति । कर्तृभूतस्य विज्ञानस्य
कान्या विज्ञानक्रियेति वक्तव्यमिति तुल्यं चोद्यमापद्यते । न च तत्र कर्तृक्रिया-
भेदः । न कर्तुर्विज्ञानस्य क्रियायाश्च विज्ञानलक्षणाया भेदोऽन्यत्वमस्ति । भवति
च कर्तृक्रियासम्बन्धव्यपदेशः—विज्ञानं विजानातीति, तद्वदिहापि भवत्—
चक्षुः पश्यतीत्यचोद्यमेतत् ।
चक्षुर्विज्ञानं दर्शनमित्यपरे । तस्याश्रयभावाच्चक्षः पश्यतीत्युच्यत । यथा नाद-
स्याश्रयभावाद् घण्टा नदतीत्युच्यते ।
विज्ञानं तर्हि कस्याश्रयभावाद् रूपं विजानाति ? इत्याह—विज्ञानस्या-
श्रयभावादिति । चक्षुर्विज्ञानस्याश्रयभावादित्यर्थः । तद्विज्ञानं दर्शनमिति रूढं
लोक इति । दर्शनमिति लोके रूढम्, न तु विज्ञानमिति रूढम् । कथं गम्यते ?
इत्याह—तथा हि तस्मिन्नुत्पन्ने रूपं दृष्टमित्युच्यते न विज्ञातमिति ।
विभाषायामप्युच्यत इति । स एवार्थोऽभिधीयत इत्यभिप्रायः । चक्षुःसम्प्राप्तं
चक्षुराभासगतम् । विज्ञानं तु सान्निध्यमात्रेणेति । नाश्रयभावेनेति दर्शयति ।
यथा सूर्यो दिवसकर इति । यथा सान्निध्यमात्रेण सूर्यो दिवसं करोतीत्युच्यते
तथा विज्ञानं विजानातीत्युच्यते । कस्मात् ? लोके तथा सिद्धत्वात् ।
१ वात्सीपुत्रीया इत्यर्थः । २ यदि हि—का० ।
३. 'अपरे' शब्देन धर्मगुप्तमतानुयायिनो वेदितव्याः । ४ ०मप्युक्तम्—का० ।
अत्र सौत्रान्तिका आहुः—किमिदमाकाशं खाद्यते ? चक्षुर्हि प्रतीत्य
रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् । तत्र कः पश्यति को वा दृश्यते ! निर्व्यापारं
हीदं धर्ममात्रम्, हेतुफलमात्रं च । तत्र च्छन्दत¹ उपचारा. क्रियन्ते—
चक्षुः पश्यति, विज्ञानं विजानातीति नात्राभिनिवेष्टव्यम् । उक्तं हि भगवता—
“जनपदनिरुक्ति नाभिनिविशेत संज्ञां च लोकस्य नाभिधावेद्” ( ) इति ।
एष तु काश्मीरवैभाषिकाणां सिद्धान्तः —चक्षुः पश्यति, श्रोत्रं शृणोति,
घ्राणं जिघ्रति, जिह्वा आस्वादयति, काय स्पृशति, मनो विजानातीति ॥ ४२ ॥
तद्यदि चक्षुः पश्यति, किमेकेन चक्षुषा रूपाणि पश्यति ? आहोस्विद्
उभाभ्याम् ? नात्र नियम ।
उभाभ्यामपि चक्षुर्भ्यां पश्यति व्यक्तदर्शनात् ।
उभाभ्यामपि चक्षुर्भ्यां पश्यतीत्याभिधर्मिकाः । तथा हि—द्वयोर्वि-
वृतयोः परिशुद्धतरं दर्शनं भवति । एकस्मिंश्चोन्मीलिते चक्षुषि द्वितीये चार्थ-
निमीलिते द्विचन्द्रादिग्रहणं भवति; नैकतरान्यथीभावात् ।
निर्व्यापारं हीदमिति विस्तर. । निर्व्यापारमिति निरीहम् । अनेन हि
कर्तुरर्थान्तरभूता क्रिया प्रतिषेधति । धर्ममात्रमिति स्वतन्त्रस्य कर्तु. प्रति-
पेधं करोति । हेतुफलमात्रं चेति । असत्यपि कर्तरि हेतुफलयो. कार्यकारणमर्थत्वं
दर्शयति । तत्र च्छन्दत उपचाराः क्रियन्ते । यदि वस्तु व्यवहाराङ्गम् । तेनेह
व्यवहारार्थंसंसिद्ध्यर्थमसदर्पि सद्रूपेण परिकल्प्य कर्तृक्रियादिव्यवस्थानं क्रियते-
चक्षुः पश्यति, विज्ञानं विजानातीत्येवमादि । नात्राभिनिवेष्टव्यम् । भावो
भवितृपेक्षोऽन्य इत्यादि । जनपदनिरुक्ति नाभिनिविशेतेति । जनपदस्तत्र नियता
निश्चिता चोक्तिर्जनपदनिरुक्तिः, ता नाभिनिविशेत । कस्मात् ? अत्रेयं
निरुक्तिरिति, न वा सर्वामिवार्थवती निरुक्ति कल्पयेत् । संज्ञा च लोकस्य
नाभिधावेदिति । ‘आत्मा’, ‘जीव’ इत्येवमादिका संज्ञा लोकस्य नाध्यारोपयेत् ।
अभूतसमारोपेण अस्यात्मा शरीरादिव्यतिरिक्त इति नातीव गच्छेदित्यर्थः ।
अथ वा—संज्ञा च लोकस्य नाभिधावेन्नातिसरेत् । अर्थाभावात् संज्ञापि नास्तीति
न कल्पयेदित्यर्थः । अतिसरणम्=अतिक्रमणमित्येकोऽर्थं ॥ ४२ ॥
उभाभ्यामपि इति । अपिशब्दादेकेनापि नात्र नियम. । द्वयोर्विवृतयोः
परिशुद्धतरं दर्शनमित्युक्तं भवति । नैकतरान्यथीभावादिति । उन्मीलिताधोनिमी-
१ व्यवहाराथं०—का० ।
? No, it's लत्वं. Wait, let me look at line 25 again: धर्मिविशेषविपर्ययात्पक्षा-orधर्मिविशेषविपर्ययापक्षा-? Look at या: after याthere is noत्, wait, or is that त्? Look at विपर्यया: there is या, and then प. There is NO त्! Wait, could it be धर्मिविशेषविपर्यया पक्षा-? Wait, look at: धर्मिविशेषविपर्ययापक्षा-Wait, could it beधर्मिविशेषविपर्ययात् पक्षा-? Where would the त्be? There is none. Wait, let's transcribe what is visible: Line 25:जायेरन्, तद्वत् । अनेन स्वविषयदेशप्राप्तित्वपक्षस्य धर्मिविशेषविपर्ययापक्षा-Line 26:लत्वं दर्शयति । सम्भवद्दिव्यत्वे हि चक्षुःश्रोत्रे धर्मी । असम्भवद्दिव्यत्वभावो`
Wait, let's re-examine:
Line 26:
लत्वं दर्शयति । सम्भवद्दिव्यत्वे हि चक्षुःश्रोत्रे धर्मी । असम्भवद्दिव्यत्वभावो
Line 27:
`